२९ दीक्षितनियमाः

चनसितं विचक्षणमिति नामधेयान्तेषु निदधाति । चनसितेति ब्राह्मणम् । विचक्षणेति राजन्यवैश्यौ । परिणयेन मानुषीं वाचं वदति १। न स्त्रिया न शूद्रेण सम्भाषेत । पत्न्यादि वर्जम् । नैनमनु प्रपद्येत । यद्येनं शूद्रेण संवाद उपपद्येत ब्राह्मणराजन्यवैश्यानामेकं ब्रूयादिममित्थं ब्रूहीति वाजसनेयकम् । अभिवदति नाभिवादयते अप्याचार्यं श्वशुरं राजानमिति शाट्यायनकम् । न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेत् । न दन्तान् दर्शयते । हस्तेनापिगृह्य स्मयते । मधु मांसं स्त्रियमनृतमुपरिशय्यां ष्ठीवनं विकाले निष्क्रमणं दीक्षितविमितात्प्रवासमिति वर्जयेत् ।

इयं ते यज्ञापो मुञ्च पृथिव्या संभवेति च ।

इदं त्वमग्ने विश्वे च पुनर्माग्ने च या व्रतम् ॥

यन्मेऽत्र तु यदत्रापि यदन्नमपि रुद्रियाम् ।

बीभत्कृपा तपस्यानामबद्धं मन उन्दतीः ॥

विश्वे देवा अभीत्युक्त्वा देवाञ्जनमगन् जपेत् ।

इदं त्वमग्ने व्रातस्तु त्वमग्ने व्रतपा असि ॥

विकल्पेनेदमग्नावि पावका नो बृहस्पते ।

सुपिप्पला विषाणे वि विश्वे देवाञ्जनं जपेत् ॥

उदुत्तमं तथास्तभ्नाद्यत्किञ्चेदं च वारुणीः ।

उदु त्यं सप्त चित्रं तु सौरीरभ्युदिते जपेत् ॥

विश्वे देवा अभिपुनर्मनोऽनाज्ञातकैर्जपः ।

न दिवा मूत्रपुरीषे कुर्यात् । यदि कुर्यात् छायायाम् । मूत्रं चिकीर्षन् इयं ते यज्ञिया तनूः तृणं लोष्टं वा अपादाय । अपो मुञ्चामि न प्रजामꣳहोमुचस्स्वाहाकृताः पृथिवी माविशत मूत्रं विसृज्य, आचम्य । पृथिव्या संभव अपात्तं स्वस्थाने प्रतिनिदधाति । यन्मेऽत्र पयसः परीतोषात्तदर्पिथ । अग्निहोत्रमिव सोमेन तदहं पुनराददे रेतः स्कन्नमभिमन्त्रयते । यदत्रापि रसस्य मे निरष्ठविषमस्मृतम् १। अग्निष्टत्सोमः पृथिवी पुनरात्मन्दधातु मे छर्दित्वा ष्ठुत्वा वा । यदन्नमद्यते नक्तं न तत्प्रातः, क्षुधोऽवति । सर्वं तदस्मान्मा हिꣳसीर्न हि तद्ददृशे दिवा स्वप्नेऽन्नं भुक्त्वा । रुद्रियाभ्योऽद्भ्यस्स्वाहा लोहितमुत्पतितं दृष्ट्वा । बीभत्सा नाम स्थापस्स्वाहाकृताः पृथिवीमाविशत स्नूहानम् । कृपा णाम स्थापस्स्वाहाकृताः पृथिवी माविशत अश्रु । तपस्या नाम स्थापस्स्वाहाकृताः पृथिवी माविशत स्वेदम् । न प्रतीच्या द्वारा निष्क्रामति प्राग्वंशस्य । नाक्रतुसंयुक्तामाहुतिं जुहोति । नाग्निहोत्रम् । न दर्शपूर्णमासाभ्यां यजते । नित्यानामपि निवृत्तिः । ये त्वङ्गभूताः क्रतोः संसर्गेष्ट्यादयः ते क्रियन्ते । सन्ध्यावन्दनं क्रियते । औपासनस्याग्निधारणमेव न होमः । न ददाति । न पचति । पीवा दीक्षते कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते । नैनमन्यत्र दीक्षितविमितादभिनिम्रोचेदभ्युदियाद्वा । वारुणीरभिनिम्रुक्तो जपेत् उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमꣳ श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥ अस्तभ्नाद्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि संम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥ यत्किञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुतयन्नविद्म । सर्वा ता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥ अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुरप्रचेतो राजन्नेनाꣳसि शिश्रथः कृतानि ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः ॥ सौरीरभ्युदितः । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च ॥ अबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाꣳ श्रेष्ठो दीक्षे मा मा हासीः अमेध्यपतितचाण्डालक्लीबरजस्वलादीन् दृष्ट्वा जपति । आचम्य आदित्यादिज्योतिषामवेक्षणं विष्णुस्मरणं च । उन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्ट अववृष्टो सकृदेव जपति । यस्मिन्नहनि विधानेन स्वपिति तस्मिन्नहनि दक्षिणेनाहवनीयं प्राङ्शेते, न न्यङ् नोत्तानो नाग्नेरपपर्यावर्तेत । यद्यपपर्यावर्तेत विश्वे देवा अभि मा माऽववृत्रन् इति जपति । नान्यत्र कृष्णाजिनादासीत यद्यन्यत्रासीत देवाञ्जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु इति जपेत् । न दण्डात्कृष्णाजिनादिति विप्रच्छिद्येत । उभे निधाय मूत्रपुरीषे कुर्यात् । यावदुक्तं पत्न्या दीक्षितव्यञ्जनानि । समानं ब्रह्मचर्यम् ।