०१ दाहात् प्राक्

जीव-प्रायश्चित्तम्

पादौ प्रक्षाल्य आचम्य
दक्षिणाताम्बूलसहितम् अक्षतांश्च हस्ते गृहीत्वा,

ओं नमस् सदसे नमस् सदसस्पतये -
नमस्सखीनां पुरोगाणां चक्षुषे
नमो दिवे नमः पृथिव्यै
सप्रथसभां मे गोपाय
ये च सभ्याः सभासदः
तानिन्द्रियावतः कुरु
सर्वमायुरुपासतां
सर्वेभ्यः श्रीवैष्णवेभ्यः नमः

प्रणम्य

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… गोत्रस्य … शर्मणः पितुः सुखोत्क्रमण-सिद्ध्य्-अर्थं
जन्म-प्रभृति एतत्-क्षणपर्यन्तं बाल्य-यौवन-कौमार-वार्द्धकेषु
जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थायां मनो-वाक्-काय-कर्मभिः
बुद्धि-पूर्वाबुद्धि-पूर्वाव्यवस्थायां
ज्ञानतस् सम्भावित-पापानाम् अपनोदनार्थं
प्राजापत्य-कृच्छ्रं कर्तुं
योग्यता-सिद्धिम् अनुगृहाण -

दर्भेष्व् आसीनः दर्भान् धारयमाणः पवित्रपाणिः
अप उपस्पृश्य, प्राणानायम्य, सङ्कल्प्य

अस्यां शुभतिथौ
श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं
… गोत्रस्य … शर्मणः पितुः जन्मप्रभृति-अपनोदनार्थं
प्राजापत्य-कृच्छ्र-प्रतिनिधि यत्किञ्चित् हिरण्यरूपेण करिष्ये -

इति सङ्कल्प्य हिरण्यं हस्ते गृहीत्वा

हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

तद्धिरण्यम् अक्षतासहितं तुभ्यमहं सम्प्रददे न मम

[[1]]

इति ब्राह्मणाय श्रोत्रियाय दरिद्राय कुटुम्बिने दद्यात् ।

उत्क्रान्ति-गोदानम्

श्रीपाद-तीर्थं सालग्राम-तीर्थं वा प्राशयित्वा
शिरसि च प्रोक्ष्य
तुलसी-दल-मालां धारयित्वा
शुचौ देशे भूम्यां दर्भेषु सादयित्वा
पुण्य-सूक्तं पुण्य-मन्त्रम् अष्टाक्षरं द्वादशाक्षरम् अनुसन्धानात् श्रावयित्वा …

पादौ प्रक्षाल्य आचम्य
पवित्रपाणिः प्राणान् आयम्य
महासङ्कल्पं कृत्वा

… गोत्रस्य … शर्मणः पितुः
सुखोत्क्रमण-सिद्ध्य्-अर्थम्
उत्क्रान्ति-संज्ञक-गोदानं करिष्ये -

इति सङ्कल्प्य

श्रीमहा-विष्णु-स्वरूपस्य ब्राह्मणस्य
इदम् आसनम् इदमर्चनम् ।

अत्युत्कान्तौ प्रवृत्तस्य
सुखोत्क्रमणसिद्धये । तुभ्यं सम्प्रददे धेनुम्
इमाम् उत्क्रान्तिसंज्ञिकाम् ॥

गवाम् अङ्गेषु तिष्ठन्ति
भुवनानि चतुर्दश ।
तस्माद् अस्याः प्रदानेन
अदश्शान्तिं प्रयच्छ मे ॥

अस्मै श्रीवैष्णवाय तच्-छाखाध्यायिने तच्-छर्मणे प्रति-ग्रहीत्रे
इदम् उत्क्रान्ति-संज्ञक-गोदानं
तुभ्यम् अहं सम्प्रददे न मम

इति विप्राय गां दत्वा ।

पितृमेधः - कर्णमन्त्रः

अथ कर्ता आचम्य प्राणानायम्य सङ्कल्प्य

गोत्रस्य शर्मणः - यजमानस्य पितुः मोक्ष-प्राप्त्यर्थं कर्ण-सूत्र-मन्त्र-जपं करिष्ये

इति सङ्कल्प्य
यजमानस्य पितुः दक्षिणे कर्णे जपेत्

[[2]]

०७ सन्तत्याख्येष्टकामन्त्राः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

अग्निचयनशेषा इष्टकोपधानमन्त्राः, तत्र सन्तत्याख्येष्टकामन्त्राः

भास्करोक्त-विनियोगः

1-12 अतः परं द्वावनुवाकाव् अग्निकाण्डम् अग्न्यार्षेयम् । तत्र प्रथमायां चितौ द्वादश-संततीर् उपदधाति आयुषः प्राणं इत्याद्याः ॥

विश्वास-प्रस्तुतिः

आयु॑षᳶ प्रा॒णꣳ सन्त॑नु ।

मूलम्

आयु॑षᳶ प्रा॒णꣳ सन्त॑नु ।

भट्टभास्कर-टीका

आयुषो वयसो ऽवस्थितत्वाद्धेतोः प्राणं संतनु, संततमविच्छिन्नं कुरु । सति ह्यायुषि प्राणास्सन्तन्यन्ते तस्मादायुरेव तावत्संतनु ततः प्राणादिकमिति गम्यते ।

विश्वास-प्रस्तुतिः

प्रा॒णाद् अ॑पा॒नꣳ सन्त॑नु ।

मूलम्

प्रा॒णाद् अ॑पा॒नꣳ सन्त॑नु ।

भट्टभास्कर-टीका

सत्यपि प्राणे निश्शेषनिष्क्रमणभयादपानाविच्छेदः प्रार्थ्यते ।

विश्वास-प्रस्तुतिः

अ॒पा॒नाद् व्या॒नꣳ सन्त॑नु ।

मूलम्

अ॒पा॒नाद् व्या॒नꣳ सन्त॑नु ।

भट्टभास्कर-टीका

तदुभयसद्भावे रसव्यापनाय व्यानप्रार्थना, अन्यथा शरीरधारणासिद्धेः ।

विश्वास-प्रस्तुतिः

व्या॒नाच् चख्षु॒स् सन्त॑नु ।

मूलम्

व्या॒नाच् चख्षु॒स् सन्त॑नु ।

भट्टभास्कर-टीका

ध्रियमाणेऽपि शरीरे चक्षुः प्रधानं करणमिति प्रार्थ्यते रूपग्रहणार्थम् ।

विश्वास-प्रस्तुतिः

चख्षु॑ष॒श् श्रोत्र॒ꣳ॒ सन्त॑नु ।

मूलम्

चख्षु॑ष॒श् श्रोत्र॒ꣳ॒ सन्त॑नु ।

भट्टभास्कर-टीका

नामग्रहणार्थं श्रोत्रप्रार्थना ।

विश्वास-प्रस्तुतिः

श्रोत्रा॒न् मन॒स् सन्त॑नु ।

मन॑सो॒ वाच॒ꣳ॒ सन्त॑नु ।

मूलम्

श्रोत्रा॒न् मन॒स् सन्त॑नु ।

मन॑सो॒ वाच॒ꣳ॒ सन्त॑नु ।

भट्टभास्कर-टीका

एतेष्ववस्थितेष्वपि वाङ्मनसाधीना व्यवहारस्थिति रिति प्रार्थ्यते ।

विश्वास-प्रस्तुतिः

वा॒च आ॒त्मान॒ꣳ॒ सन्त॑नु ।

मूलम्

वा॒च आ॒त्मान॒ꣳ॒ सन्त॑नु ।

भट्टभास्कर-टीका

सर्वेषामेषामवस्थितौ आत्मा तन्त्रं इत्यत्र तस्य सन्तानप्रार्थना ।

विश्वास-प्रस्तुतिः

आ॒त्मन॑ᳶ पृथि॒वीꣳ सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑ख्ष॒ꣳ॒ सन्त॑नु ।

मूलम्

आ॒त्मन॑ᳶ पृथि॒वीꣳ सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑ख्ष॒ꣳ॒ सन्त॑नु ।

भट्टभास्कर-टीका

तस्य सन्ततस्य उपकारकत्वात् पृथिव्यादिसन्तानं प्रार्थयते ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑ख्षा॒द् दिव॒ ꣳ॒सन्त॑नु । दिव॒स् सुव॒स् सन्त॑नु ॥ 32 ॥

मूलम्

अ॒न्तरि॑ख्षा॒द् दिव॒ ꣳ॒सन्त॑नु । दिव॒स् सुव॒स् सन्त॑नु ॥ 32 ॥

भट्टभास्कर-टीका

एतेषां सर्वेषां उपकाराय सुवः आदित्यः प्रवर्तत इति तत्संतानमिति प्रार्थयते । देवानामपि संसारित्वात् । एवं अयं जीवादिरादित्यपर्यन्तः संसारप्रवाहोऽविच्छेदेन प्रवर्ततामिति प्रार्थयते ॥

इति पञ्चमे सप्तमोऽनुवाकः ॥

नारायणशब्दं जपन् ।

श्री-चूर्ण-परिपालनम्

मरणानन्तरं कर्ता स्नात्वा ऊर्ध्वपुण्ड्रं धृत्वा
शवं स्नापयित्वा अलङकृत्य
श्रीचूर्ण-परिपालनं कृत्वा
सभ्यान् प्रदक्षिणी-कृत्य, प्रणम्य

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… गोत्रस्य … शर्मणः यजमानस्य पितुः परम-पद-प्राप्तौ सत्यां,

कोयिल् तिरुमलै पेरुमाळ्-कोयिल् जीयाल् श्रीवैष्णवाल-श्रीचूर्ण-परिपालनं साधित् तरुलवेणुम्

इति श्रीवैष्णवान् प्रार्थ्य
तैः स्व-गुरु-परम्परा-पूर्वकं यथा-सम्प्रदायं द्राविड-प्रबन्धं वाचयित्वा
लाजान् प्रेत-मार्गे अवकीर्य
अग्नि-सन्धानादि-पितृमेधं ब्रह्ममेधं वा कुर्यात्॥

अग्नि-निर्णयः


यति-भार्या-विधुर-विधवा-कन्यानुपनीतानूढानाम्
अकृत-विवाहस्य च स्नातकस्य च
उत्तपनाग्निः

