०३ यदृत-आदिहोमः

श्मशानादिव्यतिक्रमे भाण्डे रथे वारिष्टे प्राणानायम्य, यदृत आदिहोमं करिष्य इति सङ्कल्प्य, अग्निप्रतिष्ठाद्याज्यभागान्ते पत्न्या अन्वारब्धः

यदृतेचिदभिश्रिषः पुरा जर्तृभ्य आतृदः ।
सन्धाता सन्धिं मघवा पुरोवसुर्निष्कर्ता विहृतं पुनः स्वाहा - मघवत इदम् ।
इडामग्ने पुरुदँ सँसनिं गोश्शश्वत्तमँ हवमानाय साध ।
स्यान्नस्सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे स्वाहा अग्नय इदम् ।
इमं मे वरुण श्रुधीहवमद्याच मृडय ।
त्वामवस्युराचके स्वाहा - वरुणायेदम् ।
तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशँस मा न आयुः प्रमोषीस्स्वाहा - वरुणायेदम् ।
त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः ।
यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत्स्वाहा - अग्नीवरुणाभ्यमिदम् ।
स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अव यक्ष्व नो वरुणँ रराणो वीहि मृडीकँ सुहवो न एधि स्वाहा अग्नीवरुणाभ्यामिदम् ।

[[115]]

त्वमग्ने अयास्ययासन् मनसा हितः ।
अयासन् हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा - अग्नये अयस इदम् ।

जयादि प्रतिपद्यते । परिषेचान्तं कृत्वा, प्रणीतावोक्षणं ब्रह्मोद्वासनम् । अग्नेनयेत्यग्न्युपस्थानं कुर्यात् । निमित्ताभावेऽपि प्राणानायम्य, यदृतादिमन्त्रजपं करिष्ये इति सङ्कल्प्य, यदृतादिजपं वा कुर्यात् । क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रमे उत्तरे यथालिङ्गं जपेत् ।

ये गन्धर्वा अफ्सरसश्च देवीरेषु वृक्षेषु वानस्पत्येष्वासते ।
शिवास्ते अस्यै वध्वै भवन्तु माहिँसिषुर्वहतुमूह्यमानाम् ।
या ओषधयो या नद्यो यानि धन्वानि ये वना ।
ते त्वावतु प्रजावतीं प्रत्वे मुञ्चत्वँहसः ॥