०३ प्रणीति-पात्रम्

प्रणीति-पात्रं भिन्नं चेत्
‘अभिन्नो घर्मो जीरदानुः यत आत्तस्तदगन्पुनः’ इत्यभिमन्त्र्य

68 अभिन्नो घर्मो ...{Loading}...

+++(भिन्ने ऽपि कपाले)+++ अभि॑न्नो घ॒र्मो +++(→यज्ञो)+++, जी॒र+++(=उदक)+++-दा॑नु॒र्
यत॒ आत्त॒स् तद् अ॑ग॒न् पुनः॑ ।

‘घ॒र्मो दे॒वाꣳ अप्ये॑तु’ इति अन्यपात्रम् आनीय तस्मिन् पात्रे जलं पूरयित्वा व्याहृतिभिरुपतिष्ठेत ।

यदि प्रणीताः प्रणीयमाना वा सर्वा आपः परासिच्येरन्
‘अक्षितोस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिन्लोके’ इत्यभिमन्त्र्य

अक्षितोऽसि ...{Loading}...
मूलम् (संयुक्तम्)

अख्षि॑तो॒ऽस्यख्षि॑त्यै त्वा॒ मा मे᳚ ख्षेष्ठा अ॒मुत्रा॒मुष्मि॑न्लो॒के ॥

विश्वास-प्रस्तुतिः

अख्षि॑तो॒ऽसि ।

Keith

Thou art imperishable,

मूलम्

अख्षि॑तो॒ऽसि ।

भट्टभास्कर-टीका

अक्षितः अक्षीणोसि ।

विश्वास-प्रस्तुतिः

अख्षि॑त्यै त्वा +++(ददामि)+++।

Keith

for imperishableness thee;

मूलम्

अख्षि॑त्यै त्वा ।

भट्टभास्कर-टीका

अक्षित्यै इह चामुत्र चाक्षयाय त्वां ददामीति सामर्थ्यात् ।

विश्वास-प्रस्तुतिः

मा मे᳚ ख्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् लो॒के ॥ [10]

Keith

mayst thou not perish for me, yonder, in yonder world.

मूलम्

मा मे᳚ ख्षेष्ठा अ॒मुत्रा॒मुष्मि॑न्लो॒के ॥ [10]

भट्टभास्कर-टीका

स त्वममुत्र परलोके अस्मि[मुष्मि]न्नैन्द्रे ब्राह्मे प्राजापत्ये वा मा क्षेष्ठाः परलोके क्षयं मा गमः । यद्वा - मे ममामुष्मिन् लोके यदाहं परलोके भविष्यामि तदा तत्र ममोपभोगार्थम् । इह हि कृत्वा परत्र भुञ्जते । ‘क्षीयते वा अमुष्मिन्लोके’ इत्यादि ब्राह्मणम् ॥

इति षष्ठे तृतीयोनुवाकः ॥

‘आपोहिष्ठे’त्य् अन्याद्भिः पूरयित्वा

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

आयुर्मे धारयत ...{Loading}...
विश्वास-प्रस्तुतिः

भूर्
आयु॑र् मे धारयत।
प्रा॒णं मे॑ धारयत।
प्र॒जां मे॑ धारयत।
प॒शून् मे॑ धारयत।
मा म॒ आयुः॑ प्रा॒णः प्र॒जाः प॒शवः॒ परा॑सिच्येरन्।

मूलम्

भूर्
आयुर्मे धारयत
प्राणं मे धारयत
प्रजां मे धारयत
पशून् मे धारयत
मा म आयुः प्राणः प्रजाः पशवः परासिच्येरन्

इत्य् उपतिष्ठेत ।

‘ततं म आपः’ इति जुहुयात् ।

11 ततम्म आपस्तदु ...{Loading}...

त॒तम् म॒ आप॒स् तद् उ॑ तायते॒ पुनः॑ ।
स्वादि॑ष्ठा धी॒तिर्+++(=धारकं हविः)+++ उ॒चथा॑य+++(=कर्मणे)+++ शस्यते ।
अ॒यꣳ स॑मु॒द्र उ॒त वि॒श्व-भे॑षजः ।
स्वाहा॑-कृतस्य॒ सम् उ॑ तृप्णुत+++(=तृप्यत)++++ऋभुवः ।