०७ दक्षिणादानम्

यथाशास्त्रं दक्षिणादानं शास्त्रीयकर्मणः मुख्येष्वेकतमं प्रधानमङ्गम् । श्रौतं स्मार्तं पौराणिकं वा यत्किंचित् शास्त्रीयं कर्मर्त्विग्भिः कार्यते तत्रावश्यं दक्षिणा दातव्या । स्मार्तकर्मसु कर्मान्ते दक्षिणा दीयते । श्रौतकर्मसु तु कर्मनिर्वर्तनकाल एव दक्षिणा दीयते । समृद्धदक्षिणया यज्ञोऽधिकफलदायी भवतीति दक्षिणादानं शास्त्रेण बहुधा प्रशंसितम् । तद्यथा यज्ञ आयुष्मान् स दक्षिणाभिरायुष्मान् ( तै. सं २-३-१०) इति । ऋग्वेदस्य अस्मिन् एकादशर्चे सूक्ते पूर्णं दक्षिणास्तुतिरेव कृता उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदास्सह ते सूर्येण । हिरण्यदा अमृतत्वं भजन्ते वासोदास्सोम प्रतिरन्त आयुः ॥ (ऋ-सं १०-१०७-२) ।

तथान्यत्रापि दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः । दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्रतिरन्त आयुः ॥ (ऋ-सं १-१२५-६) इत्यादि ।

तथा यज्ञे दक्षिणादानं तपस्त्वेनापि स्तुतं - माध्यन्दिने सवने दक्षिणा नीयन्त एतत् खलु वाव तप इत्याहुर्यस्स्वं ददातीति (तै.सं ६-१-६) इति ।

अधिकदक्षिणया यज्ञोऽधिकफलदायी भवतीति विषये महाभारते धर्मराजस्याश्वमेधयज्ञानुष्ठानावसरे धर्मराजं प्रति व्यासमहर्षिभिः एवं प्रोक्तमुपलभ्यते ।

अहीनो नाम राजेन्द्र क्रतुस्तेऽयं च कल्पताम् ।
बहुत्वात् काञ्चनाख्यस्य ख्यातो बहुसुवर्णकः ॥
एवमत्र महाराज दक्षिणां त्रिगुणां कुरु ।
त्रित्वं व्रज तु ते राजन् ब्राह्मणाह्यत्र कारणम् ॥
त्रीनश्वमेधानत्र त्वं संप्राप्य बहु दक्षिणान् ।
ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ॥ (महा.भा.अश्व=८८-१३,१४,१५)

एतद्विपर्ययेण हीनदक्षिणा निन्दिता । तद्यथा हतो यज्ञस्त्वदक्षिणः (महा.भा.वनपर्वणि, यक्षप्रश्ने ) इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजां पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नल्पधनो यजेत् । (म.स्मृ. ११-४० ) अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तथर्त्विजः । आत्मानं दक्षिणा हीनो नास्ति यज्ञसमो रिपुः ॥ (वैद्यनाथीये आचारकाण्डे यजनप्रकरणे ।)

दरिद्रस्य श्रद्धालोर्विषये बोधायनेनानुग्रहोऽपि दर्शितः - दक्षिणानां काले गोर्हिरण्यं वासः । तेषामलाभे फलानां मूलानां भक्ष्याणां दद्यात् । न त्वेव न यजेत ।

नित्यं नित्येषु युक्तः स्यात्
तथैवाजस्रिकेषु च ।
यस्य नित्यानि लुप्तानि
तथैवाजस्रिकाणि च ॥ विपथस्थो न स स्वर्गं
गच्छते पतितो हि सः ।
तस्मान्मूलैः फलैर्वापि
मधुना तरसेन वा ।
नित्यं नित्यानि कुर्वीत
न च नित्यानि लोपयेत् ॥ (बो.श्रौ.सू=२८,१३)

तथैव स्मृतिभास्करे -

यावद् अन्नं विनाकुर्यात्
नित्येष्टिं सौमिकीं क्रियाम् ।
यथा-लब्ध-गुणोपेतां
यथा-सम्भव-दक्षिणाम् ॥ ( वैद्यनाथीये आचारकाण्डे यजनप्रकरणे )