२० ‘अग्नेर्मन्वे’

‘अग्नेर्मन्वे’ इत्यनुवाकान्,

१५ अश्वमेध-याज्यानुवाक्याः मृगारम् ...{Loading}...

उपरिष्टात् ज्योतिर्जगती , ८ पङ्क्तिः १४ बृहती, २१- २२ त्रिष्टुप्
विश्वेदेवा ऋषयः

चतुर्थकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः

सायणोक्त-विनियोगः

(अथ चतुर्थाष्टके सप्तमप्रपाठके पञ्चदशोऽनुवाकः)।
२२७३ (अथ चतुर्थकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः) ।
चतुर्दशानुवाके विहव्याख्या इष्टका उक्ताः।
तावतेष्टकाचयनमन्त्राः समाप्ताः।
अथ पञ्चदशेऽश्वमेधसंवन्धिन्यो याज्यानुवाक्या उच्यन्ते ।
अयं चानुवाकोऽस्मात्काण्डादुत्क्रष्टब्यः।
कल्पः— “अग्नयेऽꣳहोमुचेऽष्टाकपाल इति दशहविषं मृगारेष्टिमनुनिर्वपति समानं तु स्विष्टकृदिडमग्नेर्मग्ने प्रथमस्य प्रचेतस इति यथालिङ्गं याज्यानुवाक्याः” इति।
तत्रोदाहृतस्य प्रथमहविषः पुरोनुवाक्यामाह– अग्नेर्मन्व इति।

अग्निः
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नेर् म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒
यं पाञ्च॑जन्यं +++(=पञ्चभ्यो जनेभ्यो हितं)+++ ब॒हव॑स् समि॒न्धते॑
विश्व॑स्यां वि॒शि प्र॑विविशि॒वाꣳस॑म् ईमहे॒
स नो मुञ्च॒त्व् अꣳह॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यम्पाञ्च॑जन्यम्ब॒हव॑स्समि॒न्धते᳚ ।
विश्व॑स्याव्ँवि॒शि प्र॑विविशि॒वाꣳस॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳह॑सः ।

सायण-टीका

पञ्चजना निषादपञ्चमा वर्णास्तेभ्यो हितः पाञ्चजन्यस्तादृशं यमग्निं बहवो यजमानाः समिन्धते प्रदीपयन्ति, प्रथमस्य सृष्ट्यादावुत्पन्नस्य प्रचेतसः प्रकृष्टज्ञानवतस्तस्याग्नेर्मूर्तिं मन्त्रे मनसा चिन्तयामि।
विश्वस्यविशि सर्वस्यां प्रजायां प्रविविशिवांसं जाठरग्निरूपेण प्रविष्टवन्तं तमग्निमीमहे वयं प्राप्नुमः।
सोऽग्निर्नोऽस्मानंहसः पापान्मुञ्चतु मुक्तान्करोत्।

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ये॒दं प्रा॒णन् नि॑मि॒षद् यद् एज॑ति॒ +++(=कम्पते)+++
यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम् +++(जगत्)+++।
स्तौम्य् अ॒ग्निं ना॑थि॒तो +++(=फलयाच्ञावान्)+++ जो॑हवीमि॒
स नो॑ मुञ्च॒त्व् अꣳह॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यस्ये॒दम्प्रा॒णन्नि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒तञ्जन॑मानञ्च॒ केव॑लम् ।
स्तौम्य॒ग्निन्ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः ।

सायण-टीका

तत्रैव याज्यामाह – यस्येदं प्राणन्निति।
प्राणच्छ्वासोपेतं निमिषन् निमेषोपेतं यदिदं जगद् एजति कम्पते चेष्टत इत्यर्थः।
तत्सर्वं यस्याग्नेरधीनं जातं पूर्वमुत्पन्नं जनमानमितः परं जनिष्यमाणं च जगत्सर्वं केवलं परनिरपेक्षं सद्यस्याधीनं तमग्निं स्तौगि।
नाथितः फलयाञ्चायुक्तोऽहं जोहवीमि पुनः पुनर्जुहोमि । शेषं पूर्ववत्।

