०१ प्राजापत्यव्रतम्

ब्रह्मचर्यव्रतलोपप्रायश्चित्तं षडब्दकृच्छ्रादिकं चरित्वा कृत्तकेशं स्नातं दक्षिणत उपवेश्य आचार्यः अमुक-गोत्रममुकशर्माणं माणवकं प्राजापत्यव्रतेन कर्मणा संस्करिष्यामीति सङ्कल्प्य प्राजापत्यव्रतं चरिष्यामीति वाचयित्वा वस्त्रयज्ञोपवीतादि पूर्ववत् धारयित्वा पुरातनानि त्याजयित्वा स्नातं शिष्यं सोमाग्निविश्वेदेववर्जं काण्डर्षितर्पणं पूर्ववत् कारयित्वा अग्निप्रतिष्ठाद्यग्निमुखान्ते शिष्येणान्वारब्धः ‘प्रजापतये काण्डर्षये स्वाहा’, ‘प्रजापते न त्वदेतानी’त्यादि षड्भिः प्रतिमन्त्रं हुत्वा ‘सांहितीभ्यो देवताभ्यः’ इत्यादि पूर्ववत् हुत्वा ‘अग्ने व्रतपते काण्डर्षिभ्यः’ इत्यादिभिः चतुर्भिः उपस्थानं कारयित्वा जयाद्यग्न्युपस्थानान्तं कुर्यात् । एवमेवोत्सर्जनं प्राजापत्यव्रतोत्सर्जनेन कर्मणा संस्करिष्यामि । प्राजापत्यव्रतोत्सर्जनं चरिष्यामि प्राजापत्यव्रतमचारिषम् इति भेदः ।