०१ अग्निप्रणयनम्

अत्र प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयति । आहवनीये प्रणयनीयमाश्वत्थमिध्ममादीप्य । सिकताभिरुपयम्य अग्नये प्रणीयमानायानुब्रू३हि इति संप्रेष्यति । उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति । यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि । घृतेन त्वं तन्वं वर्धयस्व मा मा हिꣳसीरधिगतं पुरस्तात् स्वाहा । अपादानभूताय पावकायेदम् । प्रथमायां त्रिरनुक्तायामु-पयमनीभिरुपयम्य हरति । उत्तरवेद्यामुपर्यग्नौ धार्यमाणे व्याघारणप्रभृति संभारनिवपनान्तं कृत्वा ।

[तद्यथा = प्रतिप्रस्थात्रेऽग्निं प्रदाय जुह्वां पञ्चगृहीतं गृहीत्वा सर्वत्र हिरण्यमुपास्य-न्नक्ष्णयोत्तरवेदिमुत्तरनाभिं वा व्याघारयति । सिꣳहीरसि सपत्नसाही स्वाहा । उत्तरवेद्या इदम् । दक्षिणमंसम् । सिꣳहीरसि सुप्रजावनिस्स्वाहा । उत्तरवेद्या इदम् । उत्तरां श्रोणिम् । सिꣳहीरसि रायस्पोषवनिस्स्वाहा । उत्तरवेद्या इदम् । दक्षिणां श्रोणिम् । सिꣳहीरस्यदित्यवनिस्स्वाहा । उत्तरवेद्या इदम् । उत्तरमंसम् । सिꣳहीरस्यावह देवान्देवयते यजमानाय स्वाहा । उत्तरवेद्या इदम् । मध्ये । भूतेभ्यस्त्वा स्रुचमुद्गृह्य । पौतुद्रवै: १ परिधिभिरुत्तरवेदिं परिदधाति । विश्वायुरसि पृथिवीं दृꣳह मध्यमम् । ध्रुवक्षिदस्यन्तरिक्षं दृꣳह दक्षिणम् । अच्युतक्षिदसि दिवं दृꣳह उत्तरम् । अग्नेर्भस्मास्यग्ने: पुरीषमसि उत्तरवेद्यां संभारान्निवपति । गुल्गुलु सुन्धितेजनं श्वेतामुर्णास्तुकां पेत्वस्यान्तराश्रुङ्गीयाम् ।]

ऊर्णावन्तं प्रथमस्सीद योनिमिति होतुरभिज्ञाय । अग्ने बाधस्व विमृधो नुदस्वेत्याद्यतिमुक्तिहोमान्तं पशुवत् ।

[ तद्यथा - अग्ने बाधस्व वि मृधो नुदस्वापामीवा अप रक्षाꣳसि सेध । अस्माथ्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नस्सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नधाऽमृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठात् संभारेषु प्रतिष्ठाप्य । अग्ने: पुरीषमसि उत्तरत उपयमनीर्न्युप्य । मनुष्वत्त्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज उपसमिध्य । द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदम् । सप्तवत्या पूर्णाहुतिं जुहोति । अग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । अग्नय इदम् । वायुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । वायव इदम् । आदित्यो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । आदित्यायेदम् । विष्णुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । विष्णव इदम् । चतस्रोऽतिमुक्तीर्जुहोति । ]

एष सोमस्याहवनीयो यतः प्रणयति स गार्हपत्यः । तूष्णीं स्फ्यमादाय । ब्रह्मन्नुत्तरम् । वसवस्त्वा । यज्ञस्य त्वा । धा असि । उदादाय वेदिमनुवीक्षते ।