इन्द्रः
विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो
वृत्र॒-घ्नः स्तोमा॒ +++(=स्तोत्राणि)+++ उप॒ माम् उ॒पागुः॑
यो दा॒शुषः॑ सु॒कृतो॒ हव॒म् उप॒ गन्ता॒
स नो॑ मुञ्च॒त्व् अꣳह॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नस्स्तोमा॒ उप॒ मामु॒पागुः॑ ।
यो दा॒शुष॑स्सु॒कृतो॒ हव॒मुप॒ गन्ता᳚ [33] स नो॑ मुञ्च॒त्वꣳह॑सः

सायण-टीका

अथेन्द्रायाꣳ होमुच एकादशकपाल इत्यस्य पुरोनुवाक्यामाह– इन्द्रस्य मन्य इति। प्रथमस्य सृष्ट्यादावत्पन्नस्य प्रचेतसः प्रकृष्टज्ञानवत इन्द्रस्य मूर्तिं मन्येऽहं मनसा चिन्तयामि। वृत्रघ्नः शत्रुघातिन इन्द्रस्योप समीपं प्राप्ताः स्तोमाः स्तोत्राणि मां यजमानगुपागुः प्राप्ताः। इन्द्रगुणकथनपराणि स्तोत्राणि मज्जिह्वायामवस्थितानीत्यर्थः। य इन्द्रो दाशुयो हविर्दत्तवतः सुकुतः सुष्टु कर्मानुतिष्ठतो यजमानस्य हवमाह्वानं यज्ञं वोपगन्ता प्राप्स्यति।

विश्वास-प्रस्तुतिः ...{Loading}...

यः सं॑ग्रा॒मं नय॑ति॒ संव॒शी यु॒धे
यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ +++(गावश्वपुरुषाः)+++।
स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒
स नो॑ मुञ्च॒त्व् अꣳह॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यस्स॑ङ्ग्रा॒मन्नय॑ति॒ सव्ँव॒शी यु॒धे यᳶ पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ ।
स्तौमीन्द्र॑न्नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः ।

सायण-टीका

तत्रैव याज्यमाह– २२७४ य संग्राममिति। य इन्द्रो युधे योद्धुं वशी स्वाधीनपरिवारोफ्ते संग्रामं युद्धदेशं प्रति संनयति स्वकीयां सेनां सम्यक्प्रापयति। यश्चेन्द्रः पुष्टानि संपूर्णानि त्रयाणि गवाश्वपुरुषरूपाणि संसृजति यजमानेन योजयति। शेषं पूर्ववत्।

मित्रावरुणौ
विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्वे वां॑ मित्रा-वरुणा॒, तस्य॑ +++(वैरिणो)+++ वित्त॒ꣳ॒
सत्यौ॑जसा दृꣳहणा॒+++(=स्तम्भयन्तौ)+++ यन् नु॒देथे॑
या राजा॑नꣳ +++(आदित्यं)+++ स॒रथं॑ या॒थ +++(वृष्ट्यै)+++ उ॑ग्रा॒
ता नो॑ मुञ्चत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

म॒न्वे वा᳚म्मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒ सत्यौ॑जसा दृꣳहणा॒ यन्नु॒देथे᳚ ।
या राजा॑नꣳ स॒रथ॑य्ँया॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

अथ मित्रावरुणाभ्यामागोमुग्भ्यां पयस्येत्यस्य पुरोनुवाक्यामाह– मन्वे वाभिति। मित्रावरुणा हे मित्रावरुणौ वां युवयोर्मूर्तिं मन्त्रे मनसा घ्यायामि। सत्यौजसाऽकृत्रिमबलौ दृंहणा स्तम्भयन्तौ युवां यमस्मद्वैरिणं नुदेथे निराकुरुत [ थ ] स्तस्ब वैरिणो वित्तं दुष्टबुद्धिं जानीतम्। या युवां यावुभौ राजानं दीप्तिमन्तं सरथं रथसहितमादित्यं याथो लोकोपकाराय वृष्टिमुत्पादयितुं प्राप्नुथः। उग्राऽनिष्टनिवारणेऽत्यन्तं तीक्ष्णौ ता तौ युवां नोऽस्मानागसः पापान्मुञ्चतं मुक्तं कुरुतम्।

विश्वास-प्रस्तुतिः ...{Loading}...

