११ पात्रप्रयोगः

पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवस्वधित्यौ जुहू वसाहोमहवन्यौ प्रचरणीं च द्वन्द्वम् । तस्या जुहूवत्कल्पः । उपभृत् पृषदाज्यधान्यौ ध्रुवया द्वन्द्वम् । स्थाल्यौ (दध्याज्य) वेदेन द्वन्द्वम् । उपवेषमिडापात्रेण द्वन्द्वम् । प्लक्षशाखां हृदयशूलं वपाश्रपण्यौ पशूखां शाखापवित्रेण द्वन्द्वम् । मैत्रावरुणदण्डेन रशने परिवासनानि दर्भास्स्वरुं च द्वन्द्वम् । यूपेन सार्धं यवा दर्भौ । शकलैस्सह यूषार्थपात्रं लौकिकमाज्यपात्रं च प्रयुज्य ।

स्रुवस्वधित्योश्च जुहूत्रयस्य द्वन्द्वं ध्रुवाया उपभृद्द्वयस्य ।

स्थाल्यौ च वेदेन सह प्रयोज्ये वेषेण सार्धं समवत्तधानीम् ॥

प्लक्षस्य शाखा हृदयार्थशूलवपाश्रपण्यश्च तथा पशूखाम् ।

शाखापवित्रेण सह प्रयोज्या दण्डेन सार्धं रशनाः प्रयोज्याः ॥

यूपेन सार्धं तु यवाः प्रयोज्याः दर्भाः प्रयोज्याः शकलैश्च सार्धम् ।

दर्भौ स्वरुं चाप्यधिमन्थनं च क्रमेण योज्याः पुरतोऽपवर्गाः ॥

अग्राणि वेदस्य तथैव योक्त्रं योज्यानि यूषाहरणार्थपात्रम् ।

एकार्थता पात्रगणस्य यस्य कपालवत्तत्र सहैकता स्यात् ॥

पवित्रे कृत्वा । न ब्रह्मवरणम् । यजमान वाचं यच्छ । संविशन्ताम् वाग्यतः पात्राणि संमृश्य । अग्निꣳ होतारम् । कस्त्वा युनक्ति स त्वा युनक्तु । प्रोक्षणीस्संस्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्रोक्ष्यात्र वाचं विसृजते । तूष्णीं स्फ्यमादाय सदोहविर्धानयोर्मध्ये स्फ्यं तिर्यञ्चं स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्वधितिं च स्रुचश्च संमृड्ढ्याज्येन दध्नोदे३हि इति । सदोहविर्धानयोर्मध्ये प्रोक्षणीरासादयति । नेध्माबर्हिषोरासादनम् १। जुहूं संमृज्य तद्वत् प्रचरणीम् । वसाहोमहवन्यादि पशुवत् ।

[ तद्यथा = स्रुचां संमार्जनकाले स्रुवं संमृज्य तस्यावृता स्वधितिम् । गोष्ठं मा निर्मृक्षम् । वाचं प्राणम् इति जुहूवत्प्रचरणीं वसाहोमहवनीं च । चक्षुश्श्रोत्रम् इत्युपभृद्वत्पृषदाज्यधानीम् । ध्रुवां संमृज्य अग्नेर्वस्तेजिष्ठेन इत्यादि । अग्ने गृहपत इत्यादि प्राजहिते जपति । पूषा वां बिले विष्यतु । अदिती स्थोऽच्छिद्रपत्रे । महीनां पयोसि इत्याज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इत्याज्यमधिश्रित्य न दध्यधिश्रयति सर्वत्र । इषे त्वा इत्याद्यधिश्रयणं शालामुखीये । तेजसे त्वा इत्यन्तं कृत्वा । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् सदोहविर्धानयोर्मध्ये स्फ्यलेखायामासादयति । आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिघारयामि तयोर्वां भक्षीय । शुक्रमसीत्यादि आज्यमुत्पूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक् पुनीत सवितु: पवित्रै: । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यग्रहणकाले प्रचरण्यामादितः तूष्णीं चतुर्गृहीतं गृहीत्वा १ । पाशुकान्याज्यानि गृह्णाति । चर्तुजुह्वां गृह्णाति चतुरुपभृति पञ्चावत्तिनामपि । दधन्याज्यमानीय । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् । अपि वा ज्योतिरसि विश्वरूपं विश्वेषां देवानाꣳ समित् इति वा पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यं गृह्णाति । चतुर्ध्रुवायाम् । ]