२३ घर्मस्य होमः

अध्वर्युः - अपरेणाहवनीयं दक्षिणातिक्रामन् विश्वा आशा दक्षिणसत् ब्रह्माणमीक्षते । विश्वान्देवानयाडिह होतारम् । स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना । स्वाहाग्नये यज्ञियाय शं यजुर्भिः घर्ममभिमंत्र्य । आश्राव्य प्रत्याश्राविते संप्रेष्यति । घर्मस्य यज । अश्विना घर्मं पातꣳ हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवीमꣳसाताम् । स्वाहेन्द्राय स्वाहा वषट्कृते जुहोति । इन्द्रायाश्विभ्यामिदम् । स्वाहेन्द्रावट् अनुवषट्कृते जुहोति४ । अग्नये स्विष्टकृत इदम् । घर्ममपातमश्विना हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी अमꣳसाताम् । तं प्राव्यं यथावट् । नमो दिवे । नमः पृथिव्यै । दिविधा इमं यज्ञम् । यज्ञमिमं दिविधाः । दिवं गच्छ । अन्तरिक्षं गच्छ । पृथिवीं गच्छ । पञ्च प्रदिशो गच्छ । देवान् घर्मपान् गच्छ । पितॄन् घर्मपान् गच्छ इत्यनुवाकशेषेणोपस्थाय ।