यो वा॒ꣳ॒ रथ॑ ऋजु-र॑श्मिः स॒त्य-ध॑र्मा॒
मिथु॒श्+++(=मिथ्या)+++ चर॑न्तम् उप॒याति॑ दू॒षयन्॑
स्तौमि॑ मि॒त्रावरुणा॒ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒म् आग॑सः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो वा॒ꣳ॒ रथ॑ ऋ॒जुर॑श्मिस्स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒षयन्न्॑ ।
स्तौमि॑ [34] मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

तत्रैव याज्यामाह– यो वाꣳ रथ इति। हे मित्रावरुणौ वां युवयोर्यो रथ ऋजुरश्मिरकुटिलप्रग्रहः सत्यधर्माऽवितथधारणश्च भवति सरयो मिथुश्चरन्तं मिथ्याचारिणमन्याय कारिणं शत्रुं दूषयन्नुपयाति बाधमान प्राप्नोति। स्तौमीत्यादि पूर्ववत् ।

वायुः, सविता च
विश्वास-प्रस्तुतिः ...{Loading}...

वा॒योस् स॑वि॒तुर् वि॒दथा॑नि+++(=वेदनानि)+++ मन्महे
याव् आ॑त्म॒न्वद् बि॑भृ॒तो यौ च॒ रक्ष॑तः
यौ विश्व॑स्य परि॒भू ब॑भूवतुस्
तौ नो॑ मुञ्चत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

वा॒योस्स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्बि॑भृ॒तो यौ च॒ रख्ष॑तः ।
यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

वायोसावित्र आगोमुग्भ्यां चरुरित्यस्य पुरोनुवाक्यामाह– वायोः सावतुरिति। यो वायुर्यश्च सविता तयोरुभयोर्विदथानि वेदनान्यभिप्रायविशेषान्ममहे जानीमः। यौ वायुसवितारावात्मन्वत्स्वशरीरमिव विभृत सर्वं जगद्धारयतः किंच यौ वायुसवितारौ रक्षतो जगत्पालयतः। किंच यौ वायुसवितारौ विश्वस्य कृत्स्नस्य जगतः परिभू परितो व्यापकौ वभूवतुस्तावित्यादि सर्ववत्।

विश्वास-प्रस्तुतिः ...{Loading}...

उप॒ श्रेष्ठा॑ न आ॒शिषो॑
दे॒वयो॒र् धर्मे॑+++(=कर्मणि)+++ अस्थिरन्+++(√स्था)+++।
स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒
तौ नो॑ मुंचत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

उप॒ श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन्न् ।
स्तौमि॑ वा॒युꣳ स॑वि॒तार॑न्नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

तत्रैव याज्यामाह– उप श्रेष्ठा न इति। श्रेष्ठाः प्रशस्ता नौऽस्मदीया आशिषः फलविशेषा देवयोर्वायुसवित्रोः संबन्धिनि धर्मे कर्मण्युपास्थिरन्नुपास्थितास्तदधीना इत्यर्थः। पूतैमीत्यादि पूर्ववत्।

अश्विनौ
विश्वास-प्रस्तुतिः ...{Loading}...

र॒थीत॑मौ रथी॒नाम् अ॑ह्व+++(=आह्वे)+++
ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒र् अश्वैः॑ ।
ययो॑र् वां॒ देवौ दे॒वेष्व् अनि॑शित॒म् ओज॒स्
तौ नो॑ मुञ्चत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।
ययोः᳚ [35] वा॒न्दे॒वौ॒ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

