१३ पुनः स्वधा दानं (पुनरर्घ्यं )

विश्वेदेव हस्तेऽपः प्रदाय अर्घ्य पवित्रमादाय हस्तेनिधाय, यादिव्या आपः + स्योना भवन्तु | ऋतु दक्ष संज्ञका विश्वे देवाः, इयं वो दक्षिणा तृप्तिः । पुनश्शुद्धोदकं । पवित्रं पात्रे निदध्यात् । प्राचीनावीती। पितृवरण ब्राह्मण हस्तेऽपः प्रदाय, पवित्रमादाय, हस्तेनिधाय, यादिव्याः + स्योना भवन्तु। वसुरुद्रादित्यस्वरूपाः पितुः, पितृपितामह प्रपितामहाः इयं वः स्वधा । पुनश्शुद्धोदकं । पवित्रं पात्रे निदध्यात् । प्रेत वरण ब्राह्मण हस्तेऽपः प्रदाय, पवित्र मादाय हस्ते, निधाय, यादिव्याः + स्योनाभवन्तु । गोत्र शर्मन् पितः, प्रेत इयन्ते दक्षिणा तृप्तिः । पुनः शुद्धोदकं । पवित्रं पात्रे निदध्यात् । उपवीती विष्णुवरण ब्राह्मण हस्तेऽपः प्रदाय पवित्र मादाय हस्ते निधाय यादिव्याः + स्योना भवन्तु । श्राद्ध संरक्षक श्री विष्णो इयन्ते दक्षिणा तृप्तिः । पुनशुद्धोदकं । पवित्रं पात्रे निदध्यात्।