५ महा-यज्ञाः

अथ प्रयोगभाष्यम् ईषद्-भेदं लिख्यते–
“वैश्वदेवस्य कर्मोच्यते” प्रसङ्गात् पञ्च-महा-यज्ञानां च ।

वैश्वदेवम्

समावेशनजपान्ते विवाहे समाप्ते
वैश्व-देव–मन्त्राणाम् उपयोगे यद् व्रतं
“द्वादशाहमधश्शय्या” (आप.ध.२-३-१३.) इत्यादि
तत्स्वामित्वाविशेषात् सपत्नीकश् चरित्वा
प्रशस्तेऽहन्यारभ्य “आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारस्स्युः” इत्यादिविधिना सिद्धेऽन्ने तिष्ठन्नन्नसंस्कर्ता भार्यादिः “भूतम्” इति स्वामिने प्रब्रूयात् ।
तत् “सुभूतं सा विराडन्नं तन्माक्षायि” इति स्वामी प्रतिब्रूयात् ।

ततो यदि प्रयाणे गृहे वा वैश्वदेवस्य होमस्य स्थाने ऽग्निर् उपसमाधातव्यः, तत्र धर्मशास्त्रोक्तविधिना उपसमादधाति। एवम् अन्यत्राप्य् औपासनहोमादिषु।

अथ गृहमेधिनो यद् अशनीयमन्नं ततो होमार्थ हविष्यमन्नं पात्रे कल्पयति।
अहविष्यं श्रारलवणावरान्नसंसृष्टं द्वितीये।
हविष्यमन्नं देवयज्ञार्थं तृतीये।
सर्वतस्समवदाय अग्रार्थं चतुर्थे।
सर्वत एव समवदाय मनुष्ययज्ञार्थं पञ्चमे यदि ब्राह्मणतर्पणं नावकल्पते। “मनुष्येभ्यो यथाशक्ति दानम्” (आप. ध.१-१२-१५.) इति वचनात् ।

ततः परिषेचनं कृत्वा प्रथमकल्पितादन्नाद्यथाहुतिमात्रं अङ्गुष्ठपर्वमात्रं “अग्नये स्वाहे"त्यादिभिः षडैहुतीर्हुत्वा उत्तरं परिषेचनम् ।

अथ उदचीनमुष्णं भस्मापोह्य तस्मिन् अहविष्यं स्वाहाकारेण जुहोति; “यस्याग्नौ न क्रियते यस्यचाग्रं न दीयते न तद्भोक्तव्यम्” (आप. ध.२१५१३) इति वचनात् ।

अथ षडाहुति-होम-शेषम् अहविष्य-होम-शेषेण संसृज्यान्नेन सूपसंसृष्टेन धर्मशास्त्रोक्तेन विधिना रौद्रान्तं बलिं हृत्वा,
ऽग्रं ब्राह्मणाय दत्वा,
ब्राह्मणोक्तत्वाद् अपार्वण+++(ं??)+++ व्याख्यातं सन्निपातीतिकर्तव्यताकं देवयज्ञं कुर्वीत ।

देवयज्ञः

देवयज्ञेन यक्ष्य इत्यागूर्य,
“विद्युदसि ।”
औपासने पचने वा कल्पिताद् अन्नात्,
तद्-अभावे हविष्यम् अन्नं व्रीहियवादि, आकाष्ठात्,
“देवेभ्यस् स्वाहे"ति हस्तेन जुहुयात् ;
“सन्निपाती"ति कर्तव्यतयोर् औपासन-होम–वैश्वदेवयोर् हस्तेन होमस्य दृष्टत्वात् ।
मन्त्रवच् चोभयतः परिषेचनम्, तयोर् दृष्टत्वाद् एव ।
“वृष्टिरसि ।”
“वषट्कार-होमेषु विद्युद्-वृष्टी” इत्युपदेशः ।

पितृयज्ञः

अथ प्राचीनावीती पितृयज्ञेन यक्ष्ये इत्युक्त्वा - विद्युद् असि ।
शुचौ भूमौ
कल्पिताद् ओदनात्
हस्तेन अङ्गुष्ठ-प्रदेशिन्याव् अन्तरेण “पितृभ्यः स्वधास्तु”, इति दद्याद् आहुति-मात्रम् ।
वृष्टिरसि ।
पित्र्यं बलिहरणविधिनेत्युपदेशः ।

भूत-यज्ञः

अथ बलिहरणस्य होमतुल्यत्वात् यज्ञोपवीती “भूतयज्ञेन यक्ष्य” इत्युक्त्वा,
विद्युत् ।
शुचौ भूमाव् एव हस्तेन “इदं भूतेभ्योऽस्तु” इति दद्यात् ।
वृष्टिः

