दण्डनम्

साधारण-दण्डन-विधिः

01 इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य ...{Loading}...

इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डम्प्रणयेत् १

02 न च सन्देहे ...{Loading}...

न च संदेहे दण्डं कुर्यात् २

03 सुविचितं विचित्या दैवप्रश्नेभ्यो ...{Loading}...

सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत ३

04 एवंवृत्तो राजोभौ लोकावभिजयति ...{Loading}...

एवंवृत्तो राजोभौ लोकावभिजयति ४

18 नियमातिक्रमणमन्यं वा रहसि ...{Loading}...

नियमातिक्रमणमन्यं वा रहसि बन्धयेत् १८

19 आ समापत्तेः ...{Loading}...

आ समापत्तेः १९

20 असमापत्तौ नाश्यः ...{Loading}...

असमापत्तौ नाश्यः २०

21 आचार्य ऋत्विक् स्नातको ...{Loading}...

आचार्य, ऋत्विक्, स्नातको, राजेति त्राणं +++(=दण्डन-ह्रासनम् “अहं वारयामीमम्” इति)+++ स्युर् - अन्यत्र वध्यात् २१

12 अदण्ड्यः कामकृते तथा ...{Loading}...

अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः १२

13 प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः ...{Loading}...

प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः स्पृशति १३

ब्राह्मण-दण्डनम्

12 न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्तानामार्या वधम् परिचक्षते ...{Loading}...

न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्तानामार्या वधं परिचक्षते ११

13 शास्त्रैरधिगतानामिन्द्रि यदौर्बल्याद्विप्रतिपन्नानां शास्ता ...{Loading}...

शास्त्रैरधिगतानामिन्द्रि यदौर्बल्याद्विप्रतिपन्नानां शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् १२

14 तस्य चेच्छास्त्रमतिप्रवर्तेरन्रजानङ् गमयेत् ...{Loading}...

तस्य चेच्छास्त्रमतिप्रवर्तेरन्रजानं गमयेत् १३

15 राजा पुरोहितन् धर्मार्थकुशलम् ...{Loading}...

राजा पुरोहितं धर्मार्थकुशलम् १४

16 स ब्राह्मणान्नियुञ्ज्यात् ...{Loading}...

स ब्राह्मणान्नियुञ्ज्यात् १५

स्तेये

+++(शूद्रः)+++

16 पुरुषवधे स्तेये ...{Loading}...

पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६

17 चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ...{Loading}...

चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य १७

10 परपरिग्रहमविद्वानाददान एधोदके मूले ...{Loading}...

परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः १०

11 विदुषो वाससः परिमोषणम् ...{Loading}...

विदुषो वाससः परिमोषणम् ११

स्तेनः +++(ब्रह्मस्वापहारः)+++

04 स्तेनः प्रकीर्णकेशोऽए मुसलमादाय ...{Loading}...

स्तेनः प्रकीर्णकेशोऽए मुसलमादाय राजानं गत्वा कर्माचक्षीत । तेनैनं हन्याद्वधे मोक्षः ४

05 अनुज्ञातेऽनुज्ञातारमेनः ...{Loading}...

अनुज्ञातेऽनुज्ञातारमेनः ५

06 अग्निं वा प्रविशेत्तीक्ष्णं ...{Loading}...

अग्निं वा प्रविशेत्तीक्ष्णं वा तप आयच्छेत् ६

07 भक्तापचयेन वात्मानं समाप्नुयात् ...{Loading}...

भक्तापचयेन वात्मानं समाप्नुयात् ७

08 कृच्छ्रसंवत्सरं वा चरेत् ...{Loading}...

कृच्छ्रसंवत्सरं वा चरेत् ८

09 अथाप्युदाहरन्ति स्तेयङ् कृत्वा ...{Loading}...

अथाप्युदाहरन्ति । स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्महत्यामकृत्वा चतुर्थकाला मितभोजनाः स्युरपोऽभ्यवेयुः सवनानुकल्पम् ९

10 स्थानासनाभ्यां विहरन्त एते ...{Loading}...

स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैरप पापं नुन्दते १०

05 स्त्रीणाञ् चैवम् ...{Loading}...

स्त्रीणां चैवम् ५

पतनीये दण्डः

20 दोषम् बुद्ध्वा न ...{Loading}...

दोषं बुद्ध्वा
न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्,
वर्जयेत् त्व् एनं धर्मेषु २०

06 न पतितमाचार्यञ् ज्ञातिं ...{Loading}...

न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ६

07 न चास्माद्भोगानुपयुञ्जीत ...{Loading}...

न चास्माद्भोगानुपयुञ्जीत ७

08 यदृच्छासन्निपात उपसङ्गृह्य तूष्णीं ...{Loading}...

यदृच्छासंनिपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ८

09 माता पुत्रत्वस्य भूयांसि ...{Loading}...

माता पुत्रत्वस्य भूयांसि कर्माण्यारभते तस्यां शुश्रूषा नित्या पतितायामपि ९

10 न तु धर्मसन्निपातः ...{Loading}...

न तु धर्मसंनिपातः स्यात् १०

08 अथाभिशस्ताः समवसाय पतितपुत्रेषु ...{Loading}...

अथाभिशस्ताः समवसाय पतित-पुत्रेषु - चरेयुर्धार्म्यमिति सांशित्येतरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः ८

09 पुत्रान्सन्निष्पाद्य ब्रूयुर्विप्र व्रजततास्मदेवं ...{Loading}...

पुत्रान्संनिष्पाद्य ब्रूयुर्विप्र व्रजततास्मदेवं ह्यस्मत्स्वार्याः संप्रत्यपत्स्यतेति ९

10 अथापि न सेन्द्रि ...{Loading}...

अथापि न सेन्द्रि यः पतति १०

11 तदेतेन वेदितव्यम् अङ्गहीनो ...{Loading}...

तदेतेन वेदितव्यम् । अङ्गहीनो हि साङ्गं जनयति ११

12 मिथ्यैतदिति हारीतः ...{Loading}...

मिथ्यैतदिति हारीतः १२

13 दधिधानीसधर्मा स्त्री भवति ...{Loading}...

दधिधानीसधर्मा स्त्री भवति १३

14 यो हि दधिधान्यामप्रयतम् ...{Loading}...

यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तेन धर्मकृत्यं क्रियते । एवमशुचि शुक्लं यन्निवर्तते न तेन सह संप्रयोगो विद्यते १४

अगौरव-दर्शने

16 वाचि पथि शय्यायामासन ...{Loading}...

वाचि पथि शय्यायाम् आसन इति समीभवतो दण्डताडनम् +++(शूद्रस्य)+++१५

पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६