अशौचम्

बाल-प्रयतता

19 आन्नप्राशनाद्गर्भा नाप्रयता भवन्ति ...{Loading}...

आऽन्न-प्राशनाद् गर्भा नाप्रयता भवन्ति १९

20 आ परिसंवत्सराद् इत्येके ...{Loading}...

आ परिसंवत्सराद् इत्येके २०

21 यावता या दिशो ...{Loading}...

यावता या दिशो न प्रजानीयुः २१

22 ओपनयनाद् इत्य् अपरम् ...{Loading}...

ओपनयनाद् इत्य् अपरम् २२

23 अत्र ह्यधिकारः शास्त्रैर् ...{Loading}...

अत्र ह्य् अधिकारः +++(कर्मसु)+++ शास्त्रैर् +++(दत्ता)+++ भवति २३

25 स्मृतिश्च ...{Loading}...

स्मृतिश्च +++(एवं विद्यते)+++ २५

अशौच-कारणानि

07 रिक्तपाणिर् वयस उद्यम्याप ...{Loading}...

  • रिक्तपाणिर् वयस उद्यम्याप उपस्पृशेत् ७

16 शूनोपहतः सचेलो ऽवगाहेत ...{Loading}...

  • शूनोपहतः सचेलो ऽवगाहेत १६

17 प्रक्षाल्य वा तन् ...{Loading}...

प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाचम्य प्रयतो भवति १७

23 मूत्रङ् कृत्वा पुरीषं ...{Loading}...

  • मूत्रं कृत्वा पुरीषं वा मूत्रपुरीष-लेपान् अन्नलेपान् उच्छिष्टलेपान् रेतसश् च ये लेपास्, तान् प्रक्षाल्य पादौ च, +आचम्य प्रयतो भवति २३

10 श्यावान्तपर्यन्ताव् ओष्ठाव् उपस्पृश्याचामेत् ...{Loading}...

श्यावान्तपर्यन्ताव् ओष्ठाव् उपस्पृश्याचामेत् १०

11 न श्मश्रुभिर् उच्छिष्टो ...{Loading}...

  • न श्मश्रुभिर् उच्छिष्टो भवत्य् अन्तरास्ये सद्भिर् यावन् न हस्तेनोपस्पृशति ११

12 य आस्याद्बिन्दवः पतन्त ...{Loading}...

  • य आस्याद्बिन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् १२

13 ये भूमौ न ...{Loading}...

ये भूमौ न तेष्वाचामेदित्येके १३

14 स्वप्ने क्षवथौ शृङ्खाणिकाऽऽश्र्व्आलम्भे, ...{Loading}...

  • स्वप्ने क्षवथौ शृङ्खाणिका+++(=नासामलम्)+++-ऽऽश्र्व्-आलम्भे, लोहितस्य केशानाम्, अग्नेर्, गवां, ब्राह्मणस्य, स्त्रियाश् चालम्भे, महापथं च गत्वा ऽमेध्यं चोपस्पृश्याप्रयतं च मनुष्यं, नीवीं च परिधाय +अप उपस्पृशेत् १४

15 आर्द्रं वा शकृद् ...{Loading}...

आर्द्रं वा शकृद् ओषधीर् भूमिं वा १५

मृताशौचम्

02 मातुश् च योनिसम्बन्धेभ्यः ...{Loading}...

मातुश् च योनि-संबन्धेभ्यः पितुश् +++(स्वेन साकं)+++ चासप्तमात् पुरुषाद्
यावता वा संबन्धो ज्ञायते
तेषां प्रेतेषूदकोपस्पर्शनं
+++(मृतान्)+++ गर्भान्+++(=बालान्)+++ परिहाप्यापरिसंवत्सरान् २

03 मातापितराव् एव तेषु ...{Loading}...

माता-पितराव् एव तेषु +++(मृतापरिसंवत्सरेषु गर्भेषु)+++ ३

04 हर्तारश् च ...{Loading}...

हर्तारश् च ४

05 भार्यायाम् परमगुरुसंस्थायाञ् चाकालम् ...{Loading}...

भार्यायां परम-गुरु+++(=आचार्य-मातृ-पितृ)+++-संस्थायां +++(=मरणे)+++ च +++(परेद्युर्)+++ +आकालम् +++(२४ होराणाम्)+++ अभोजनम् ५

06 आतुरव्यञ्जनानि कुर्वीरन् ...{Loading}...

आतुर+++(=शोक)+++व्यञ्जनानि कुर्वीरन् ६

07 केशान् प्रकीर्य पांसूना, ...{Loading}...

केशान् प्रकीर्य पांसूना, +++(केशान्)+++ उप्य, एक-वाससो दक्षिणा-मुखाः सकृद्-उपमज्ज्योत्तीर्योपविशन्ति ७

08 एवन् त्रिः ...{Loading}...

एवं त्रिः ८

09 तत्प्रत्ययम् उदकमुत्सिच्याप्रतीक्षा ग्रामम् ...{Loading}...

+++(“मह्यम् उदकं दत्तम्” इति)+++ तत्+++(→प्रेत)+++-प्रत्ययम् उदकम् उत्सिच्य
+अ-प्रतीक्षा ग्रामम् एत्य
यत् स्त्रिय आहुस् तत् कुर्वन्ति ९

10 इतरेषु चैतदेवैक उपदिशन्ति ...{Loading}...

इतरेषु चैतद् एवैक उपदिशन्ति १०

अनध्यायः

03 तथा सम्बन्धेषु ज्ञातिषु ...{Loading}...

तथा संबन्धेषु ज्ञातिषु +++(मृतेषु त्र्यहम् अनध्याय इति ब्रह्मचारिनियमः। इतरेषाम् आशौचवतां तु यावद् आशौचमनध्यायः)+++३

04 मातरि पितर्याचार्य इति ...{Loading}...

मातरि पितर्य् आचार्य इति द्वादशाहाः ४

05 तेषु चोदकोपस्पर्शनन् तावन्तङ् ...{Loading}...

तेषु चोदकोपस्पर्शनं तावन्तं कालम् ५

वपनम्

06 अनुभाविनाञ् च परिवापनम् ...{Loading}...

अनु-भाविनां+++(=पश्चाज्-जातानां)+++ च परिवापनम् ६

07 न समावृत्ता वपेरन्न् ...{Loading}...

न समावृत्ता +++(केशान्)+++ वपेरन्न् अन्यत्र +++(याग-)+++विहाराद् इत्येके ७

08 अथापि ब्राह्मणं "रिक्तो ...{Loading}...

अथापि ब्राह्मणं - “रिक्तो वा एषोऽनपिहितो यन् मुण्डः। तस्यैतद् अपिधानं यच् छिखे"ति ८

09 सत्रेषु तु वचनाद् ...{Loading}...

सत्रेषु तु वचनाद् वपनं शिखायाः ९

अन्यत्रोक्तानि

प्रायश्चित्तम् अपपात्र-संसर्गे।

चौक्षता

13 मूढस्वस्तरे चासंस्पृशन्न् अन्यानप्रयतान्प्रयतो ...{Loading}...

मूढस्वस्तरे चासंस्पृशन्न् अन्यानप्रयतान्प्रयतो मन्येत १३

14 तथा तृणकाष्ठेषु निखातेषु ...{Loading}...

तथा तृणकाष्ठेषु निखातेषु १४