यति-भार्यायाः प्रेताग्निसन्धानं वा

कन्या-बालयोस् तुषाग्निर् वा

ब्रह्मचारि–यति-भार्येतरेषां लौकिको वा

ब्रह्मचारिणः कपालाग्निर् वा।

दर्भमुष्टित्रयेण क्रमात् प्रज्वलितः उत्तपनाग्निः
तप्तकपाल-निक्षिप्तात् तुषाज्जातः तुषाग्निः
कपालदहनाज्जातः कपालाग्निः

एवम् अग्नीन् उत्पाद्य
प्रेतस्य दक्षिणपार्श्वे निधाय
“अयाश्चाग्ने” सोत्येतया[[??]]
पुरुषसूक्तेन
व्याहृतीभिश्च द्वादश-गृहीतेन आज्येन हुत्वा
ततस् संस्कुर्यात् ।

प्रेताग्नि-सन्धानम् पत्नीवतः

सभां प्रणम्य प्राचीनावीती -

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… गोत्रस्य … शर्मणः पितुः प्रेतस्य
अद्य प्रथमे अहनि पैतृमेधिकसंस्कारार्थं
प्रेताग्निसन्धानं कर्तुं योग्यतासिद्धिम् अनुगृहाण -

इति ब्राह्मणैः अनुज्ञाप्य
उपवीती प्राणानायम्य प्राचीनावीती सङ्कल्प्य

[[3]]

… गोत्रस्य … शर्मणः पितुः प्रेतस्य
अद्य प्रथमे अहनि
पैतृमेधिक-संस्कारार्थं
प्रेताग्निसन्धानं करिष्ये

इति सङ्कल्प्य
स्थण्डिलं कल्पयित्वा
विपरीतम् उल्लिख्य
दर्भं निरस्य
अप उपस्पृश्य

“भूर्भुवस्सुवरोम्” इति अग्निं प्रतिष्ठाप्य प्रज्वाल्य,
विपरीतं परिसमूह्य
प्राक्तोयं निधाय,
विपरीतं परिस्तीर्य
अग्नेर् दक्षिणतः दक्षिणाग्रान् दर्भान् संस्तीर्य

तेषु उपरि पात्राणि एकैकशः सादयित्वा
दर्वीम् आज्यस्थालीं प्रोक्षणीम् इतरदर्वीं च सादयित्वा

एकदर्भेण आयामतः कृत्वा

प्रोक्षणीं जलेन आपूर्य
पवित्रेण उत्पूय
उत्तानानि कृत्वा
पात्राणि प्रोक्ष्य

अपरेण अग्निं पवित्रान्तर्हितायाम् आज्यस्थायाम् आज्यं विलाप्य
दक्षिणतः अङ्गारान् निरुह्य+++(5)+++
तेष्व् अधिश्रित्य
ज्वलता ऽवद्युत्य
एकदर्भाग्रं प्रत्यस्य
विपरीतं त्रिः पर्यग्नि कृत्वा
दक्षिणत उद्वास्य
अङ्गारान् अग्नौ प्रत्यूह्य
एकदर्भाग्रं पवित्रं पुनराहारं विपरीतं त्रिः उत्पूय
ग्रन्थिं विस्रस्य
अप उपस्पृश्य अग्नौ प्रहरति।

दर्वी निष्टप्य
दर्भेण संमृज्य
पुनर्निष्टप्य
प्रोक्ष्य, निधाय,
अद्भिः संस्पृश्य, अग्नौ प्रहरति।

अग्निं अप्रदक्षिणं परिषिच्य
द्वादश-गृहीतेन आज्येन
“ओं भूर्भुवस्सुवः स्वाहा” - इत्येतया अग्नौ हुत्वा (“प्रजापतय इदम्”)

१८ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...

अ॒याश्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चा॒ग्ने ऽस्य् अ॑नभिश॒स्तीश्च॑+++(=अनवद्यः)+++
स॒त्यम् इ॑त् त्वम् अ॒या अ॑सि ।
अय॑सा॒+++(=प्रतिगन्त्रा)+++ मन॑सा धृ॒तो॑
ऽयसा॑ ह॒व्यम् ऊ॑हिषे॒+++(=वहस्व)+++
ऽया नो॑ धेहि भेष॒जम् ।।+++(५)+++

अग्नये अयस इदम् …

35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...

अना᳚ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

38 पुरुषसम्मितो यज्ञः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

41 यत्पाकत्रा मनसा ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥115॥

श्रीविष्णवे स्वाहा (श्रीविष्णवे परमात्मन इदम्)

अग्निमप्रदक्षिणं परिषिच्य, उपवीती, प्राणानायम्य, प्राचीनावीती

पूर्वोक्त एवं-गुण अस्यां तिथौ
अनेक-काल-सायं-प्रातर्-आहुतीनाम् अकरण-प्रायश्चित्तार्थं
प्राजापत्य-कृच्छ्र-प्रतिनिधि
यकिञ्चित् हिरण्यरूपेण करिष्ये

इति सङ्कल्प्य,

हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

इदमौपासनयोग्यतासिद्ध्यर्थं यत्किञ्चित् हिरण्यं तुभ्यमहं सम्प्रददे न मम उपवीती प्राणानायम्य प्राचीनावीती अनेककालसायम्प्रातराहुतीनामकरणप्रायश्चित्तार्थम् औपासनहोमद्रव्यतण्डुलदानं करिष्ये

तण्डुला वैश्वदेवत्याः पाकेनान्नं पचन्ति ये ।
तस्मात् तण्डुलदानेन अदश्शान्तिं प्रयच्छ मे ॥
इदं तण्डुलं तुभ्यमहं सम्प्रददे न मम

इति दत्वा उप-प्राणानायम्य प्राची -

श्रीभगवदाज्ञया नारायणप्रीत्यर्थं पूर्वेद्युः सायम् औपासनम् अद्य प्रातः औपासनं च होमं होष्यामि

अग्निमप्रदक्षिणं परिषिच्य तण्डुलं गृहीत्वा प्रोक्ष्य - एकाम् समिधमाधाय

अग्नये स्वाहा - अग्नये इदम्

ओम् अग्नये स्विष्टकृते स्वाहा

अग्नये स्विष्टकृत इदम्

एकाम् समिधमाधाय

सूर्याय स्वाहा सूर्याय इदम् अग्नये स्विष्टकृते स्वाहा अग्नये स्विष्टकृते इदम्

एकाम् समिधमाधाय पुनः परिषिच्य तेन अग्निना संस्कुर्यात् ।

[[5]]

उत्तपनाग्नि-सन्धानक्रमः

विधुरस्य विधवायाश्च उत्तपनाग्निः दर्भमुष्टित्रयेण क्रमात् प्रवर्तित उत्तपनाग्निः प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

> … > गोत्रायाः नाम्न्याः मम मातुः प्रेतायाः अद्य प्रथमेऽहनि पैतृमेधिकसंस्कारार्थम् उत्तपनाग्निसन्धानं कर्तुं योग्यतासिद्धिमनुगृहाण

ब्राह्मणैरनुज्ञाप्य “तथास्तु” “योग्यतासिद्धिरस्तु” इति प्रतिवचनम् उपवीती प्राणानायम्य प्राचीनावीती सङ्कल्प्य

अस्यां तिथौ गोत्रायाः नाम्न्याः मम मातुः प्रेतायाः अद्य प्रथमेऽहनि पैतृमेधिकसंस्कारार्थम् उत्तपनाग्निसन्धानं करिष्ये

इति सङ्कल्प्य अग्निप्रतिष्ठादि आज्यदर्वीसंस्कारान्तं विपरीतं कृत्वा

[[6]]

अग्निमप्रदक्षिणं परिषिच्य द्वादशगृहीतेन[[??]] आज्येन जुहोति

अयाश्चाग्नेस्यनभिशस्तीश्च अयानो छेहि भेषजं स्वाहा अग्नये अयस इदं सहस्रशीर्षा पुरुषः सहस्राक्षस्सहस्रपात् स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलं स्वाहा पुरुषाय नारायणाय इदं पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् उत्तामृतत्वस्येशानः - यदन्नेनातिरोहति स्वाहा - पुरुषाय नारायणाय इदम् - एतावानस्य महिमा - अतो ज्यायांश्च पूरुषः पादोऽस्य विश्वा भूतानि - त्रिपादस्यामृतं दिवि स्वाहा - पुरुषाय नारायणाय इदं त्रिपादूर्ध्वम् उदैत्पुरुषः - पादोस्येहाभवात्पुनः - ततो विष्वङ्व्यक्रामत साशनानशने अभि स्वाहा - पुरुषाय नारायणाय इदं - तस्माद्विराडजायत - विराजो अधि पूरुषः - स जातो अत्यरिच्यत - पश्चाद्भूमिमथो पुरः स्वाहा पुरुषाय नारायणाय इदं - यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मश्शरद्धविः स्वाहा पूरुषाय नारायणाय इदं - सप्तास्यासन्परिधायः त्रिस्सप्त समिधः कृताः देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुं स्वाहा - पुरुषाय नारायणाय इदं - तं यज्ञं बर्हिषि प्रौक्षन् पुरुष जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये स्वाहा - पुरुषाय नारायणाय इदं तस्माद्यज्ञात्सर्वहुतः - सम्भृतं पृषदाज्यं पशूंस्तांश्चक्रे वायव्यान् आरण्यान् ग्राम्यांश्च ये स्वाहा पुरुषाय नारायणाय इदं तस्मात् यज्ञात् सर्वहुतः ऋचस्सामानि जज्ञिरे - छन्दांसि जाज्ञिरे तस्मात् यजुस्तस्मादजायत स्वाहा पुरुषाय नारायणाय इदम्

[[9]]

तस्मादश्वा अजायन्त । ये केचोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः स्वाहा पुरुषाय नारायणाय इदं यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्यते स्वाहा पुरुषाय नारायणाय इदं - ब्राह्मणोस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः - पद्भ्यां शूद्रो अजायत स्वाहा - पुरुषाय नारायणाय इदं - चन्द्रमा मनसो जातः चक्षोस्सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत स्वाहा - पुरुषाय नारायणाय इदं नोभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौस्समवर्तत - पद्भ्यां भूमिर्दिशश्श्रोत्रात् - तथा लोकाम् अकल्पयन् स्वाहा - पुरुषाय नारायण य इदं - वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे - सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाभिवदन् यदास्ते स्वाहा - पुरुषाय नारायणाय इदं - धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः तमेवं विद्वानमृत इह भवति - नान्यः पन्था अयनाय विद्यते स्वाहा - पुरुषाय नारायणाय इदं - यज्ञेन यज्ञमयजन्त देवाः - तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानस्सचन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः स्वाहा - पुरुषाय नारायणाय इदम् ओं भूः स्वाहा अग्नय इदम् ओं भुवः स्वाहा - वायव इदम् ओं सुवः स्वाहा प्रजापतय इदम् अग्निमप्रदक्षिणं परिषिच्य तेनाग्निना संस्कुर्यात् ।

