०४ प्रविश्यहोमारम्भः

अथ प्रविश्यहोमारम्भः

सङ्काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मैत्रेण ।
पर्याणद्धं विश्वरूपं यदस्याँ स्योनं पतिभ्यस्सविता कृणोतु तत् ।

इति स्वगृहं पत्न्यास् सन्दर्शयेत् ।

आवामगन्थ्सुमतिर्वाजिनी वसून्यश्विना हृत्सुकामाँ अयँसत ।
अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि ।
अयन्नो देवस्सविता बृहस्पतिरिन्द्राग्नी मित्रावरुणा स्वस्तये ।
त्वष्टा विष्णुः प्रजया सँरराणः काम आयातं कामाय त्वा विमुञ्चतु ।

इति द्वाभ्यां दक्षिणवामयोः क्रमेण वाहौ विमुच्य, गृहं प्रविश्य

शर्म वर्मेदमाहरास्यै नार्या उपस्थिरे ।
सिनीवालि प्रगायतामियं भगस्यसुमतावसत् ।
गृहान्भद्रान्थ्सुमनसः प्रपद्येऽवीरघ्नी वीरवतस्सुवीरान् ।
इरां वहतो घृतमुक्षमाणास्तेष्वहँसुमनास्स्संविशामि

इति अगारस्य मध्ये लोहितमानडुहं चर्म प्राक्छिर उत्तरलोमास्तीर्य ।
दक्षिणपादनिधानपूर्वकं पत्नीं गृहं प्रवेशयेत् ।

[[116]]

उभावपि पादेन देहलीं न स्पृशेताम् ।
गृहे उत्तर-पूर्व-देशे दर्भेष्व् आसीनो
दर्भान् धारयमाणः
पत्न्या सह पवित्रपाणिः प्राणानायम्य,
“प्रविश्यहोमं करिष्य” इति सङ्कल्प्य,
अग्निप्रतिष्ठाद्याज्यभागान्ते पत्न्यान्वारब्धः

आगन् गोष्ठं महिषी गोभिरश्वैरायुष्मत्पत्नी प्रजया स्वर्वित् ।
बह्वीं प्रजाञ्जनयन्तीँसुरत्नेममग्निँ शतहिमास्सपर्यात्स्वाहा- अग्नये गृहपतय इदम् ।
अयमग्निर्गृहपतिस्सुसँसत्पुष्टिवर्द्धनः ।
यथा भगस्याभ्यां ददद्रयिं पुष्टिमथो प्रजाँ स्वाहा अग्नये गृहपतय इदम् ।
प्रजाया आभ्यां प्रजापत इन्द्राग्नी शर्म यच्छतम् ।
यथैनयोर्न प्रमीयाता उभयोर्जीवतोः प्रजा स्वाहा - प्रजापतीन्द्राग्निभ्यामिदम् ।
तेन भूतेन हविषाऽयमाप्यायतां पुनः ।
जायां यामस्मा [[??]] आवाक्षुस्ताँरसेनाभिवर्द्धताँ स्वाहा - इन्द्राग्निभ्यामिदम् ।
अभिवर्द्धतां पयसाऽभि राष्ट्रेण वर्द्धताम् ।
रय्या सहस्रपोषसेमौ स्तामनपेक्षितौ स्वाहा - इन्द्राग्निभ्यामिदम् ।
इहैवस्तम्मावियोष्टं विश्वमायुर्व्यश्नुतम् ।
मह्या इन्द्रस्वस्तये स्वाहा - इन्द्राग्निभ्यामिदम् ।
ध्रुवैधि पोष्या मयि मह्यन्त्वाऽदाद्बृहस्पतिः ।
मया पत्या प्रजावती सञ्जीव शरदशतँ स्वाहा - बृहस्पतय इदम् ।
त्वष्टा जायामजयनयत्त्वष्टाऽस्यै त्वां पतिम् ।
त्वष्टा सहस्रमायूँषि दीर्घमायुः कृणोतु वाँ स्वाहा - त्वष्ट्र इदम् ।
इमं मे वरुण श्रुधीहवमद्या च मृडय ।
त्वामवस्युराचके स्वाहा - वरुणायेदम् ।
तत्त्वायामि ब्रह्मणा वन्द - मानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशँस मा न आयुः प्रमोषीः स्वाहा - वरुणायेदम् ।
त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवया सिसीष्ठाः ।
यजिष्ठो वह्नि तमश्शोशुचानो विश्वा द्वेषाँसि प्रमुग्ध्यस्मत्स्वाहा - अग्नीवरुणाभ्यामिदम् ।
स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।

[[118]]

अव यक्ष्वनो वरुणँ रराणो वीहि मृडीकँ सुहवो न एधि स्वाहा - अग्नीवरुणाभ्यामिदम् ।
त्वमग्ने अयास्ययासन्मनसाहितः ।
अयासन्हव्यमूहिषेऽयानोधेहि भेषजँ स्वाहा - अग्नये अयस इदम् ।

जयादि, शम्या अपोह्य,
सँस्रावः, प्रायश्चित्तं, प्राणायामं,
परिषेचनं प्रणीतावोक्षणं,
ब्रह्मोद्वासनं कुर्यात्,

पूर्वास्तृते चर्मणि

इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणो रायस्पोषो निषीदतु ।

इत्युपविशेतां, सर्वत्रोपवेशने दक्षिणतः पत्नी उत्तरतो वरः । अथ यस्याः पुत्रा एव जायन्ते जातास्सर्वेऽपि जीवन्ति तस्याः पुत्रं

सोमेनादित्या बलिनस्सोमेन पृथिवी दृढा ।
अथो नक्षत्राणामेषामुपस्थे सोम आधितः

इति पत्न्यङ्के निवेश्य, “प्रस्वस्स्थः प्रेयं प्रजया भुवने शोचेष्ट" इति तस्मै कुमाराय कदल्यादिफलानि दत्वा,

इह प्रियं प्रजया ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।
एनापत्या तन्वँसँसृजस्वाथा जीव्री विदथमावदासि ।
सुमङ्गलीरियं वधूरिमाँ समेत पश्यत ।
सौभाग्यमस्मै दत्वायाथास्तं विपरेतन

इति जपित्वा, उभौ वाचं यच्छतः आनक्षत्रोदयादुदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य,

ध्रुवक्षितिध्रुवयोनिर्ध्रुवमसिध्रुवतस्थितम् ।
त्वन्नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः

इति ध्रुवं

सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीम् ।
यद्ध्रुवताँ ह निन्युष्षट्कृत्तिकामुख्ययोगं वहन्तीयमस्माकमेधत्वष्टमी

इत्यरुन्धतीं च क्रमेण दर्शयित्वा, तया सहोपविशेत् ॥