द्विषाहस्रस्य

द्विषाहस्रस्य

[अयं पुरो भुवस्तया ॥ तस्य प्राणो भौवायनस्तया ॥ वसन्तः प्राराणायनस्तया ॥ गायत्री वासन्ती तया ॥ गायत्रियै गायत्रं तया ॥ गायत्रादुपाꣳ्शुस्तया ॥ उपाꣳ्शोस्त्रिवृत्तया ॥ त्रिवृतो रथन्तरं तया ॥ रथन्तराद्वसिष्ठ ऋषिस्तया ॥ प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यस्तया ॥

अयं दक्षिणा विश्वकर्मा तया ॥ तस्य मनो वैश्वकर्मणं तया ॥ ग्रीष्मो मानसस्तया ॥ त्रिष्टुग्ग्रैष्मी तया ॥ त्रिष्टुभ ऐडं तया ॥ ऐडादन्तर्यामस्तया ॥ अन्तर्यामात्पञ्चदशस्तया ॥ पञ्चदशाद्बृहत्तया ॥ बृहतो भरद्वाज ऋषिस्तया ॥ प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यस्तया ॥

अयं पश्चाद्विश्वव्यचास्तया ॥ तस्य चक्षुर्वैश्वव्यचसं तया ॥ वर्षाणि चाक्षुषाणि तया ॥ जगती वार्षी तया ॥ जगत्या ऋक्षमं तया ॥ ऋक्षमाच्छुक्रस्तया ॥ शुक्रात्सप्तदशस्तया ॥ सप्तदशाद्वैरूपं तया ॥ वैरूपाद्विश्वामित्र ऋषिस्तया ॥ प्रजापतिगृहीतया त्वया चक्षुर्गृह्णामि प्रजाभ्यस्तया ॥

इदमुत्तरात्सुवस्तया ॥ तस्य श्रोत्रꣳ् सौवं तया ॥ शरछ्रौत्री तया ॥ अनुष्टुप्छारदी तया ॥ अनुष्टुभस्स्वारं तया ॥ स्वारान्मन्थी तया ॥ मन्थिन एकविꣳ्शस्तया ॥ एकविꣳ्शाद्वैराजं तया ॥ वैराजाज्जमदगिर्ऋषिस्तया ॥ प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यस्तया ॥

इयमुपरि मतिस्तया ॥ तस्यै वाङ्माती तया ॥ हेमन्तो वाच्यायनस्तया ॥ पङ्क्तिर्हैमन्ती तया ॥ पङ्क्त्यै निधनवत्तया ॥ निधनवत आग्रयणस्तया ॥ आग्रयणात्त्रिणवत्रयस्त्रिꣳ्शाभ्यां तया ॥ त्रिणवत्रयस्त्रिꣳ्शाभ्याꣳ् शाक्वररैवते तया ॥ शाक्वररैवताभ्यां विश्वकर्मर्षिस्तया ॥ प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यस्तया ॥ इति पञ्चाशतं प्राणभृतः । दशदश प्रतिदिशमक्ष्णया दश । मध्येऽन्तरामुपधाय बाह्यां बाह्याम् ॥

प्राची दिशां तया ॥ वसन्त ऋतूनां तया ॥ अग्निर्देवता तया ॥ ब्रह्म द्रविणं तया ॥ त्रिवृत्स्तोमस्तया ॥ स उ पञ्चदशवर्तनिस्तया ॥ त्र्यविर्वयस्तया ॥ कृतमयानां तया ॥ पुरोवातो वातस्तया ॥ सानग ऋषिस्तया ॥

दक्षिणा दिशां तया ॥ ग्रीष्म ऋतूनां तया ॥ इन्द्रो देवता तया ॥ क्षत्रं द्रविणं तया ॥ पञ्चदशस्तोमस्तया ॥ स उ सप्तदशवर्तनिस्तया ॥ दित्यवाड्वयस्तया ॥ त्रेताऽयानां तया ॥ दक्षिणाद्वातो वातस्तया ॥ सनातन ऋषिस्तया ॥

प्रतीची दिशां तया ॥ वर्षा ऋतूनां तया ॥ विश्वे देवा देवतास्तया ॥ विड्द्रविणं तया ॥ सप्तदशस्तोमस्तया ॥ स उ वेकविꣳ्शवर्तनिस्तया ॥ त्रिवत्सो वयस्तया ॥ द्वापरोऽयानां तया ॥ पश्चाद्वातो वातस्तया ॥ अहभून ऋषिस्तया ॥

उदीची दिशां तया ॥ शरदृतूनां तया ॥ मित्रावरुणौ देवता तया ॥ पुष्टं द्रविणं तया ॥ एकविꣳ्शस्तोमस्तया ॥ स उ त्रिणववर्तनिस्तया ॥ तुर्यवाड्वयस्तया ॥ आस्कन्दोऽयानां तया ॥ उत्तराद्वातो वातस्तया ॥ प्रत्न ऋषिस्तया ॥