[[8]]

प्रायश्चित्तादिः

प्रोषित-प्रायश्चित्तम्

प्रोषितभार्यस्य प्रोषितभर्तृकाया वा मरणे “प्रेताग्निसन्धानं करिष्ये” इति सङ्कल्प्य

अयाश्च होमान्ते सप्त ते अग्ने सप्त व्याहृतीभिः पूर्वं देवा अपरेण प्राणापानौ चक्षुः मा त्वा वृक्षौ सम्बाधिष्टां मा त्वा वृक्षौ सम्बाधेथाम् अग्नेभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जानिवर्तस्व सह रय्या निवर्तस्व

इत्येताभिश्चतुर्गृहीतं हुत्वा अनाज्ञातहोमाद्यौपासनान्तं कृत्वा संस्कुर्यात् ।

सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि - सप्त होत्रास्सप्तधा त्वा यजन्ति सप्तयोनीरापूणस्वा घृतेन स्वाहा - अग्नये सप्तवत इदम् ओं भूः स्वाहा अग्नय इदम् ओं भुवः स्वाहा - वायव इदं ओं सुवः स्वाहा - सूर्याय इदं महः स्वाहा ब्रह्मण इदं जनस्स्वाहा - वरुणाय इदं तपः स्वाहा इन्द्राय इदं सत्यं स्वाहा विश्वेभ्यो देवेभ्य इदं - पूर्वं देवा अपरेणानुपश्यन् जन्मभिः जन्माद्यवरैः पराणि - वेदानि देवा अयमस्मीति माम् - अहर् हित्वा शरीरं जरसः परस्तात् स्वाहा वेदेभ्य इदं प्राणापानौ चक्षुः श्रोत्रं वाचं मनसि सम्भृतां - हित्वा शरीरं जरसः परस्तात् आभूतिं भूतिं वयमश्नवामह स्वाहा मनस इदं मा त्वा वृक्षौ सम्बाधिष्टां मा माता पृथिवी त्वां पितॄन्ह्यत्र गच्छास्येधासं यमराज्ये स्वाहा - ओं पृथिव्या इदं मा त्वां वृक्षौ सम्बाधेथां मा माता पृथिवीमहि

[[9]]

वैवस्वतर् हि गच्छासि यमराज्ये विराजसि स्वाहा - पथिव्या इदम् अग्नेभ्यावर्तिन्नभि न आवर्तस्वायुषा वर्चसा सत्या मेधया प्रजया धनेन स्वाहा - अग्नयेभ्यावर्तिन इदम् - अग्ने अङ्गिरश्शतं ते सं त्वावृतस्सहस्रन्त उपावृतः । तासां पोषस्य पोषण पुनर्नो नष्टमाकृधि । पुनर्नो रयिमाकृधि स्वाहा - अग्नयेभ्यावर्तिन इदं - पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा पुनर्नः पाहि विश्वत स्वाहा - अग्नयेभ्यावर्तिन इदं सह रभ्या निवर्तस्वाग्ने पिन्वस्व धारया विश्वः फ्स्न्या विश्वतस्परि स्वाहा - अग्नयेभ्यावर्तिन इदम् इति चतुर्गृहीतं हुत्वा अनाज्ञातत्रयेण हुत्वा श्रीविष्णवे स्वाहा श्रीविष्णवे परमात्मन इदं कृच्छ्रमौपासनादि हुत्वा संस्कुर्यात्

रजस्वला-सूतिका-भर्तृ-मरण-प्रायश्चित्तम्

रजस्वलासूतिकयोभर्तुर्मरणे त्रेताग्निसन्धानं सङ्कल्प्य अयाश्चहोमान्तं कृत्वा “जातवेदसे सुनवाम”, “मनो ज्योतिर्जुषतामि"त्येताभ्यां जुहुयात् “भूरग्नये चे"ति चतुर्भिः तन्तुन्तन्वन्नुद्बुद्धस्व त्रयस्त्रिंशत्तन्तव इत्येताभिर्व्यस्ताभिस्समस्ताभिर्व्याहृतीभिः “अप पाप्मानं भरणीर्यस्मिन्नक्षत्र” इत्येताभ्यां चतुर्गृहीतं हुत्वा “अनाज्ञातमि"त्यादि पूर्ववत् कृत्वा संस्कुर्यात् । चतुर्गृहीतेनाज्येन जुहोति

जातवेदसे सुनवाम सोममरातीयतो निजहाति वेदः स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः स्वाहा - अग्नये जातवेदस इदं मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञं समिमं

[[10]]

दधातु या इष्टा उपसो निम्रुचश्च तास्सन्दधामि हविषा घृतेन स्वाहा मनसे ज्योतिष इदं भूरग्नये च पृथिव्यै च महते च स्वाहा - अग्नये पृथिव्यै महत इदं भुवो वायवे चान्तरिक्षाय च महते च स्वाहा वायवेन्तरिक्षाय महत इदं सुवरादित्याय च दिवे च महते च स्वाहा आदित्याय दिवे महत इदं भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा चन्द्रमसे नक्षत्रेभ्यो महत इदं - तन्तुन्तन्वन रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् - अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनं स्वाहा अग्नये तन्तुमत इदं - उद्बुद्ध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सं सृजेथामयं च । पुनः कृण्वंस्त्वा पितरं युवानमन्वातां सीत्वयि तन्तुमेतं स्वाहा - अग्नये तन्तुमत इदं त्रयस्त्रिंशत्तन्तवो ये वितन्विरे य इमं यज्ञं स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा - धर्मो देवाम् अप्येतु स्वाहा - अग्नये तन्तुमत इदं भूः स्वाहा - अग्नय इदं भुवः स्वाहा वायव इदं सुवः स्वाहा - सूर्याय इदम् ओं भूर्भुवस्सुवः स्वाहा - प्रजापतय इदम् अप पात्मानं भरणोर्भरन्तु - तद्यमो राजा भगवान्विचष्टां लोकस्य राजा महतो महान् हि । सुगं नः पन्थामभयं कृणोतु स्वाहा ब्रह्मण इदं यस्मिन्नक्षत्रे यम एति राजा यस्मिन्नेनमभ्यषिञ्चन्त देवाः तदस्य चित्रं हविषा यजाम - अप पाप्मानं भरणीर्भरन्तु स्वाहा - ब्रह्मण इदम् इति चतुर्गृहीतं हुत्वा अनाज्ञातत्रयेण कृच्छ्रमौपासनादि हुत्वा संस्कुर्यात् ।

[[11]]

पर्युषित-प्रायश्चित्तम्

पर्युषिते कृच्छ्रत्रयं कृत्वा, पञ्चगव्येन प्रक्षाल्य, पवमानेन अभिषिच्य, “यमो दाधार पृथिवीम् उशन्तस्त्वा, विश्वेदेवस्य नेतुः”, व्यस्ताभिः समस्ताभिर्व्याहृतिभिः तिलहोमैः जुहुयात् । प्रथमतः कृच्छ्रत्रयं कृत्वा, प्राणानायम्य प्राचीनावीती, सङ्कल्प्य,

अस्यां तिथौ … गोत्रस्य … शर्मणः पितुः प्रेतस्य पर्युषितप्रायश्चित्तार्थं तिलहोमं करिष्यामि

इति सङ्कल्प्य “तदङ्गत्वेन कलशाराधनं करिष्ये” इति सङ्कल्प्य ध्यानावाहनादिकलशाराधनं कृत्वा, चतुरों ब्राह्मणान् वृणुयात् ।

ओं पवमानस्सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूं रनु । यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देवसवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तस्सधमाद्येषु । वयँ स्याम पतयो रयीणाम् । वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिन्सवितस्त्रिभिः[[??]] । वर्षिष्ठैर्देव मन्मभिः । अग्ने दक्षै पुनाहि मा । येन । देवा अपुनत । येनापो दिव्यं खशः । तेन दिव्येन ब्रह्मणा ।

[[12]]

इदं ब्रह्म पुनीमहे । य पावमानीरध्येति । ऋषिभिस्सम्भृतँ रसम् । सर्वं सपूतमश्नाति । स्वदितं मातरिश्वना । पावमानीर्यो अध्येति । ऋषिभिस्सम्भृतँ रसम् । तस्मै सरस्वती दुहे । क्षीरँ सर्पिर्मधूदकम् । पावमानीः स्वस्त्ययनीः । सुदुघाहि पयस्वतीः । ऋषिभिस्सम्भृतो रसः । ब्राह्मणेष्वमृतँ हितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्थ्समर्धयन्तु नः । देवीर्देवैस्समाभृताः । पावमानीस्स्वस्त्ययनीः । सुदुघा हि घृतश्च्युतः । ऋषिभिस्सम्भृतो रसः । ब्राह्मणेष्वमृतं हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शतोद्यामँ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रसुनीती सह मा पुनातु । सोमस्स्वस्त्या वरुणस्समीच्या । यमो राजा प्रमृणाभिः पुनातु मा । जातवेदा मोर्जयन्त्या पुनातु । तच्छंय्यो रावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शञ्चतुष्पदे । ओं शान्तिश्शान्तिश्शान्तिः ।

कलशोदकेन शवमभिषिच्य, अग्निम् अप्रदक्षिणं परिषिच्य तिलान् गृहीत्वा,

यमो दधार पृथिवीं यमो द्यामुतस्सूर्यः । यमस्सर्व? मृत्युस्तेन प्राणानां वायुना स्वाहा । यमायेदम् । उशन्तस्त्वा निधीमह्यशन्तस्समिधीमहि । उशन्नुशत आवह पितॄन् हविषे

[[13]]

