०४ सोमराज्ञः उपावहरणम्

अत्र राजानमन्तरेषे ग्रावसूपावहरति । हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वोर्ध्वमिममध्वरं कृधि दिवि देवेषु होत्रा यच्छ, सोम राजन्नेह्यवरोह मा भेर्मा सं विक्था मा त्वा हिꣳसिषं प्रजास्त्वमुपावरोह प्रजास्त्वामुपावरोहन्तु इत्येताभ्याम् । पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति । पुरा वा वयोभ्यः । होतरेहीत्युक्ते३ होत्रादि सर्व ऋत्विग्भिः अच्छावाकग्रावस्तुद्वर्जं तीर्थप्रवेशनं कर्तव्यम् । यजमानः उद्गातारमाह विश्वरूपाणां गानं मे गाय । उद्गाता - चतुष्टोमस्तोमसम्पदतिरेकात् ग्रहशस्त्राभावाच्च नाहं गायामि इति प्रत्याचक्षीत । यजमानः परिहरति वसतीवर्यो ग्रहः, प्रातरनुवाकश्शस्त्रं, आसां न च सम्पत्कोपो यथान्यैः परिसामभिर्गायैव इत्याह । तदोद्गाता नमामनामन्त्र्य प्रातरनुवाकमुपाकुर्या इत्यध्वर्युं ब्रूयात् । अथोद्गाता होतारं प्रातरनुवाकायोपविष्टं पूर्वेण गत्वा यजमानश्च तेनैव गत्वा पूर्वया द्वारा हविर्धानं प्रपद्य अन्तरेण हविर्धाने पूर्वेण चक्रे उदङ्मुख उपविशेत्तूष्णीं । उद्गातुः पुरस्ताद्यजमानः प्रत्यङ्मुखः । तत उद्गाता गायति । अध्वर्युः प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ प्रतिप्रस्थात-स्सवनीयान्निर्वप सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति संप्रेष्यति । होता प्रातरनुवाकं ब्रूते । उपाकृते प्रातरनुवाके ब्रह्मा वाचं यच्छत्या परिधानीयायाः । मनसा ते वाचं प्रतिगृणामि इत्यध्वर्युर्होतारमाह१ ।