अथाश्विभ्यामावोमुग्भ्यां धाना इत्यस्य पुरोनुवाक्यामाह– रथीतमाविति। रथीनां रथीतमौ ये रथिनो देवाः सन्ति तेषां मध्येऽतिशयन रथिनौ सुयमेभिः सुष्ठु नियन्तुं शक्यैरश्वैः शुभं समीचीनं देशं गमिष्ठा २२७५ वतिशयेन गच्छन्तावश्विनौ। * अहवेऽहमाह्वयामि। (हे) देवावश्विनौ देवेषु सर्वेषु मध्ये ययोर्वां युवयोरोजो बलम् अनिशितम् अन्येन केनापि न तीक्ष्णीकृतं किंतु स्वभावत एव तीक्ष्णमित्यर्थः। तावित्यादि पूर्ववत्।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अया॑तं वह॒तुꣳ सू॒र्याया॑स्+++(=तन्मातुः)+++
त्रि-च॒क्रेण॑ स॒ꣳ॒ सद॑म् इ॒च्छमा॑नौ
स्तौमि॑ दे॒वाव् अ॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒
तौ नो॑ मुञ्चत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यदया॑तव्ँवह॒तुꣳ सू॒र्याया᳚स्त्रिच॒क्रेण॑ स॒ꣳ॒सद॑मि॒च्छमा॑नौ ।
स्तौमि॑ दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

तत्रैव याज्यामाह– यदयातं वहतुमिति। यद्यस्मात्कारणात्सूर्यायाः सूर्यपत्न्याः स्वमातुः संसदमिच्छमानौ। सद्भावस्थानमिच्छन्तावश्विनौ युवां त्रिचक्रेण चक्रत्रययुक्तेन रथेन वहतुं वाहयितुप्रयातं रथस्योपरि गतवन्तौ तस्मात्कारणात्तथाविधौ देवौ स्तौनीत्यादि पूर्ववत्।

मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...

म॒रुतां॑ मन्वे॒ अधि॑ नो ब्रुवन्तु॒
प्रेमां वाचं॒ विश्वा॑म् अवन्तु॒ विश्वे॑ ।
आ॒शून् हु॑वे सु॒-यमा॑न् ऊ॒तये॒+++(√अव्)+++
ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

म॒रुता᳚म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाच॒व्ँविश्वा॑मवन्तु॒ विश्वे᳚ ।
आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

सायण-टीका

अथ मरुद्भ्य एनोमुग्भ्यः सप्तकपाल इत्यस्य पुरोनुवाक्यामाह— मरुतां मन्व इति। मरुतां मरुत्संज्ञकानां देवानां मूर्तिं मन्वेऽहं मनसा घ्यायागि। तेन च मरुतो नोऽस्मानधिब्रुवन्तु अधिकान्ब्रुवन्तु। ते च विश्वे सर्वेऽपीमां वाचं मदीयां प्रार्थनां विश्वां सर्वामपि प्रावन्तु प्रकर्षेण रक्षन्तु। आशूञ्शीघ्रगामिनः (ण) सुयमान्सुष्ठु नियामकान्मरुदाख्यान्देवानूतये रक्षणाय हुव आह्वयामि। ते न इत्यादि पूर्ववत्।

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒ग्मम् आयु॑धं वीडि॒तꣳ+++(=दृढम्)+++ सह॑स्वद्
दि॒व्यꣳ शर्द्धः॒+++(=बलं)+++ पृत॑नासु जि॒ष्णु
स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जोह॑वीमि॒
ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

ति॒ग्ममायु॑धव्ँवीडि॒तꣳ सह॑स्वद्दि॒व्यꣳ शर्धः॑ [36] पृत॑नासु जि॒ष्णु ।
स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

सायण-टीका

तत्रैव याज्यामाह– तिग्ममायुधामिति। मरुदाख्यानां देवानामायुधं तिग्मादिविशेषविशिष्ठं तिग्मं तीक्ष्णं वीडितं दृढम्। किंच, मरुतां शर्धो बलं सहस्वत्परेषामभिभवितृ दिव्यं यथोचितब्यवहारयोग्यम्। अत एव पृतनासु परकीयसेनासु जिष्णु जयशीलं, स्तौमीत्यादि पूर्ववत्।

विश्वे देवाः
विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वानां॑ मन्वे॒ अधि॑ नो ब्रुवन्तु॒
प्रेमां वाचं, विश्वा॑म् अवन्तु विश्वे॑ ।
आ॒शून् हु॑वे सु॒यमा॑न् ऊ॒तये॒+++(√अव्)+++
ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