अत्तवे स्वधा नमस्स्वाहा । पितृभ्य इदम् । विश्वे देवस्य नेतुर्मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा । विश्वेभ्यो देवेभ्य इदम् । ओं भूस्स्वाहा । अग्नय इदम् । ओं भुवस्स्वाहा । वायव इदम् । ओं सुवस्स्वाहा । सूर्यायेदम् । ओं भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् । इति तिलैः हुत्वा । अग्निम् अप्रदक्षिणं परिषिच्य । ततस्संस्कुर्यात् ।

मरणसमये भयात् जल-मलोत्सर्गे पूतिगन्धे वा

मरणसमये भयादिना जलमलोत्सर्गेण आर्द्रीभूते रोगादिना पूतिगन्धे वा गोमयवारिणा स्नापयित्वा, शुद्धजलेन प्रक्षाल्य, गन्धोदकेन सेचयित्वा, गोदानं कृच्छ्रत्रयं च कुर्यात् । प्राणानायम्य, प्राचीनावीती सङ्कल्प्य,

गोत्रस्य शर्मणः प्रेतस्य मरणसमये भयेन जलमलोत्सर्गप्रायश्चित्तार्थं रोगादिना पूतिगन्धोत्पत्तिप्रायश्चित्तार्थं वा गोदानं करिष्ये

इति सङ्कल्प्य, गाम् अलङ्कृत्य प्रतिग्रहीतारं च अलङ्कृत्य,

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
तस्मादस्याः प्रदानेन अदशान्ति प्रयच्छ मे ॥

गोत्रस्य शर्मणः प्रेतस्य मरणसमये भयेन जलमलोत्सर्गदोषप्रायश्चित्तार्थं पूतीगन्धदोषनिवृत्त्यर्थं वा “इमां गां तुभ्यमहं संप्रददे न मम” इति विप्राय गां प्रतिनिधिं वा दद्यात् ।

[[14]]

मरणसमये

भयाज्जलमलोत्सर्गप्रायश्चित्तार्थं पूतीगन्धदोषप्रायश्चित्तार्थं वा कृच्छ्रत्रयं करिष्ये

इति सङ्कल्प्य हिरण्यं गृहीत्वा,

हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

गोत्रस्य शर्मणः प्रेतस्य मरणसमये भयात् जलमलोत्सर्गप्रायश्चित्तार्थं, पूतीगन्धदोषनिवृत्त्यर्थं वा प्राजापत्यकृच्छ्रत्रयप्रत्याम्नायं यत्किञ्चिद्धिरण्यं नानागोत्रेभ्यः विप्रेभ्यः सम्प्रददे न मम

इति भूमौ सतिलम् उदकं हिरण्यं निनीय ब्राह्मणेभ्यो दत्वा, अग्निसन्धादि [[नादि??]] कुर्यात् ।

दक्षिणायन–कृष्ण-पक्ष–रात्रि-मरणेषु

दक्षिणायने कृष्णपक्षे रात्रौ वा मरणे,

ता सूर्या चन्द्रमसा, उभावन्तौ पती द्युमत्, विश्ववपरी, अस्य श्रवः, पूर्वापरम्

इत्येतैः चतुर्गृहीतं प्रतिनिमित्तं जुहुयात् । षण्णामपि सूर्याचन्द्रमोभ्यामिदम् इत्युद्देशत्यागः । प्राणानायम्य प्राचीनावीती, सङ्कल्प्य,

अस्यां तिथौ … गोत्रस्य … शर्मणः पितुः प्रेतस्य दक्षिणायनकृष्णपक्षरात्रिमरणप्रायश्चित्तं करिष्ये,

इति सङ्कल्प्य, अग्निम् अप्रदक्षिणं परिषिच्य, दर्व्या चतुर्गृहीतेर्गृनाज्येन[[??]] जुहोति ।

ता सूर्याचन्द्रमसा विश्वभृत्तमा महत् ।
तेजो वसुमद्राजतो दिवि । सामात्माना चरतस्सामचारिणा । ययोर्व्रतं नव (म) मे जातु देवयोः स्वाहा ।
सूर्याचन्द्रमोभ्यामिदम् । उभावन्तौ परियात अर्म्या ।
दिवो न रश्मींस्तनुतो व्यर्णवे । उभा भुवन्ती भुवना कविक्रतू । सूर्या न चन्द्रा चरतो हतामती स्वाहा ।

[[15]]

सूर्याचन्द्रमोभ्यामिदम् । पती द्युमद्विश्वविदा उभा दिवः ।
सूर्या उभा चन्द्रमसा विचक्षणा । विश्ववारा वरिवो भावरेण्या ।
तानोवतं मतिमन्ता महिव्रता स्वाहा । सूर्याचन्द्रमोभ्यामिदम् ।
विश्ववपरी प्रतरणा तरन्ता । सुवर्विदा दशये भूरिरश्मी ।
सूर्या हि चन्द्रा वसु त्वेष दर्शन्ता । मनस्विनो भानु चरतोनुसन्दिवं स्वाहा । सूर्याचन्द्रमोभ्यामिदम् ।
अस्य श्रवो नद्यस्सप्त बिभ्रति । द्यावा क्षामा पृथिवी दर्शतं वपुः ।
अस्मे सूर्याचन्द्रमसाभिचष्टे । श्रद्धे कमिन्द्रचरतो विचर्तुरं स्वाहा । सूर्याचन्द्रमोभ्यामिदम् ।
पूर्वापरं चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् ।
विश्वान्यन्यो भुवनाभिचष्टे । ऋतूनन्यो विदधज्जायते पुनस्स्वाहा । सूर्याचन्द्रमोभ्यामिदम् ।
एवं प्रतिनिमित्तं षडाहुतीर्हुत्वा । अग्निम् अप्रदक्षिणं परिषिच्य, ततस्संस्कुर्यात् ।

सर्पहतौ

सर्पहते, नमो अस्तु सर्पेभ्यो ये दोरोचने दिवः, या इषव

इति तिसृभिः चतुर्गृहीतं हुत्वा, सूवर्णतारकृतसर्पप्रतिमां गां च श्रोत्रियाय दद्यात् । प्राणानायम्य, प्राचीनावीती,

अस्यां तिथौ गोत्रस्य शर्मणः प्रेतस्य मरणकाले सर्पहतप्रायश्चित्तं करिष्ये

इति सङ्कल्प्य अग्निम् अप्रदक्षिणं परिषिच्य, दर्व्या चतुर्गृहीतेनाज्येन जुहोति ।

नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यस्सर्पेभ्यो नमस्स्वाहा । सर्पेभ्य इदम् ।
ये दोरोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सु सदःकृतं तेभ्यस्सर्पेभ्यो नमः स्वाहा । सर्पेभ्य इदम् ।
या इषवो यातुधानानां ये वा वनस्पतीँरनु । ये वावटेषु शेरते तेभ्यस्सर्पेभ्यो नमः स्वाहा । सर्पेभ्य इदम् ।

इति तिसृभिः चतुर्गृहीतं हुत्वा, अग्निम् अप्रदक्षिणं परिषिच्य, उपवीती प्राणानायम्य, प्राचीनावोती

गोत्रस्य शर्मणः प्रेतस्य सर्पहतप्रायश्चित्तार्थं सर्पप्रतिमादानं करिष्ये,

इति सङ्कल्प्य

गोत्रस्य शर्मणः प्रेतस्य सर्पहतदोषनिवृत्त्यर्थं सर्पप्रतिमां सहिरण्यां तुभ्यमहं संप्रददे न मम,

इति श्रोत्रियाय प्रतिमां दत्वा, उपवीती, प्राणानायम्य, प्राचीनावीती,

गोत्रस्य शर्मणः प्रेतस्य सर्पहतदोषनिवृत्त्यर्थं गोदानं करिष्य

इति सङ्कल्प्य,

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
तस्मादस्याः प्रदानेन अदश्शान्तिं प्रयच्छ मे ॥
गोत्रस्य शर्मणः प्रेतस्य सर्पहतदोषनिवृत्त्यर्थम् इमां गां तुभ्यमहं संप्रददे न मम,

इति विप्राय गां दत्वा संस्कुर्यात् ।

पशुभिर्हते

पशुभिर्हते कृच्छ्रं कृत्वा, “आगावो अग्मन् इन्द्रो यज्वन”, इति द्वाभ्यां चतुर्गृहीतं जुहुयात् । उपवीती प्राणानायम्य, प्राचीनावीती सङ्कल्प्य,

गोत्रस्य शर्मणः प्रेतस्य पशुभिर्हतप्रायश्चित्तार्थं प्राजापत्यकृच्छ्रप्रतिनिधि यत्किञ्चित् हिरण्यरूपेण करिष्ये ।

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

विप्राय दत्वा,

[[17]]

उपवीती, प्राणानायस्य, प्राचीनावीती,

गोत्रस्य शर्मणः प्रेतस्य पशुभिर्हतप्रायश्चित्तहोमं करिष्ये

इति सङ्कल्प्य, अग्निम् अप्रदक्षिणं परिषिच्य, चतुर्गृहीतेनाज्येन जुहोति ।

आगावो अग्मन्नुत भद्रमक्रन् । सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युः । इन्द्राय पूर्वीरुषसो दुहानास्स्वाहा । पशुभ्य इदम् ।
इन्द्रो यज्वने पृणते च शिक्षति । उपेद्ददाति न स्वं मुषायति । भूयो भूयो रयिमिदस्य वर्धयन् । अभिन्ने खिल्ले निदधाति देवयुं स्वाहा । इन्द्रायेदम् ।

अग्निम् अप्रदक्षिणं परिषिच्य, ततस्संस्कुर्यात् ।

दंष्ट्रिभिर् हते

दंष्ट्रिभिर्हते, दष्ट्राभ्यां मलिम्लूञ्जभ्यैः, ये जनेषु मलिम्लव इति द्वाभ्यां चतुर्गृहीतं जुहुयात् । उपवीती प्राणानायम्य, प्राचीनावीती, “गोत्रस्य शर्मणः प्रेतस्य दंष्ट्रिभिर्हतप्रायश्चित्तं करिष्ये”, इति सङ्कल्प्य, अग्निम् अप्रदक्षिणं परिषिच्य,