  • बलिहरण-विधिनेत्य् उपदेशः ।

मनुष्य-यज्ञः

अथ दानस्य होमतुल्यत्वात् यज्ञोपवीती “मनुष्ययज्ञेन यक्ष्य” इत्युक्त्वा,
विद्युत ।
ब्राह्मणतर्पणं, सङ्कल्पितस्य वा दानम् ।
वृष्टिः -
दानमात्रम् इत्युपदेशः ।

ब्रह्मयज्ञः

ब्रह्मयज्ञं तु पूर्वमेव कुर्वीत अग्निहोत्रमौपासनं वा हुत्वा; “उदित आदित्ये” (तै. आ.२-११.) इति वचनात् । तस्य कर्मोच्यते– “ब्रह्मयज्ञेन यक्ष्यमाणः” (तै.आ.२-११.) इत्यादि ब्राह्मणोक्तदेशे यथाविध्याचमेत् । अस्मिंस्त्वाचमने विशेषः “दक्षिणत उपवीय” इत्यारभ्य “सकृदुपस्पृश्य” (तै.आ. २-११.) इत्येवमन्ते विगुणे कृते “यदि यजुष्ट” इति “भुवस्वाहा” इति होमः प्रायश्चित्तम् । “दक्षिणेन पाणिना सव्यं प्रोक्ष्य” इत्यारभ्य शेषे विगुणे कृते “यद्यविज्ञाता” इति प्रायश्चित्तम् ।

अथ क्रम उच्यते—
ब्रह्मयज्ञेन यक्ष्ये इत्युक्त्वा, विद्युत् ।
आचमनम् ।
आसनकल्पनादि सावित्रीजपान्तं कृत्वा वेदस्यादित आरभ्य यथाध्यायमध्ययनमध्यायः कृत्स्नस्य वेदस्यासमाप्तेः ; “श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य” (आप.ध.१-९-१.) इति वचनात् येन प्रकारेणाध्यायो येन च क्रमेणाधीयतेऽविना चाम्नानैः आदिप्रदिष्टानुषङ्गप्रख्यादिभिः, उत्सृजन् उत्सृज्योत्सृज्य, वाचा मनसा च यावत्तरसं यावच्छक्यमधीयीत । परिधानीयां कृत्वा, वृष्टिरसि ।

एवम् अहरहः कृतान्तादारभ्य यावत् समाप्तो वेदः सहैकाग्निविधिकाण्डेन ।
समस्तमधीत्य वैश्वदेव मन्त्रानधीत्य ततः प्रसुग्मन्तेति प्रश्नद्वयमधीयीत । एवं विनियोगदर्शनात्,
“ऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थितिः, ॥ इति वचनाच्च ।

यद्यनेकशाखाध्यायी ततोऽनेनैव विधिना द्वितीयं पुनरधीयीत ऋग्यजुस्साम्नां क्रमेण अध्ययने यद्यनध्यायस्स्यात्, तदैकां वर्चमेकं वा यजुरेकं वा साम कृतांतादेवारभ्याभिव्याहरेत् । यदा ब्राह्मणस्य क्रमेण तदा “भूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमी"त्यभिव्याहरेत् ।

एवं यावज्जीवं ब्रह्मयज्ञं कुर्वीत ।

रौद्रम्

मनुष्ययज्ञान्ते “सर्वान् वैश्वदेवभागिनः कुर्वीत, (आप.ध.२-९-५.) इत्यादिविधानेन सर्वेषु पत्न्यन्तेषु भुक्त्वत्सु, पाकपरिवेषणपात्रेभ्यो लेपान् सङ्कृष्योत्तरतः शुचौ देशे रुद्राय सम्प्रदानभूताय निनयेत्, “रुद्राय स्वाहा” इति । नित्यवच्च निनयनम्; प्रतिपत्तिकर्मत्वात् ।

“एवं वास्तु शिवं भवति” (आप.ध.२-४-२३.) इत्यर्थवादः । “द्रव्यसंस्कारकर्मसु परार्थत्वात्” (पू. मी.४-३-१.) इति न्यायात् । फलं वा, सूत्रकारेणोपदिष्टत्वात् “य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च” (आप. ध.२-४-९.)इति ।

एवम् ऋते महायज्ञेभ्यः
सायं रौद्रान्तं कृत्वा
वैहायसम् आकाशे भूतबलिं कुर्वीत ॥

अन्य आहुः–
“नक्तमेवोत्तमेन” (आप.२-४-८.) इत्य्-एव-कारस्य व्यवहितान्वयाद्
वैहायसमेव सायम् इति ॥