दे॒वाना᳚म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाच॒व्ँविश्वा॑मवन्तु॒ विश्वे᳚ ।
आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

सायण-टीका

अथ किश्वेभ्यो देवेभ्य एनीमुग्भ्यो द्वादककपाल इत्बस्य पुरोनुवाक्यामाह– देवानां मन्व इति। पूर्वोक्ता मरुतां पुरोनुवाक्या, तथेयं विश्वेपां देवानां पुरोनुवाक्या योजनीया।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् इ॒दं मा॑ ऽभि॒शोच॑ति॒
पौरु॑षेयेण॒ दैव्ये॑न ।
स्तौमि॒ विश्वा॑न् दे॒वान् न॑थि॒तो जोह॑वीमि॒
ते नो॑ मुञ्च॒त्व् एन॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यदि॒दम्मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न ।
स्तौमि॒ विश्वा᳚न्दे॒वान्ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

सायण-टीका

तत्रैव याज्यामाह– यदिदं मेति। पौरुषेयेण मनुष्यव्यापारेण दैव्येन देवव्यापारेण च संपादितं यदिदं दुःखं माऽभिशोचति, अभितो मां क्लेशयति। तस्य दुःखस्यापनो दनार्थं स्तौमीत्यादि पूर्ववत्।

मूलम् (संयुक्तम्)

अनु॑ नो॒ऽद्यानु॑मति .. अनु॑ [37] इद॑नुमते॒ त्वम्

सायण-टीका

अथानुमत्यै चरुरित्यस्य याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति– * ऊतये इति यदस्य व्याख्यानां स्खालिप्तम्।
२२७६ अनु नोऽद्येति। अनु नोऽद्यानुमतिर्यज्ञामिति पुरोनुवाक्या। अन्विदनुमते त्वं मन्यासा इति याज्या।

एतच्चोभयमिदं वामास्ये हविरित्यनुवाके व्याख्यातम्।

Keith

For us to-day may Anumati
Among the gods favour our sacrifice,
And be she and Agni, bearer of the oblation,
A joy to the giver.

मूलम्

अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञन्दे॒वेषु॑ मन्यताम् ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तान्दा॒शुषे॒ मयः॑ ।

भट्टभास्कर-टीका

नोस्माकम् इमं यज्ञं
अनुमतिर् देवी अद्येदानीं देवेषु अनुमन्यतां
देवान् प्रापयतु देव-निमित्तं वा अनुजानातु ।
ऊनचन्द्रा पौर्णमासी अनुमतिः
अग्निश्च हव्यवाहनः हविषां वोढा देवेष्व् अनुमन्यताम् इत्येव । ‘हव्येनन्तः पादम्’ इति ञ्युट्, किंच -
तौ अनुमति-हव्यवाहनौ दाशुषे हविर्-दत्तवते अस्मै यजमानाय मयः सुखहेतुः भवताम्

Keith

Accord thy favour, O Anumati [3],
And grant us wealth;
For inspiration, for insight impel us,
Lengthen our days for us.

मूलम्

अन्विद॑नुमते॒ त्वम् [34] मन्या॑सै॒ शञ्च॑ नᳵ कृधि ।
क्रत्वे॒ दख्षा॑य नो हिनु॒ प्र ण॒ आयूꣳ॑षि तारिषः ।

भट्टभास्कर-टीका

अनुमते त्वं मन्यासै अनुमन्यस्व लोटि ‘वैतोन्यत्र’ इत्यैकारः । किंच - नोस्माकं शं सुखं च कृधि कुरु । करोतेर्लोटि शपो लुक्, ‘श्रुशृणुकृवृभ्यः’ इति धिभावः । किं पुनरनुमन्तव्यमित्याह - क्रत्वे क्रतवे यागाय प्रत्ययाय वा दक्षाय समर्थाय शीघ्रकरणाय क्रत्वर्थं वा यद्दक्षमन्नं तदर्थं नः अस्मान् हिनु प्रेरय । ‘जसादिषु वा वचनम् प्राङ्णौ चङ्युपधायाः’ इति दीर्घं ङितीति गुणो न प्रवर्तते । तदर्थं चास्माकं आयूंषि प्रतारिषः प्रवर्तय । तरतेर्ण्यान्ताल्लेटि ‘सिब्बहुलं लेटि’ इति सिप् ‘लेटोडाटौ’ इत्यडागमः, ‘उपसर्गाद्बहुलम्’ इति नसो णत्वम् ॥