चतुर्गृहीतेनाज्येन जुहोति । दष्ट्राभ्यां मलिम्लूञ्जभ्यैस्तस्कराँ उत । हनुभ्याँ स्तेनान् भगवस्ताँस्त्वं खाद सुखादितान् स्वाहा । देवेभ्य इदम् ।
ये जनेषु मलिम्लवस्तेनासस्तस्करा वने । ये कक्षेष्वघायवस्तांस्ते दधामि जम्भयोः स्वाहा । देवेभ्य इदम् । अग्निम् अप्रदक्षिणं परिषिच्य ततस्संस्कुर्यात् ।

[[18]]

अप्सु मृते

अप्सु मृते, “इमं मे वरुण तत्त्वायामी"ति द्वाभ्यां चतुर्गृहीतं जुहुयात् । प्रथमतः कृच्छ्रं कृत्वा, उपवीती, प्राणानायम्य, प्राचीनावीती, “गोत्रस्य शर्मणः प्रेतस्य अप्युमरणप्रायश्चित्तं करिष्ये”, इति सङ्कल्प्य, अग्निमप्रदक्षिणं परिषिच्य, चतुर्गृहीतेनाज्येन जुहोति ।

इमं मे वरुण श्रुधीहवमद्या च मृडय । त्वामवस्युराचके स्वाहा । वरुणायेदम् । तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशँसमान आयुः प्रमोषीस्स्वाहा । वरुणायेदम् । अग्निम् अप्रदक्षिणं परिषिच्य, ततः संस्कुर्यात् ।

अशनि-हते

अशनिहते मूर्धानं दिव इति चतुर्गृहीतं जुहुयात् । उपवीती प्राणानायम्य, प्राचीनावीती, “गोत्रस्य शर्मणः प्रेतस्य अशनिहतप्रायश्चित्तं करिष्ये” इति सङ्कल्प्य, अग्निम् अप्रदक्षिणं परिषिच्य चतुर्गृहीतेन आज्येन जुहोति ।

मूर्धानं दिवो अरति पृथिव्या वैश्वानरम् ऋताय जातमग्निम् । कविँ सम्राजमतिथिं जनानामासन्नापात्रं जनयन्त देवाः स्वाहा । अग्नये देवेभ्य इदम् ।

पूर्ववत् परिषिच्य, ततः कर्म कुर्यात् ।

[[19]]

गर्भिणी-मरणे

गर्भिण्याः षण्मासादूर्ध्वं मरणे, तां श्मशानं नीत्वा, हस्तसंमार्जनान्तं कृत्वा, तस्या उदरं वामतः स्वधितिना[[??]], “हिरण्यगर्भः समवर्तताग्रे” इत्युल्लिख्य, गर्भमुद्धृत्य, “यदि जीवति शिशुः जीवतु मम पुत्रो दीर्घायुत्वाय वर्चसे” इति तामभिमन्त्र्य, हिरण्यशकलम् अन्तर्धाय, जलेनाभिषिच्य, ग्रामं नीत्वा, “यस्ते स्तनश्शशयो यः” इति मन्त्रेण स्तनं प्रदाप्य सुरक्षितं कृत्वा, श्मशानं गत्वा तदुदरे “शतायुधाय ये चत्वारः”, “ग्रीष्मो हेमन्तः इदुवसराय”, “भद्रान्न श्रेयः” इति “प्रयासाय स्वाहा” “प्राणाय स्वाहा” “पूष्णे स्वाहा” इत्यनुवाकत्रयेण प्रतिस्वाहाकारं षड्विंशतिभिश्च हुत्वा, सूच्या सूत्रेण जठरं सन्धाय मृद्भस्मकुशगोमूत्रसहितैः जलैः संस्नाप्य, वस्त्रेणाच्छाद्य, चितिमारोप्य अष्टकाधेनुं नीलधेनुं भूमिधेनुं च दत्वा, उत्तरं कर्म कुर्यात् । यदि शिशुः मृतः स्यात्, गोघृतेनाभ्यज्य, अलङ्कृत्य तस्याः पादप्रदेशे व्याहत्या निखनेत् ।

प्रेतौपासनादिहस्तसंमार्जनान्तं यथावत् कृत्वा, भर्तृमरणानन्तरं सञ्चयनात्परं गर्भिणीमरणे उत्तपनाग्न्युत्पादनप्रभृति हस्तसंमार्जनान्तं कृत्वा, तस्य उदरे वामतः स्वधितिना-

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम,

इत्युल्लिख्य, गर्भमुद्धृत्य, “यदि जीवति शिशुः जीवतु मम पुत्रो दीर्घायुत्वाय वर्चते” इत्यभिमन्त्र्य, शिशौ हिरण्यशकलमन्तर्धाय जलेनाभिषिच्य

[[20]]

शिशुर्यदि जीवेत्, तं ग्रामं नीत्वा,

यस्ते स्तनश्शशयो यो मया भूः । येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद्यस्सुदत्रः । सरस्वति तमिह धातवेकः

इति स्तनं प्रदाप्य, सुरक्षितं कृत्वा, श्मशानं गत्वा नापितादिना स्पृष्टिश्चेत्, यथोक्तमन्त्रस्नानादिकं कारयित्वा तस्या उदरे स्रुवेणाज्याहुतीर्जुहोति ।

शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे । शतं यो नश्शरदो अजीतानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । इन्द्रायेदम् । ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिमजीतिमावहात्तस्मै नो देवाः परिदत्ते ह सर्वे स्वाहा । देवेभ्य इदम् । ग्रीष्मो हेमन्त उत नो वसन्तः शरद्वर्षास्सुवितं नो अस्तु । तेषामृतूनाँ शतशारदानां निवात एषामभये स्याम स्वाहा । ऋतुभ्य इदम् । इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः । तेषां वयँ सुमतौ यज्ञियानां ज्योगजीता अहतास्स्याम स्वाहा । संवत्सरेभ्य इदम् । भद्रान्नश्श्रेयस्समनेष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभू पितो आविशस्व शन्तोकाय तनुवे स्योनस्स्वाहा । देवेभ्य इदम् । प्रयासाय स्वाहा । प्रथासायेदम् । आयासाय स्वाहा । आयासायेदम् । वियासाय स्वाहा - वियासायेदम् । संयासाय स्वाहा । संयासायेदम् । उद्यासाय स्वाहा । उद्यासायेदम् । अवयासाय स्वाहा - अवसायासायेदम् । शुचे स्वाहा - शुच इदम् ।

[[21]]

शोकाय स्वाहा । शोकयेदम् । तप्यत्वै स्वाहा । तप्यत्वा इदम् । तपते स्वाहा । तपत इदम् । ब्रह्महत्यायै स्वाहा । ब्रह्महत्याया इदम् । सर्वस्मै स्वाहा । सर्वस्मा इदम् । प्राणाय स्वाहा । प्राणायेदम् । व्यानाय स्वाहा । व्यानायेदम् । अपानाय स्वाहा । अपनायेदम् । चक्षुषे स्वाहा । चक्षुष इदम् । श्रोत्राय स्वाहा । श्रोत्रायेदम् । मनसे स्वाहा । मनस इदम् । वाचे सरस्वत्यै स्वाहा । वाचे सरस्वत्यै इदम् । पूष्णे स्वाहा । पूष्णे इदम् । पूष्णे शरसे स्वाहा । पूष्णे शरस इदम् । पूष्णे प्रपथ्याय स्वाहा । पूष्ण नरन्धिषाय स्वाहा । पूष्णे नरन्धिषायेदम् । पूष्णेङ्घ णये [[??]] स्वाहा । पूष्णेङ्घृणय इदम् । पूष्णे साकेताय स्वाहा । पूष्णे साकेतायेदम् ।

इत्येतैः हुत्वा सूच्या सूत्रेण जठरं सन्धाय, मृद्भस्मकुशगोमूत्रसहितैः जलैः संस्नाप्य, वस्त्रेणाच्छाद्य, चितिमारोप्य । उपवीती प्राणानायम्य, प्राचीनावीती, अष्टकाधेनुदानं, नीलधेनुदानं भूमिधेनुदानं च करिष्य इति सङ्कल्प्य, दत्वा, तदशक्तौ तत्प्रतिनिधि हिरण्यं वा दत्वा, उत्तरं कर्म कुर्यात् ।

रजस्वला-सूतिकयोर् मरणे

रजस्वलासूतिकयोर्मरणे, ब्राह्मणाननुज्ञाप्य, शुद्धजलैः पश्चगव्येन कुशोदकैश्च पृथक्पृथक् स्नापयित्वा, “यदन्ति यच्चेत्या"दिभिः सप्तभिः “कयानश्चित्र” इति यजुःपवित्रेण

[[22]]

“आपो अस्मान्” इति द्वाभ्याम् “आपोहिष्ठे"ति तिसृभिः “हिरण्यवर्णा” इति चतसृभिः “पवमानस्सुवर्चन” इत्येतेनानुवाकेन “उदुत्तमम्” इति वरुणसूक्तेन पुरुषसूक्तादिभिश्च अभिमन्त्रितेन कुम्भजलेन च स्नापयित्वा, पञ्चगव्येन योनिं प्रक्षाल्य, वस्त्रान्तरेणाच्छाद्य, प्राजापत्यकृच्छ्रं, वारुणकृच्छ्रं, तीर्थकृच्छ्रं च कृत्वा, “जातवेदसे सुनवाम”, “तामग्निवर्णाम्”, “अग्ने त्वं पारय”, “विश्वानि नः”, “पृतनाजितम्” इति पञ्चभिः, “मनोज्योति"रित्येतया गायत्र्या, “भूरग्नये चे"ति चतुर्भिः, “योस्य कौष्ठ्य यमङ्गाय” इति द्वाभ्यां च हुत्वा संस्कुर्यात् ।

प्रयोगः

प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रायाः नाम्न्याः प्रेतायाः सूतको मरणप्रायश्चित्तं रजस्वलामरणप्रायश्चित्तं वा कर्तुं योग्यतासिद्धिम् अनुगृहाण

तैरनुज्ञातः । उपवीती प्राणानायम्य, प्राचीनावीती

गोत्राया नाम्न्याः अमुकप्रेतायाः रजस्वलामरणप्रायश्चित्तं सूतिकामरणप्रायश्चित्तं वा करिष्यामि

इति सङ्कल्प्य, तूष्णीं शुद्धजलैः शतकलशैः पञ्चगव्येन कुशोदकैश्च पृथक् पृथक् स्नापयित्वा, शुद्धजलपूर्णं सकूर्चं कुंभं निधाय चतुर्भिः ब्राह्मणैस्सह कुम्भमन्वारभ्य

