०९ चौलम्

जन्मादिमाससङ्ख्यया तृतीये वर्षे चौलं पञ्चमे वा गर्भाद्वा तृतीये पञ्चमे वा स्नातं शुद्धवस्त्रधरं धृतोर्ध्वपुण्ड्रं प्रक्षालितपाणिपादम् आचान्तं कुमारं दक्षिणत उपवेश्य अमुक-गोत्रम् अमुक-शर्माणं कुमारं चौलकर्मणा संस्करिष्यामीति सङ्कल्प्य क्षारलवणवर्जं कुमारं भोजयित्वा अग्निप्रतिष्ठादिपात्रप्रयोगान्ते शीतोष्णजले यवान् द्वादशदर्भान् आनडुहं शकृत्पिण्डं क्षुरं शलल्यादींश्च सादयित्वा आज्यभागान्ते कुमारेणान्वारब्धः ‘धाता ददातु नो रयिम्’ इत्यादिभिरष्टाभिः हुत्वा जयाद्यग्न्युपस्थानान्ते अग्नेः पश्चात् प्राङ्मुखं कुमारमुपवेश्य शलल्यादिना तस्य शिखार्थान् वप्तव्यांश्च केशान् पृथक् पृथक् विभज्य पश्चान्निरस्य अप उपस्पृश्य ‘उष्णेन वायवुदकेन’ इत्यनेन उष्णं जलं शीतजले निनीय ‘आप उन्दन्तु’ इत्येतया तेन जलेन कुमारस्य शिरः प्रागादिप्रदक्षिणं सेचयित्वा त्रीन् दर्भान् पुरस्तात् केशेषु अन्तर्धाय ‘येनावपत्’ इत्येतया क्षुरेण वपन्तमाचार्यं यः कश्चित् ब्रह्मचारी कुमारस्य माता वा दक्षिणत उपविश्य ‘यत्क्षुरेण मर्चयता’ इत्येतयानुमन्त्रयेत् । अथाचार्यः सदर्भान् केशान् तद्धस्ते प्रदाय ‘येन पूषा’ इत्येतया पूर्ववत् दक्षिणतः छित्वा प्रदाय ‘येन भूयः’ इति पश्चात् पूर्ववत् छित्वा प्रदाय ‘येन पूषा’ इति पूर्ववत् उत्तरतः छित्वा प्रदाय अप उपस्पृशेत् । ब्रह्मचारी माता वा तान् सर्वान् केशान् आनडुहे शकृत्पिण्डे यवान्विते निधाय ‘उप्त्वाय केशान्’ इत्येतया उदुम्बरमूले दर्भस्तम्बे वा निदध्यात् । ततः क्षुरं प्रक्षाल्य निदद्ध्यात् । तेन त्रिदिनं क्षुरकर्म न कुर्यात् । उष्णोदकेन संस्नाप्य दक्षिणत आसीनाय ब्राह्मणाय गां दद्यात् । पितुरन्यः चौलकर्ता चेत् तस्मै दद्यात् ।

[[15]]