ऊर्ध्वा दिशां तया ॥ हेमन्तशिशिरावृतूनां तया ॥ बृहस्पतिर्देवता तया ॥ वर्चो द्रविणं तया ॥ त्रिणवस्तोमस्तया ॥ स उ त्रयस्त्रिꣳ्शवर्तनिस्तया ॥ पष्ठवाद्वयस्तया ॥ अभिभूरयानां तया ॥ विष्वग्वातो वातस्तया ॥ सुपर्ण ऋषिस्तया ॥ पञ्चाशतमपानभृतो यथा प्राणाभृतः । बाह्यामुपाधायान्तरामन्तराम् । ]

( अत्र केषाञ्चित् मन्त्राणां उपधानं नास्ति- पृथिव्यै त्वा तया । अन्तरिक्षाय त्वा तया । दिवे त्वा तया । तिस्रो लोकेष्टकाः ॥

अग्नये त्वा पवमानाय तया । अग्नये त्वा पावकाय तया । अग्नये त्वा शुचये तया तिस्रः पावमानीः ॥

ऋचा त्वा छन्दसा सादयामि तया । वषट्कारेण त्वा छन्दसा सादयामि तया । हिङ्कारेण त्वा छन्दसा सादयामि तया । प्रस्तावेन त्वा छन्दसा सादयामि तया । प्रतिहारेण त्वा छन्दसा सादयामि तया । उद्गीथेन त्वा छन्दसा सादयामि तया । निधनेन त्वा छन्दसा सादयामि तया सप्तछन्दस्याः ॥)

( या देव्यसीष्ट आयुर्दा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके प्राणदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके अपानदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके व्यानदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके चक्षुर्दा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके श्रोत्रदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके वाग्दा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके आत्मदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके पृथिविदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके अन्तरिक्षदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके द्यौर्दा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके स्वर्दा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके कुमारीदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके प्रफर्व्यदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके प्रथमौपशदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया । या देव्यसीष्टके युवतीदा उपशीवरी सामामुपशेष्व जायेव पतिमत्सदा तया षोडशोपशीवरीः ॥

अभिषाच्च तया । अभिषवी च तया । अभिवयाश्च तया । ऊर्ध्चवयाश्च तया । बृहद्वयाश्च तया । सवयाश्च तया । सहाꣲ्श्च तया । सहमानश्च तया । सहस्वाꣲ्श्च तया । सहीयाꣲ्श्च तया दशेन्द्रनामानि ॥

अग्निना विश्वाषाट् तया । सर्येण स्वराट् तया । क्रत्वा शचीपतिस्तया । ऋषभेण त्वष्टा तया । यज्ञेन मघवान्तया । दख्षिणया सुवर्गस्तया । मन्युना वृत्रहा तया । सौहार्द्येन तनधास्तया । अन्नेन गयस्तया । पृथिव्याऽसनोत्तया । ऋग्भिरन्नादस्तया । वषट्कारेणर्धस्तया । साम्ना तनपास्तया । विराजा ज्योतिष्मान्तया । ब्रह्मणा सोमपास्तया । गोभिर्यज्ञं दाधार तया । ख्षत्रेण मनुष्यान्तया । अश्वेन च रथेन च वज्री तया । ऋतुभिः प्रभुस्तया । संवथ्सरेण परिभूस्तया । तपसाऽनाधृष्टस्तया । सर्यः सन्तनूभिस्तया द्वाविंशतिमिन्द्रतनवः ॥

प्रजापतिर्मनसाऽधोऽच्छेतस्तया । धाता दीख्षायान्तया । सविता भृत्यान्तया । पषा सोमक्रयण्यान्तया । वरुण उपनद्दस्तया । असुरः क्रीयमाणस्तया । मित्रः क्रीतस्तया । शिपिविष्ट आसादितस्तया । नरन्धिषः प्रोह्यमाणस्तया । अधिपतिरागतस्तया । प्रजापतिः प्रणीयमानस्तया । अग्निराग्नीध्रे तया । बृहस्पतिराग्नीध्रात् प्रणीयमानस्तया । इन्द्रो हविर्धाने तया । अदितिरासादितस्तया । विष्णुरुपावह्रियमाणस्तया । अथर्वोपोत्तस्तया । यमोऽभिषुतस्तया । अपतपा आधयमानस्तया । वायुः पयमानस्तया । मित्रः, ख्षीरश्रीस्तया । मन्थी सुक्तुश्रीस्तया । वैश्वदेव उन्नीतस्तया । रुद्र आहुतस्तया । वायुरावृत्तस्तया । नृचख्षाः प्रतिख्यातस्तया । भख्ष आगतस्तया । पितृणां नाराशꣳ्सस्तया । सुरात्तस्तया । सिन्धुरवभृथमवप्रयन्तया । समुद्रोऽवगतस्तया । सलिलः प्रप्लुतस्तया । सुवरुदृचं गतस्तया त्रयस्त्रिंशत् यज्ञतनवः ॥