यदन्ति यच्चूरके भयं विन्दति मामिह । पवमानवितञ्ज हि । पवमानस्सो अञ्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु नः ।

[[23]]

यत्ते पवित्रमचिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः । यत्ते पवित्रमर्चिंवदग्ने तेन पुनीहि नः । ब्रह्मसवैः पुनीहि नः उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः । त्रिभिष्टं देवसवितर्वषिष्ठैस्सोमधामभिः । अग्ने दक्ष पुनीहि नः । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । विश्वे देवाः पुनीहि मा जावेदः पुनीहि मा ।

इति सप्तभिः । कयानश्चित्र आभुवदूती सदा वृधस्सखा । कया शचिष्ठया वृता । आपो अस्मान् मातरश्शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु विश्वमस्मत्प्रवहन्तु रिप्रमुदाभ्यश्शुचिरापूत एमि । आपो हिष्ठा मयोभुवः - आपो जनयथा च नः । हिरण्यवर्णाश्शुचयः पावका यासु जातः कश्यपो यास्विन्द्र – बलमोजो निधत्त । पवमानस्सुवर्जनः - जातवेदा मोर्जयन्त्या पुनातु । उदुत्तमं वरुणपाशम-मदवाधमं[[??]] विमध्यमँ श्रथाय । अथा वयमादित्यव्रते तवानागसो अदितये स्याम । अस्तभ्नाद्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राद्विश्वेत्तानि वरुणस्य व्रतानि । यत्किञ्चेदं वरुणदैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मानस्तस्मादेनसो देव रीरिषः । कितवासो यद्रिरिपुर्न दीवि यद्वाघा सत्यमुत यन्न विद्म । सर्वा ताविष्य शिथिरेव देवाथाते स्याम वरुण प्रियासः । अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।

[[24]]

क्षयन्नस्मभ्यमसुर प्रचेतो राजन्नेनाँसि शिश्रथः कृतानि । तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोद्ध्युरुशँसमान आयुः प्रमोषीः ।

इति वरुणसूक्तेन

सहस्रशीर्षा पुरुषः । सहस्राक्षस्सहस्रपात् - यत्र पूर्वे साध्यास्सन्ति देवाः

इति पुरुषसूक्तद्रुपदादिभिः जपित्वा, तेन कुम्भजलेन च शवं स्नापयित्वा, पञ्चगव्येन योनिं प्रक्षाल्य, वस्त्रान्तरेणाच्छाद्य, उपवीती, प्राणानायम्य, प्राचीनावीती

गोत्रायाः नाम्न्याः अस्याः प्रेतायाः सूतिकामरणप्रायश्चित्तार्थं प्राजापत्यकृच्छ्रं वारुणकृच्छ्रं तीर्थक्रच्छ्रं च यत्किञ्चिद्धिरण्यरूपेण करिष्ये

इति सङ्कल्प्य, कृच्छ्राणि दत्वा, शक्तश्चेत् कृच्छ्राणि प्रत्येकं यथावत् दद्यात् । ब्राह्मणैः अनुज्ञाप्य, उपवीती प्राणानायभ्य, प्राचीनावीती “प्रेताग्निसन्धानं करिष्य” इति सङ्कल्प्य

अयाश्च होमान्ते । जातवेदसे सुनवाम सोममरातीयतो निजहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुँ दुरितात्यग्निः स्वाहा । अग्नये जातवेदस इदम् । तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीँ शरणमहं प्रपद्ये सुतरसि तरसे नमः स्वाहा । दुर्गाया इदम् ।
अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शँय्योः स्वाहा । अग्नय इदम् ।
विश्वानि नो दुर्गहा जातवेदस्सिन्धुन्न नावा दुरितातिपर्षि ।

[[25]]

अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनां स्वाहा । अग्नय इदम् ।
पृतनाजितँ सहमानमग्निमुग्रँ हुवेम परमात्सधस्थात् । स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः स्वाहा । अग्नय इदम् ।
मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञँ समिमं दधातु । या इष्टा उषसो निम्रुचश्च तास्सन्दधामि हविषा घृतेन स्वाहा । मनसे ज्योतिष इदम् ।
तत्सवितुर्वरेण्यं भर्गो - यात्स्वाहा । सवित्र इदम् । भूरग्नये च पृथिव्यै च महते च स्वाहा । अग्नये पृथिव्यै महत इदम् ।
भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । वायवे अन्तरिक्षाय महत इदम् । सुवरादित्याय च दिवे च महते च स्वाहा । आदित्याय दिवे महत इदम् । भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महत इदम् ।
योस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो गाय यो राजा न परोध्यस्स्वाहा । यमायेदम् । यमं गाय भङ्ग्यश्रवो यो राजानपरोध्यः । येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा स्वाहा । यमायेदम् ।

इत्येतैर्हुत्वा, संस्कुर्यात् । प्रोषितभर्तृका चेत् “सप्त ते अग्न” इत्यादिभिर्हुत्वा, संस्कुर्यात् ।

ब्रह्म-मेध-प्रयोगः

अथ ब्रह्ममेधप्रयोगः॥

प्राणसंशये कर्ता गोमयोपलिप्तायां भूम्यां दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु मुमूर्षुं दक्षिणाशिरसं शाययित्वा,

[[26]]

आयुषः प्राणाँ सन्तनु दिवस्सुवस्सन्तनु ।
ब्रह्मविदाप्नोति - भृगुर्वै वारुणिः

इत्यनुवाकौ च जपेत् ।

आयुषः प्राणाँ सन्तनु - दिवस्सुवस्सन्तनु ।
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता

इत्यनुवाकौ तस्य दक्षिणे कर्णे जपेत् ।

मृते ज्ञातयः केशान् विकीर्य, मूर्धसु अंसेषु च पांसून् प्रक्षिप्य, तर्जनीमध्यमानामिकाभिः मूर्धस्वपहत्य, प्रेतं घृतेनाभ्यज्य, संस्नाप्य भगवदुपयुक्तवस्त्रगन्धपुष्पाद्यैः अलङ्कुर्युः ।

अथ कर्ता स्नात्वा, ऊर्ध्वपुण्ड्रादिकं धृत्वा, सप्त पञ्च त्रीणि वा कृच्छ्राणि कृत्वा प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

अमुकगोत्रस्य अमुकशर्मणः अमुकशर्मण अमुकप्रेतस्य अमुकाग्निना पैतृमेधविधिना सह ब्रह्ममेधविधिना संस्कारं कर्तुं योग्यतासिद्धिम् अनुगृहाण

इति प्रार्थ्य, तैरनुज्ञातः उपवीती प्राणानायम्य, प्राचीनावीती -

श्रीगोविन्देत्यादि अस्यां तिथौ अमुकगोत्रम् अमुकशर्माणम् अमुकं प्रेतम् अमुकाग्निना पैतृमेधिकविधिना सह ब्रह्ममेधविधिना संस्करिष्यामि

इति सङ्कल्प्य, दक्षिणापवर्गम् उल्लिख्य, अग्निं प्रतिष्ठाप्य, परिस्तीर्य अग्नेः पश्चाद्दर्भेषु, “सर्वस्य प्रतिशीवरी"ति दक्षिणाशिरसं प्रेतं शाययित्वा,

सर्वस्य प्रतिशीवरी भूमिस्त्वोपस्थ आधित ।
स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः ।
प्रेतान्वारब्धः परे युवाँसम्

इति “चित्तिस्स्रुक्” इत्यादिभिः षड्भिः अनुवाकैश्च प्रतिस्वाहाकारं हुत्वा

[[27]]

परेयुवाँसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्वशानम् ।
वैवस्वतँ सङ्गमनं जनानां यमँ राजानँ हविषा दुवस्यन[[??]] स्वाहा । यमायेदम् । चितिस्स्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बहिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः । वाचस्पते विधे नामन् । विधम[[??]] ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोमं पिबतु । आस्मासु नृम्णन्धात्स्वाहा । वाचस्पतये ब्रह्मण इदम् ।
पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता । वाचस्पते वाचो वीर्येण । सम्भृततमेनायक्ष्यसे । यजमान य[[??]]वार्यम् । आसुवस्करस्मै । वाचस्पतिस्सोमं पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा । वाचस्पतये ब्रह्मण इदम् ।
अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । श्रोतास्त इन्द्रसोमाः । वातापेर्हतवन[[??]] श्रुतस्स्वाहा । अग्नय इदम् ।
सूर्यन्ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गेर्यज्ञम् । पृथिवीँ शरीरैः । वाचस्पतेऽच्छिद्रया वाचा । अच्छिद्रया जुह्वा । दिवि देवावृधँ होत्रा मेरयस्व स्वाहा । वाचस्पतय इदम् । महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता । वाचस्पते हृद्विधे नामन् । विधेम ते नाम ।

[[28]]

विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोममपात् । या दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे नमः पृथिव्यै स्वाहा । वाचस्पतये ब्रह्मण इदम् । वाग्घोता । दीक्षा पत्नी । वातोऽध्वर्युः । आपोऽभिगरः । मनो हविः । तपसि जुहोमि । भूर्भुवस्सुवः । ब्रह्म स्वयम्भु । ब्रह्मणे स्ववम्भुवे स्वाहा । ब्रह्मणे स्वयम्भुव इदम् । हस्ताङ्गुष्ठौ पादाङ्गुष्ठौ च पृथक् पृथक् श्वेतसूत्राभ्यां बध्वा शिरसि नलदमालाम् आबध्य औदुम्बर्यामासन्द्याम्, उत्तानं प्रेतं निपात्य, इदन्त्वा वस्त्रम् इति पत्तोदेशेनाखण्डितेन नवेन आच्छाद्य, इदन्त्वा वस्त्रं प्रथमन्यगन् - प्रेतस्य पूर्वधृतं वस्त्रम् “अपैतदूहे"ति धृत्वा आचामेत् । अपैतदूह यदिहाबिभः पुरा इष्टापूर्तमनु सम्पश्य दक्षिणां यथा ते दत्तं बहुधा विबन्धुषु । पूर्वप्रतिष्ठितेऽग्नौ जीवतण्डुलान् चरुं श्रपयित्वा । “इमौ युनज्मी"ति वाहकाननुमन्त्र्य

