३३ वपायाः श्रपणम्

अध्वर्युः - निर्दग्धꣳ रक्षो निर्दग्धा अरातयः आहवनीयस्यान्तमेऽङ्गारे वपां निकूड्यान्तरा यूपमाहवनीयं च दक्षिणाऽतिहृत्य प्रतिप्रस्थात्रे प्रयच्छति । तां दक्षिणत आसीनः प्रतिपस्थाताहवनीये श्रपयति । वायो वीहि स्तोकानाम् बर्हिषोऽग्रमधस्ताद्वपाया उपास्यति । त्वामु ते दधिरे हव्यवाहꣳ शृतङ्कर्तारमुत यज्ञियं च । अग्ने सदक्षस्सतनुर्हि भूत्वाथ हव्या जातवेदो जुषस्व स्वाहा स्रुवेण वपामभि जुहोति । अग्नये जातवेदस इदम् । प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहि संप्रेष्यति । अलोहिनीं सुशृतां कृत्वा यस्त अत्मा इत्यभिघार्य । दृꣳह इत्युद्वास्य । सुपिप्पला ओषधीः कृधि दक्षिणस्यां वेदिश्रोण्यां बर्हिषि प्लक्षशाखायामासाद्य । प्रयुता द्वेषाꣳसि वपाश्रपणी प्रवृह्य । तूष्णीं निधाय ।