ज्योतिष्मतीं त्वा सादयामि तया । ज्योतिष्कृतं त्वा सादयामि तया । ज्योतिर्विदं त्वा सादयामि तया । भास्वतीं त्वा सादयामि तया । ज्वलन्तीं त्वा सादयामि तया । मल्मलाभवन्तीं त्वा सादयामि तया । दीप्यमानां त्वा सादयामि तया । रोचमानां त्वा सादयामि तया । अजस्रां त्वा सादयामि तया । बृहज्ज्योतिषं त्वा सादयामि तया । बोधयन्तीं त्वा सादयामि तया । जाग्रतीं त्वा सादयामि तया द्वादश ज्योतिष्मतीः ॥

पर्णा पश्चादुत पर्णा पुरस्त्रादुन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्त उत्तमे नाक इह मादयन्तां तया पौर्णमासीं पुरस्तादुपधाय ॥

कृतिका नख्षत्रमग्निर्देवताऽदग्ने रुचः स्थ प्रजापतेर्धातुः सोमस्यर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ रोहिणी नख्षत्रं प्रजापतिर्देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ मृगशीर्षं नख्षत्रꣳ् सोमो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ आर्द्रा नख्षत्रꣳ् रुद्रो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ पुनर्वस नख्षत्रमदितिर्देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ तिष्यो नख्षत्रं बृहस्पतिर्देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ आश्रेषा नख्षत्रꣳ् सर्पा देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ मघा नख्षत्रं पितरो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ फल्गुनी नख्षत्रमर्यमा देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ फल्गुनी नख्षत्रं भगो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ हस्तो नख्षत्रꣳ् सविता देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ चित्रा नख्षत्रमिन्द्रो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ स्वाती नख्षत्रं वायुर्देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ विशाखे नख्षत्रमिन्द्राग्नी देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया पुरस्तात्प्रतीचीमसंस्पृष्टाः । पुर्वामुपधाय परामपरां विशाखाभ्यां दक्षिणेन स्वयमातृण्णां रीतिं प्रतिपादयति ।

यत्ते देवा अदधुर्भागधेयममावास्ये संवसन्तो महित्वा । सा नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीर्यं तया अमावास्यां पश्चादुपधाय अवशिष्टानां पर्वां पर्वामापबरणीभ्यः ।

अनूराधा नख्षत्रं मित्रो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ रोहिणी नख्षत्रमिन्द्रो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ विचृतौ नख्षत्रं पितरो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ अषाढा नख्षत्रमापो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ अषाढा नख्षत्रं विश्वे देवा देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ श्रोणा नख्षत्रं विष्णुर्देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ श्रविष्ठा नख्षत्रं वसवो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ शतभिषङ्नख्षत्रमिन्द्रो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ प्रोष्ठपदा नख्षत्रमज एकपाद्देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ प्रोष्ठपदा नख्षत्रमहिर्बुध्नियो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ रेवती नख्षत्रं पूषा देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ अश्वयुजौ नख्षत्रमश्विनौ देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया ॥ अपभरणीर्नख्षत्रं यमो देवतर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा तया । उत्तरेण स्वयमातृण्णां रीतिं प्रतिपादयति ।

पर्णा पश्चादुत पर्णा पुरस्त्रादुन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्त उत्तमे नाक इह मादयन्तां तया पौर्णमासीमन्ततः। ऋचे त्वा रुचे त्वेति सर्वासु नक्षत्रेष्टकास्वनुषजति ।

हिरण्यगर्भस्समवर्तताग्रे भतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्या मुतेमां कस्मै देवाय हविषा विधेम तया ॥ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम तया ॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम तया ॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्रꣳ् रसया सहाहुः । यस्येमाः प्रदिशोयस्य बाह कस्मै देवाय हविषा विधेम तया ॥ यं क्रन्दसी अवसा तस्तभाने अभ्यैख्षेतां मनसा रेजमाने । यत्राधि सूर उदितौ व्येति कस्मै देवाय हविषा विधेम तया ॥ येन द्यौरुग्रा पृथिवी च दृढे येन सुवस्तभितं येन नाकः । यो अन्तरिख्षे रजसो विमानः कस्मै देवाय हविषा विधेम तया ॥ आपोह यन्महतीर्विश्वमायन्दख्षं दधाना जन यन्तीरग्निम् । ततो देवानां निरवर्ततासुरेकः कस्मै देवाय हविषा विधेम तया ॥ यश्चिदापो महिना पर्य पश्यद्दख्षं दधाना जनयन्तीरग्निम् । यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम तया इत्यष्टौ सरितः ॥

अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि तया ॥ अग्निं दूतं वृणीमहे होतारं विश्वदेदसम् । अस्य यज्ञस्य सुक्रतुं तया ॥ अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यस्तया ॥ अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धश्शुक्र आहुतस्तया ॥ अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम् । देवस्यद्रविणस्यवस्तया पञ्चान्हानां रूपाणि ॥