इमौ युनज्मि ते वह्नौ[[ह्नी??ह्नो??]] असुनीथाय वोढवे । याभ्यां यमस्य सादनँ सुकृतां चापि गच्छतात् । तैरादीयमानं प्रेतं, पूषा त्वेतश्च्यावयतु

इति “भर्ता सन् श्रियमाण” इत्यनुवाकेन च अनुमन्त्र्य,

पूषा त्वेतश्च्यावयतु प्रविद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परिददात्पितृभ्योऽग्निर्देवेभ्यस्सुविदत्रेभ्यः । भर्ता सन् भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । निधाय भारं पुनरस्तमेति । तमेव मृत्युममृतं तमाहुः । तं भर्तारं तमु गोप्तारमाहुः । स भृतो भ्रियमाणो बिभर्ति ।

[[29]]

य एनं वेद सत्येन भर्तुम् । सद्या जातमुत जहात्येषः त[[??]] उतो जरन्तं न जहात्येकम् । उतो बहूनेकमहर्जहार । अतन्द्रो देवस्सदमेव प्रार्थः । यस्तद्वेद यत आबभूव । सन्धाञ्च याँ सन्दधे ब्रह्मणैषः । रमते तस्मिन्नुत जीर्णे शयाने । नैनं जहात्यहस्सु पूर्व्येषु । त्वामापो अनु सर्वाश्चरन्ति जानतीः । वत्सं पयसा पुनानाः । त्वमग्निँ हव्यवाहँ समिन्त्से । त्वं भर्ता मातरिश्वा प्रजानाम् । त्वय्ँयज्ञस्त्वमुवेवासि सोमः । तव देवा हवमायन्ति सर्वे । त्वमेकोऽसि बहूननु प्रविष्टः । नमस्ते अस्तु सुहवो म एधि । नमो वामस्तु । शृणुतँ हवम्मे । प्राणापानावजिरँ सञ्चरन्तौ । ह्वयामि वां ब्रह्मणा तूर्तमेतम् । यो मां द्वेष्टि तञ्जहि तं युवाना । प्राणापानौ संविदानौ जहि तम् । अमुष्यासु नामा सङ्गसाथाम् । तं मे देवा ब्रह्मणा संविदानौ । वधाय धत्तं तमहँ हनामि । असज्जजान स त आबभूव । यं यं जजान स उ गोपो अस्य । यदा भारं तन्द्रयते स भर्तुम् । परास्य भारं पुनरस्तमेति । तद्वै त्वं प्राणो अभवः । महान् भोगः प्रजापतेः । भुजः करिष्यमाणः । यद्देवान् प्राणयो नव

इत्यनुमन्त्रयेत ।

अग्रेऽग्निं प्रस्थाप्य, ततः पश्चात् मुक्तशिखः कर्ता गच्छेत् । ततस्तिलान् तण्डुलान् चरुं पालाशशाखां लोष्टान् हिरण्यशकलान् आज्यं पात्राणि दर्भान् मेक्षणम् अश्मनः सिकताः उदकुम्भं च प्रस्थापयेत् ।

[[30]]

ततो वाहका निवीतिनः मौनिनश्च ग्रामानभिमुखं प्रेतं निर्हरेयुः । ज्ञातयो ज्येष्ठक्रमेण पश्चात् गच्छेयुः । अन्ये च यथेष्टं पश्चादेव गच्छेयुः । नाग्रे पार्श्वयोश्च । प्रेताग्निसम्भारतृणकाष्ठान् ब्राह्मणैरेव हारयेत् । न शूद्रैः । ग्रामश्मशानयोरन्तरं मार्गं चतुर्धा कृत्वा, तत्राद्यं चतुर्थांशं गत्वा, दक्षिणाशिरसं प्रेतं निधाय, “सर्वस्य प्रतिशीवरी"ति प्रेतासनं कृत्वा, तस्य दक्षिणतः लोष्टेषु चरुं प्रतिष्ठाप्य, सर्वे ज्ञातयः द्वेधा केशान् विभज्य दक्षिणान् केशानाबध्य सव्यान् विस्रस्य, दक्षिणानूरूनाघ्राना अधोवस्त्राण्यवधून्वन्तः कनिष्ठपूर्व, “अपनश्शोशुचदघम्” इति प्रेतं त्रिरप्रदक्षिणं परीत्य सव्यान् केशानाबध्य, दक्षिणान् विस्रस्य सव्यानुरूनाघ्नाना अनवधून्वन्तः प्राचीनावीतिन एव, “अपनश्शोशुचदघम्” इति प्रेतं त्रिः प्रदक्षिणं कुर्युः । ततो मेक्षणेन चरोस्तृतीयांशं लोष्टेषु सकृदेव प्रक्षिप्य, चरुं त्रिः मिश्रयेत् । ततस्तैरादीयमानं प्रेतं, “पूषे मा आशा” इति “भर्ता सन्” इति चानुमन्त्र्य, अवशिष्टांशत्रयस्य मार्गस्य चतुर्थांशं गत्वा, प्रेतं निधानादि पूर्ववत् कृत्वा, ततस्तैरादीयमानं प्रेतम् “आयुविश्वायुः” इति “भर्ता सन्नि"ति चानुमन्त्रयेत् । पुनरवशिष्टांशत्रयस्य मार्गस्य चतुर्थांशं गत्वा, प्रेतं निधानादि पूर्ववत् कृत्वा, चरुस्थालीं कपालेषु यथोदकं न तिष्ठेत् तथा भित्वा, तत आदीयमानं प्रेतम् “आयुर्विश्वायुरि"ति “भर्ता सन्नि"ति चानुमन्त्रयेत् ।

[[31]]

ततो वाहकाः प्रेतं श्मशानं नीत्वा, दहनदेशस्य पश्चाद्भागे निधाय, कर्त्रा सह उदीचीं दिशं गच्छेयुः । एषा वै देवमनुष्याणाँ शान्ता दिक् । तामेवैनाननूत्क्रामन्ति इति विज्ञायते ।

ततः कर्ता प्रत्येत्य ऊषरामेध्यान्यदाहरहितं श्मशानदेशम् आर्द्रया पलाशशाखया वारणशाखया वा तासामभावे बहुपर्णशाखया यथा कयाचित् शाखया, अपेत वीतेति संहितापाठान्तं संमृज्य दक्षिणतः शाखां निरस्य अप उपस्पृश्य उद्धृत्य अवोक्ष्य, हिरण्यशकलम् अन्तर्धाय दक्षिणाग्रान् दर्भान् संस्तीर्य, तेषु दक्षिणाग्रैः याज्ञियैः काष्ठैः तुलसीकाष्ठयुक्तैः शकृदेधोभिश्च दक्षिणा प्राचीं चितिं कृत्वा, तत्पुरस्तात् अग्निं निधाय, तां चितिं च सहसा पृथग्वा परिस्तीर्य अग्नेर्दक्षिणतः दर्भान् संस्तीर्य तेषु दर्वीम् आज्यस्थालीं प्रोक्षणीपात्रं च दक्षिणाप्राच्योः एकैकशः सादयित्वा रज्जून् छित्वा, आसन्द्याम् एकैकं वंशम् अपनीय यथा रज्जुषु प्रेतः शयीत तथा कृत्वा एकपवित्रेण प्रोक्षणीः उत्पूय अङ्गुष्ठबन्धनसूत्रं छित्वा, प्रेतं पात्राणि चितिं च प्रत्येकं प्रोक्ष्य, आज्यं दर्वीं च संस्कृत्य “सुवर्णं हस्तात्” इति “देवस्य त्वेत्य"नुवाकेन च सप्तदशभिः अनुषङ्गैः प्रत्यनुषङ्गं सुवर्णेन प्रेतस्य हस्तौ संमृज्य

तत्प्रकारस्तु

युवर्णँ [[??]] हस्तादाददानामृतस्य श्रियै ब्रह्मणे तेजसे बलाय ।

[[32]]

अत्रैव त्वमिह वयँ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ।
देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णा[[??]] हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । दाता । कामः प्रतिग्रहीता । कामँ समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु ।

देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे सोमाय वासः । ग्नास्त्वा कृन्तन्नपसस्त्वा तन्वत वरूत्रस्त्वा वयम् । तेनामृतत्वमश्याम् — आङ्गीरसः प्रतिगृह्णातु ॥ २ ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे रुद्राय गाम् । तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ ३ ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे वरुणायाश्वम् । तेनामृतत्वमश्याम् – आङ्गीरसः प्रतिगृह्णातु ॥ 4 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे प्रजापतये पुरुषम् । तेनामृतत्वमश्याम् – आङ्गीरसः प्रतिगृह्णातु ॥ 5 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरणो नयतु देवि दक्षिणे मनवे तल्पम् ॥ 6 ॥

[[33]]

तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ 6 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि राजा त्वा वरुणो नयतु देवि दक्षिणे त्वष्ट्रेजाम् । तेनामृतत्वमश्याम् आङ्गीरसः प्रतिगृह्णातु ॥ 7 ॥
देवस्य त्वा सवितुः प्रसवे प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे पूष्णेऽविम् । तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ 8 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे निर्ऋत्या अश्वतरगर्दभौ । तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ 9 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे हिमवतो हस्तिनम् । तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ 10 ॥
देवस्य त्वा सवितुः प्रसवे प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे गन्धर्वाप्सराभ्यस्स्त्रगलङ्करणे । तेनामृतत्वमश्याम् आङ्गीरसः प्रतिगृह्णातु ॥ 11 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे विश्वेभ्यो देवेभ्यो धान्यम् । तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ 12 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे वाचेऽन्नम् । तेनामृतत्वमश्यामि - आङ्गीरसः प्रतिगृह्णातु ॥ 13 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे ब्रह्मणे[[??]]

