११ महावीरस्य संमार्जनमाज्याहुतीश्च

अध्वर्युः :- अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याप्रच्छिन्नाग्रेण वेदेन आहवनीयस्योपरिष्टा-त्संमार्ष्टि देव पुरश्चर सघ्यासं त्वा । अथाज्याहुतीर्जुहोति । प्राणाय स्वाहा । प्राणायेदम् । व्यानाय स्वाहा । व्यानायेदम् । अपानाय स्वाहा । अपानायेदम् । चक्षुषे स्वाहा । चक्षुष इदम् । श्रोत्राय स्वाहा । श्रोत्रायेदम् । मनसे स्वाहा । मनस इदम् । वाचे सरस्वत्यै स्वाहा । वाचे सरस्वात्या इदम् । दक्षाय स्वाहा । दक्षायेदम् । क्रतवे स्वाहा । क्रतव इदम् । ओजसे स्वाहा । ओजस इदम् । बलाय स्वाहा । बलायेदम् । स्रुवेणाहवनीये सप्तैकादश वा आज्याहुतीर्हुत्वा ।