०८

01 यथा ब्रह्मचारिणो वृत्तम् ...{Loading}...

यथा ब्रह्मचारिणो वृत्तम् १

02 माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती ...{Loading}...

माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी २

03 उदाचारेषु चास्यैतानि न ...{Loading}...

उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ३

04 स्वैरिकर्मसु च ...{Loading}...

स्वैरिकर्मसु च ४

05 यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ...{Loading}...

यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ५

06 तद्द्रव्याणाञ् च न ...{Loading}...

तद्द्रव्याणां च न कथयेदात्मसंयोगेनाचार्यः ६

07 स्नातस्तु काले यथाविध्यभिहृतमाहूतो ...{Loading}...

स्नातस्तु काले यथाविध्यभिहृतमाहूतो ऽभ्येतो वा न प्रतिसंहरे इत्येके ७

08 उच्चैस्तरान् नासीत ...{Loading}...

उच्चैस्तरां नासीत ८

09 तथा बहुपादे ...{Loading}...

तथा बहुपादे ९

10 सर्वतः प्रतिष्ठिते ...{Loading}...

सर्वतः प्रतिष्ठिते १०

11 शय्यासने चाचरिते नाविशेत् ...{Loading}...

शय्यासने चाचरिते नाविशेत् ११

12 यानमुक्तोऽध्वन्यन्वारोहेत् ...{Loading}...

यानमुक्तोऽध्वन्यन्वारोहेत् १२

13 सभानिकषकटस्वस्तरांश्च ...{Loading}...

सभानिकषकटस्वस्तरांश्च १३

14 नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् ...{Loading}...

नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् १४

15 व्युपतोदव्युपजावव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् ...{Loading}...

व्युपतोदव्युपजावव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् १५

16 आपद्यर्थञ् ज्ञापयेत् ...{Loading}...

आपद्यर्थं ज्ञापयेत् १६

17 सह वसन्सायम् प्रातरनाहूतो ...{Loading}...

सह वसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थो गच्छेत् १७

18 विप्रोष्य च तदहरेव ...{Loading}...

विप्रोष्य च तदहरेव पश्येत् १८

19 आचार्यप्राचार्यसन्निपाते प्राचार्यायओपसङ्गृह्योपसञ्जिघृक्षेदाचार्यम् ...{Loading}...

आचार्यप्राचार्यसन्निपाते प्राचार्यायओपसङ्गृह्योपसञ्जिघृक्षेदाचार्यम् १९

20 प्रतिषेधेदितरः ...{Loading}...

प्रतिषेधेदितरः २०

21 लुप्यते पूजा चास्य ...{Loading}...

लुप्यते पूजा चास्य सकाशे २१

22 मुहूंश्चाचार्यकुलन् दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि ...{Loading}...

मुहूंश्चाचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि दन्तप्रक्षालनानीति २२

23 मातरम् पितरमाचर्यमग्नींश्च गृहाणि ...{Loading}...

मातरं पितरम् आचर्यम् अग्नींश् च गृहाणि च रिक्त-पाणिर् नोपगछ्हेद्, राजानं चेन् न श्रुतम् इति २३

24 तस्मिन्गुरोर्वृत्तिः ...{Loading}...

तस्मिन्गुरोर्वृत्तिः २३

25 पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्याङ् ...{Loading}...

पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् २४

26 न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु ...{Loading}...

न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु २५

27 अन्तेवास्यनन्तेवासी भवति विनिहितात्मा ...{Loading}...

अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः २६

28 आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः ...{Loading}...

आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः २७

29 अपराधेषु चैनं सततमुपालभेत ...{Loading}...

अपराधेषु चैनं सततमुपालभेत २८

30 अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति ...{Loading}...

अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः २९

31 निवृत्तञ् चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो ...{Loading}...

निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ३०

इति द्वितीयः पटलः


    1. Haradatta does not connect this Sūtra with the preceding one. He explains it by itself: ‘(We will now declare) how a student (who has left his teacher, but is not married) ought to behave.’
     ↩︎
  1. अनुवर्तत इति ख. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. कृतविवाहस्य’ इति क. पु. ↩︎ ↩︎ ↩︎ ↩︎

  3. आश्व० पृ० ३. ७ १०. ↩︎ ↩︎ ↩︎ ↩︎

  4. पा० सू० ५.४, १०६. चवर्गान्तात् वहान्ताच्च द्वन्द्वाट्टच् स्यात् समाहारे इति ↩︎ ↩︎ ↩︎ ↩︎

  5. ‘If the teacher comes to the house of his (former) pupil (who has become a householder), he shall, for instance, not say, “Oh, what a beautiful dish!” in such a manner, that his desire to obtain it becomes apparent.’–Haradatta. ↩︎

  6. This opinion is contrary to Āpastamba’s view given in Sūtras 2 and 3 above. ↩︎

  7. ‘When he gives to his teacher a wooden seat (with legs), he shall not sit on a cane-seat (without legs), for the latter touches the ground on all sides.’–Haradatta. ↩︎

  8. Manu II, 119. ↩︎

  9. This rule is an exception to I, 2, 7, 5. Manu II, 204. ↩︎

  10. ‘The roller is an implement used by husbandmen, with which the ploughed land is made even. If one person ascends it and another drags it along, the ground becomes even. If that is dragged by the teacher, the pupil shall ascend it at his command. He shall not disobey from fear of the unseemliness of the action.’–Haradatta. ↩︎

  11. Manu II, 199; regarding the term Guru, see above, I, 2, 6, 29. ↩︎

  12. वचनेनैव इति क. पु. ↩︎ ↩︎

  13. This and the following Sūtras refer to a person who has finished his studentship, while the preceding ones, from Sūtra 8, apply to the time of studentship also. ↩︎

  14. Weber, Ind. Stud. X, 126. ↩︎

  15. ‘Another commentator says, “That pupil who offends his teacher in word, thought, or deed, and directs his mind improperly, i.e. does not properly obey, does not (any longer) remain a pupil.”’–Haradatta. ↩︎

  16. But see also Manu. VIII, 299, where corporal punishment is permitted. ↩︎