[[34]]

ओदनम् । तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ 14 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि राजा त्वा वरुणो नयतु देवि दक्षिणे समुद्रायापः । तेनामृतत्वमश्याम् आङ्गीरसः प्रतिगृह्णातु ॥ 15 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे उत्तानायाङ्गीरसायानः । तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ 16 ॥
देवस्य त्वा सवितुः प्रसवे - प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम् । वैश्वानरः प्रत्नथा नाकमारुहत् । दिवं पृष्ठं भन्दमानस्सुमन्मभिः । स पूर्ववज्जनयज्जन्तवे धनम् । समानमज्मा परियाति जागृविः । राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम् । तेनामृतत्वमश्याम् - आङ्गीरसः प्रतिगृह्णातु ॥ 17 ॥

ततः प्रेतं दक्षिणाशिरसम् उत्तानं चित्याम् आरोप्य, सप्त व्याहृतिं मनसा ध्यायन्, सुवर्णशकलान् आज्यबिन्दून् वा आस्यनेत्रश्रोत्रघ्राणेषु दक्षिणसव्येषु क्रमात् निक्षिपेत् ॥

सुवर्णं घर्ममित्यास्ये

सुवर्णं धर्मं परिवेदवेनम् । इन्द्रस्यात्मानं दशधा चरन्तम् । अन्तस्समुद्रे मनसा चरन्तम् । ब्रह्मान्वविन्दद्दशहोतारमर्णे । अन्तः प्रविष्टश्शास्ता जनानाम् । एकस्मिन् बहुधा विचारः । शतँ शुक्राणि यत्रैकं भवन्ति । सर्वे वेदा यत्रैकं भवन्ति ।

[[35]]

सर्वे होतारो यत्रैकं भवन्ति । समानसीन आत्मा जनानाम् । अन्तः प्रविष्टश्शास्ता जनानाँ सर्वात्मा । सर्वाः प्रजा यत्रैकं भवन्ति । चतुर्होतारो यत्र सम्पदं गच्छन्ति देवैः । समानसीन आत्मा जनानाम् ।

ब्रह्मेन्द्रमिति दक्षिणे नेत्रे

ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानँ सवितारं बृहस्पतिम् ।
चतुर्होतारं प्रदिशोऽनुकॢप्तम् । वाचो वीर्यं तपसान्वविन्दत् ।
अन्तःप्रविष्टं कर्तारमेतम् । त्वष्टारँ रूपाणि विकुर्वन्तं विपश्चिम् ।
अमृतस्य प्राणँ यज्ञमेतम् । चतुर्होतॄणामात्मानं कवयो निचिक्युः ।
अन्तःप्रविष्टं कर्तारमेतम् । देवानां बन्धुनिहितं गुहासु ।
अमृतेन कॢप्तं यज्ञमेतम् । चतुर्होतॄणामात्मानं कवयो निचिक्युः ।

शतं नियुत इति सव्ये नेत्रे

शतं नियुतः परिवेदविश्वा विश्ववारः । विश्वमिदं वृणाति । इन्द्रस्यात्मा निहितः पञ्चहोता । अमृतं देवानामायुः प्रजानाम् । इन्द्रँ राजानँ सवितारमेतम् । वायोरात्मानं कवयो निचिक्युः । रश्मिँ रश्मीनां मध्ये तपन्तम् । ऋतस्य पदे कवयो निपान्ति । य आण्डकोशे भुवनं बिभर्ति । अनिर्भिण्णस्सन्नथ लोकान् विचष्टे । यस्याण्डकोशँ शुष्मयाहुः प्राणमुल्बम् । तेन कॢप्तोऽमृतेनाहमस्मि ।

[[36]]

सुवर्णं कोशमिति दक्षिणे कर्णे

सुवर्णं कोशँ रजसा परीवृतम् । देवानां वसुधानीं विराजम् । अमृतस्य पूर्णां तामु कलां विचक्षते । पादँ षड्ढोतुर्न किला विवित्से । येनतवः[[??]] पञ्चधोत कॢप्ताः । उत वा षड्धा मनसोत कॢप्ताः । तँ[[??]] षड्ढोतारमृतुभिः कल्पमानम् । ऋतस्य पदे कवयो निपान्ति । अन्तःप्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । सहेव[[??]]सन्तन्न विजानन्ति देवाः । इन्द्रस्यात्मानँ शतधा चरन्तम् ।

इन्द्रो राजेत्यनुवाकशेषेण सव्ये कर्णे

इन्द्रो राजा जगतो य ईशे । सप्त होता सप्तधा विकॢप्तः । परेण तन्तुँ परिषिच्यमानम् । अन्तरादित्ये मनसा चरन्तम् । देवानाँ हृदयं ब्रह्मान्वविन्दत् । ब्रह्मैतद्ब्रह्मण उज्जभार । अर्कँ श्चोतन्तँ सरिरस्य मध्ये । आ यस्मिन् सप्त पेरवः । मेहन्ति बहुलाँ श्रियम् । बह्वश्वामिन्द्रगोमतीम् । अच्युतां बहुलाँ श्रियम् । स हरिर्वसुवित्तमः । पेरुरिन्द्राय पिन्वते । बह्वश्वामिन्द्रगोमतीम् । अच्युतां बहुलाँ श्रियम् । मह्यमिन्द्रो नियच्छतु । शतँ शता अस्य युक्ता हरीणाम् । अर्वाङायातु वसुभी रश्मिरिन्द्रः । प्रमँहमाणो बहुलाँ श्रियम् । रश्मिरिन्द्रस्सविता मे नियच्छतु । घृतं तेजो मधुमदिन्द्रियम् । मय्ययमग्निर्दधातु । हरिः पतङ्गः पटरी सुपर्णः ।

[[37]]

दिविक्षयो नभसा य एति । स न इन्द्रः कामवरं ददातु । पञ्चारं चक्रं परिवर्तते पृथु । हिरण्यज्योतिस्सरिरस्य मध्ये । अजस्रं ज्योतिर्नभसा सर्पदेति । स न इन्द्रः कामवरं ददातु । सप्त युञ्जन्ति रथमेकचक्रम् । एको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्वम् । येनेमा विश्वा भुवनानि तस्थुः । भद्रं पश्यन्त उपसेदुरग्रे । तपो दीक्षामृषयस्सुवर्विदः । ततः क्षत्रं बलमोजश्च जातम् । तदस्मै देवा अभिसन्नमन्तु । श्वेतँ रश्मिं बोभुज्यमानम् । अपां नेतारं भुवनस्य गोपाम् । इन्द्रं निचिक्युः परमे व्योमन् रोहिणीः पिङ्गला एकरूपाः । क्षरन्तीः पिङ्गला एकरूपाः । शतँ सहस्राणि प्रयुतानि नाव्यानाम् । अयं यः श्वेतो रश्मिः । परि सर्वमिदं जगत् । प्रजां पशून्धनानि । अस्माकं ददातु । श्वेतो रश्मिः परिसर्व बभूव । सुवन्मह्यं पशून् विश्वरूपान् । पतङ्गमक्तमसुरस्य मायया । हृदा पश्यन्ति मनसा मनीषिणः समुद्रे अन्तः कवयो विचक्षते । मरीचीनां पदमिच्छन्ति वेधसः । पतङ्गो वाचं मनसा बिभर्ति । तान् गन्धर्वो वददगर्भे अन्तः । तां द्योतमानाँ स्वयं मनीषाम् । ऋतस्य पदे कवयो निपान्ति । ये ग्राम्याः पशवो विश्वरूपाः । विरूपास्सन्तो बहुधैकरूपाः । अन्निस्ताँ अग्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः । वीतँ स्तुके स्तुके । युवमस्मासु नियच्छतम् । प्रप्रयज्ञपतिं तिर । ये ग्राम्याः पशवो विश्वरूपाः । विरूपास्सन्तो बहुधैकरूपाः तेषाँ सप्तानामिह रन्तिरस्तु ।

[[38]]

रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय य आरण्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । वायुस्ताँ अग्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः । इडायै सृप्तं घृतवच्चराचरम् । देवा अन्वविन्दन् गुहाहितम् । य आरण्याः पशवो विश्वरूपाः । विरूपास्सन्तो बहुधैकरूपाः । तेषाँ सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । पुनश्चेन्द्रो राजेति दक्षिणे घ्राणे । तेनैव सव्ये घ्राणे च निक्षिपेत् ।

अथवा सुवर्णं घर्मम् इत्याद्यनुवाकान्तम् उक्त्वा, पूर्वोक्तस्थानेषु क्रमात् निक्षिपेत् । अथाज्यं मुखे निनीय पादप्रभृतिमुखपर्यन्तं, सन्ततं शेषं निनीय, दक्षिणतः पात्रं निरस्य, दधिमधुघृततण्डुलान् आस्ये दत्वा, आदित्याभिमुखः स्थित्वा, मैनमग्ने विदहश्शृतं यदा इति द्वाभ्यां, ज्योतिष्मतीं त्वा सादयामीत्यनुवाकेन च ज्वलदुल्मुकेन उरसि दहेत् । मैनमग्ने विदहो माभिशोचो मास्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं करवो जातवेदोऽथेमेनं प्रहिणुतात् पितृभ्यः । शृतं यदा करसि जातवेदोथेमेनं परिदत्तात् पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथो देवानां वशिनीर्भवाति । ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि । ज्योतिर्विदे त्वा सादयामि भास्वतीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मलाभवन्तीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयाम्यजस्रां त्वा

[[39]]

सादयामि बृहज्ज्योतिषे त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि ।

ततो निरवशेषमग्निम् अप्रदक्षिणं प्रागादिक्रमेण निक्षिप्य, “सूर्यं ते चक्षु"रिति, “सहस्रशीर्षाद्भ्यः रसभूत” इत्यनुवाकाथ्यां च प्रतमुपस्थाय,

सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र देहि तमोषधीषु प्रतितिष्ठा शरीरैः । सहस्रशीर्षा पुरुष - यत्र पूर्वे साध्यास्सन्ति देवाः । अद्भ्यः सम्भूतः पृथिव्यै रसाच्च सर्वं मनिषाण ।

उरस्थमग्निं यज्ञियैः काष्ठैः तुलसीकाष्ठैश्च प्रज्वाल्य, चितेः पश्चात् प्राङ्मुखः स्थित्वा, “य एतस्य पथो गोप्तार” इति नवभिः “प्रयासाय स्वाहे"ति द्वादशभिश्च प्रतिस्वाहाकारं हुत्वा,

य एतस्य पथो गोप्तारस्तेभ्यस्स्वाहा । गोप्तारस्तेभ्य इदम् । य एतस्य पथो रक्षितारस्तेभ्यस्स्वाहा । पथो रक्षितारस्तेभ्य इदम् । य एतस्य पथोऽभिरक्षितारस्तेभ्यः स्वाहा । पथोऽभिरक्षितारस्तेभ्य इदम् । आख्याते स्वाहा । आख्यात्र इदम्, अपाख्यात्रे स्वाहा । अपाख्यात इदम् । अभि …..