मूलम् (संयुक्तम्)

वै᳚श्वान॒रो न॑ ऊ॒त्या .. पृ॒ष्टो दि॒वि ।

सायण-टीका

अथाग्नये वैश्वानराय द्वादशकपाल इत्यस्य याज्यापुरोनुनाक्ययोः प्रतीके दर्शयति– वैश्वानरो न इति। वैश्वानरो न ऊत्या प्र यात्विति पुरोनुवाक्या । पृष्ठो दिवि पृष्ठो अग्निरिति याज्मा। एतच्चोभयं वैश्वानरो न ऊत्येस्मिन्ननुवाके व्याख्यातम्।

Keith

Let Vaiśvanara with succour for us
Come from afar,
Agni through the hymn which brings (him).

मूलम्

वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥

भट्टभास्कर-टीका

वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी अग्निः । ‘नरे संज्ञायाम्’ इति पूर्वपदस्य दीर्घत्वम् । ऊत्या मार्गेण करणेन अस्मद्रक्षणेन वा हेतुना आत्मनो वा तर्पणेन प्रयोजनेन । ‘ऊतियूति’ इति क्तिन उदात्तत्वं निपात्यते, ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वं, ‘ज्वरत्वर’ इत्यादिना ऊठ् ।

स नो ऽस्मान् आप्रयातु आभिमुख्येनान्येभ्यश्च प्रकर्षेणास्मान् प्राप्नोतु परावतः दूरादप्यायातु । ‘उपसर्गाच्छन्दसि’ इति वतिः । उक्थेन स्तोत्रेण वाहसा वहनसमर्थेन अभीष्टार्थवाहनसमर्थेनेत्यर्थः ।

यद्वा - प्रापणसमर्थेन मार्गेण । ‘वहिहाधाञ्भ्यश्छन्दसि’ इत्यसुन्, ‘णित्’ इति हि तत्रानुवर्तते । आगत्य चास्मानभिशस्तेर्मुञ्चन्पापं वर्णमपहन्त्विति शेषः ॥

अनुमतिः
विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ नो॒ऽद्यानु॑मतिर् +++(=ऊनचन्द्रा पौर्णमासी)+++
य॒ज्ञन् दे॒वेषु॑ मन्यताम्
अ॒ग्निश् च॑ हव्य॒वाह॑नो॒,
भव॑तान् दा॒शुषे॒ मयः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

अन्व् इद् अ॑नुमते॒ त्वम् [34]
मन्या॑सै॒ शञ्च॑ नᳵ कृधि
क्रत्वे॒ दख्षा॑य नो हिनु॒+++(=प्रेरय)+++
प्र ण॒ आयूꣳ॑षि तारिषः

वैश्वानरः
विश्वास-प्रस्तुतिः ...{Loading}...

वै॒श्वा॒न॒रो न॑ ऊ॒त्या
ऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निर् उ॒क्थेन॒ वाह॑सा ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Let Vaiśvanara with succour for us
Come from afar,
Agni through the hymn which brings (him).

मूलम्

वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥

भट्टभास्कर-टीका

वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी अग्निः । ‘नरे संज्ञायाम्’ इति पूर्वपदस्य दीर्घत्वम् । ऊत्या मार्गेण करणेन अस्मद्रक्षणेन वा हेतुना आत्मनो वा तर्पणेन प्रयोजनेन । ‘ऊतियूति’ इति क्तिन उदात्तत्वं निपात्यते, ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वं, ‘ज्वरत्वर’ इत्यादिना ऊठ् ।

स नो ऽस्मान् आप्रयातु आभिमुख्येनान्येभ्यश्च प्रकर्षेणास्मान् प्राप्नोतु परावतः दूरादप्यायातु । ‘उपसर्गाच्छन्दसि’ इति वतिः । उक्थेन स्तोत्रेण वाहसा वहनसमर्थेन अभीष्टार्थवाहनसमर्थेनेत्यर्थः ।

यद्वा - प्रापणसमर्थेन मार्गेण । ‘वहिहाधाञ्भ्यश्छन्दसि’ इत्यसुन्, ‘णित्’ इति हि तत्रानुवर्तते । आगत्य चास्मानभिशस्तेर्मुञ्चन्पापं वर्णमपहन्त्विति शेषः ॥

०२ पृष्टो दिवि ...{Loading}...

