धर्मः

01 नेमं लौकिकमर्थम् पुरस्कृत्य ...{Loading}...

नेमं लौकिकम्-अर्थं पुरस्कृत्य
धर्मांश् चरेत् १

02 निष्फला ह्यभ्युदये भवन्ति ...{Loading}...

निष्फला ह्य् अभ्युदये भवन्ति २

03 तद्यथाम्रे फलार्थे निर्मिते ...{Loading}...

तद् यथा ऽऽम्रे फलार्थे निर्मिते
छाया गन्ध इत्य् अनूत्पद्येते,
एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते ३

04 नो चेदनूत्पद्यन्ते न ...{Loading}...

नो चेद् अनूत्पद्यन्ते,
न धर्म-हानिर् भवति ४

साधारण-धर्माः

06 अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग ...{Loading}...

अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति ६

03 सर्वेषामुपनयनप्रभृति समान आचार्यकुले ...{Loading}...

सर्वेषाम् उपनयन-प्रभृति समान आचार्य-कुले वासः ३

04 सर्वेषामनूत्सर्गो विद्यायाः ...{Loading}...

सर्वेषाम् अनूत्सर्गो विद्यायाः ४

05 बुद्ध्वा कर्माणि यत्कामयेत ...{Loading}...

बुद्ध्वा कर्माणि यत् कामयेत तद् आरभेत ५

06 यथा विद्यार्थस्य नियम ...{Loading}...

यथा विद्यार्थस्य नियम,
एतेनैवान्तम् अनूपसीदत+++(ः= उपसदनतः)+++
आचार्य-कुले शरीर-न्यासो ब्रह्मचारिणः +++(नैष्ठिकस्य)+++६

07 अथापि प्रजापतेर्वचनम् ...{Loading}...

अथापि प्रजापतेर्वचनम् ७

08 त्रयीं विद्याम् ब्रह्मचर्यम् ...{Loading}...

त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित् सह +++(वयम् प्रजापतयः)+++ स्मो, रजो भूत्वा ध्वंसते ऽन्यत् प्रशंसन्न् इति ८

13 तत्र ये पुण्यकृतस्तेषाम् ...{Loading}...

तत्र ये पुण्यकृतस् तेषां प्रकृतयः परा ज्वलन्त्य +++(= तारारूपेण)+++ उपलभ्यन्ते १३

आश्रमाः

01 चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलम् ...{Loading}...

चत्वार आश्रमा गार्हस्थ्यम् आचार्यकुलं मौनं +++(=मुनिता/ सन्यासः)+++ वानप्रस्थ्यम् इति १

02 तेषु सर्वेषु यथोपदेशमव्यग्रो ...{Loading}...

तेषु सर्वेषु यथोपदेशम् अव्यग्रो वर्तमानः क्षेमं गच्छति २

वर्णः

04 चत्वारो वर्णो ब्राह्मणक्षत्रियवैश्यशूद्राः ...{Loading}...

चत्वारो वर्णा ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः ४

05 तेषाम् पूर्वस्पूर्वो जन्मतः ...{Loading}...

तेषां पूर्वस्-पूर्वो जन्मतः श्रेयान् ५

02 सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं ...{Loading}...

सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् २

03 ततः परिवृत्तौ कर्मफलशेषेण ...{Loading}...

ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते । तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ३

04 यथौषधिवनस्पतीनाम् बीजस्य क्षेत्रकर्मविशेषे ...{Loading}...

यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ४

+++(पाप-पुण्य-फलाभ्यां वर्ण-परिवर्तनम् अन्यत्रोक्तम्)+++

ब्राह्मणवृत्तिः

04 न तदाद्रियेत ...{Loading}...

न तदाद्रियेत

05 स्वकर्म ब्राह्मणस्याऽध्ययनमध्यापनं ...{Loading}...

स्वकर्म ब्राह्मणस्याध्ययनमध्यापनम्यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छः ४

10 अविहिता ब्राह्मणस्य वणिज्या ...{Loading}...

अविहिता ब्राह्मणस्य वणिज्या १०

11 आपदि व्यवहरेत पण्यानामपण्यानि ...{Loading}...

आपदि व्यवहरेत पण्यानाम्
अपण्यानि व्युदस्यन् +++(=वर्जयन् [वक्ष्यमाणानि] …)+++ ११

03 नात्यन्तमन्ववस्येत् ...{Loading}...

नात्यन्तमन्ववस्येत् ३

04 वृत्तिम् प्राप्य विरमेत् ...{Loading}...

वृत्तिं प्राप्य विरमेत् ४

क्षत्रिय-वृत्तिः

06 अन्यच्चापरिगृहीतम् ...{Loading}...

अन्यच्चापरिगृहीतम् +++(यथा मूलफलादिः)+++५

07 एतान्येव क्षत्रियस्याऽध्यापन ...{Loading}...

एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ६

शूद्रधर्मः

07 शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ...{Loading}...

शुश्रूषा शूद्रस्येतरेषां वर्णानाम् +++(फलवत् कर्म)+++७

08 पूर्वस्मिन्पूर्वस्मिन्वर्णे निःश्रेयसम्भूयः ...{Loading}...

+++(शूद्र-कृत-सेवा)+++ पूर्वस्मिन् पूर्वस्मिन् वर्णे निःश्रेयसम् भूयः ८

सम्बद्धविषयाः

“पापम्, पुण्यम्, दोषाः” इत्यादयो ऽन्यत्र। एवं विशेषा अपि।