०४ संसृष्टाग्निविभागः

अथवा संसृष्टाग्निविभागं करिष्य इति सङ्कल्प्य तमग्निं प्रतिष्ठाप्य परिस्तीर्य आज्यं दर्वीञ्च संस्कृत्य परिषिच्य ‘सप्तते अग्ने’ इति पूर्णाहुतिं हुत्वा ‘अयं ते योनिर् ऋत्विय’ इति तमग्निं द्वयोस्समिधोः युगपदारोप्य ‘अच्छा गिरो मतय’ इति तमग्निं द्वेधा विभज्य ‘आजुह्वान’ ‘उद्बुध्यस्वे’ति द्वाभ्यां तयोरग्न्योः द्वे समिधावाधाय ‘अयाश्चाग्नेऽसि’ इत्येतया व्याहृतिभिश्च ‘अनाज्ञात’मित्यादिभिश्च द्वयोरग्न्योः प्रत्येकं हुत्वा दक्षिणपार्श्वस्थेऽग्नौ ज्येष्ठायाः वामभागस्थेऽग्नौ कनिष्ठायाश्च पुंसुवनादि कुर्यात् । पूर्वस्मिन्नग्नौ द्वितीयविवाहहोमेऽपि एवमेव विभागं कुर्यात् । बहुपत्नीकोऽप्येवमेव अग्नीनां संसर्गं विभागं च कुर्यात् ।

॥ इति प्रयोगचन्द्रिकायां सप्तदशः खण्डः ॥

[[36]]