पृ॒ष्टो+++(←पृच्छ्)+++ दि॒वि, पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां,
पृ॒ष्टो विश्वा॒ ओष॑धी॒र् आ वि॑वेश
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः
स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निरग्निर्वैश्वानरो वा
  • ऋषिः - कुत्स आङ्गिरसः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

पृष्टो꣡ दिवि꣡ पृष्टो꣡ अग्निः꣡ पृथिव्या꣡म्
पृष्टो꣡ वि꣡श्वा ओ꣡षधीर् आ꣡ विवेश
वैश्वानरः꣡ स꣡हसा पृष्टो꣡ अग्निः꣡
स꣡ नो दि꣡वा स꣡ रिषः꣡ पातु न꣡क्तम्

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

pr̥thivyā́m ← pr̥thivī́- (nominal stem)
{case:LOC, gender:F, number:SG}

ā́ ← ā́ (invariable)
{}

óṣadhīḥ ← óṣadhī- (nominal stem)
{case:ACC, gender:F, number:PL}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

víśvāḥ ← víśva- (nominal stem)
{case:ACC, gender:F, number:PL}

viveśa ← √viś- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

sáhasā ← sáhas- (nominal stem)
{case:INS, gender:N, number:SG}

vaiśvānaráḥ ← vaiśvānará- (nominal stem)
{case:NOM, gender:M, number:SG}

dívā ← dívā (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}

pātu ← √pā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

riṣáḥ ← ríṣ- (nominal stem)
{case:ABL, gender:F, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ ।
वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥

Hellwig Grammar
  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • dividiv
  • [noun], locative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • agniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • pṛthivyāmpṛthivī
  • [noun], locative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • viśvāviśvāḥviśva
  • [noun], accusative, plural, feminine
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • oṣadhīroṣadhīḥoṣadhi
  • [noun], accusative, plural, feminine
  • “herb; plant; drug; simple; oṣadhi [word]; remedy.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • viveśaviś
  • [verb], singular, Perfect indicative
  • “enter; penetrate; settle; settle.”

  • vaiśvānaraḥvaiśvānara
  • [noun], nominative, singular, masculine
  • “Agni; fire; Vaiśvānara; Vaiśvānara; sacrificial fire; sun.”

  • sahasāsahas
  • [noun], instrumental, singular, neuter
  • “force; strength; might; sahas [word]; conquest.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • agniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • divā
  • [adverb]
  • “by day; divā [indecl.].”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • riṣaḥriṣ
  • [noun], ablative, singular, feminine
  • “injury; riṣ; damage.”

  • pātu
  • [verb], singular, Present imperative
  • “protect; govern.”

  • naktamnakta
  • [noun], accusative, singular, neuter
  • “night; night.”

सायण-भाष्यम्

अयं वैश्वानरः अग्निः दिवि द्युलोके आदित्यात्मना पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते । तथा पृथिव्यां भूमौ गार्हपत्यादिरूपेण पृष्टः संस्पृष्टो निहितो वा । तथा विश्वाः सर्वाः ओषधीः पृष्टः संस्पृष्टः सः अग्निः विवेश पाकार्थमन्तः प्रविष्टवान् । अन्तःप्रविष्टेन पार्थिवेनाग्निना’ हि सर्वा ओषधयः पच्यन्ते। सहसा परेषामसाधारणेन बलेन पृष्टः संस्पृष्टः वैश्वानरः नः अस्मान् दिवा अह्नि रिषः हिंसतः शत्रोः पातु रक्षतु । तथा सः वैश्वानरः नक्तं रात्रवप्यस्मान् हिंसकात् पातु ॥ पृष्टः । ‘ स्पृश संस्पर्शने ‘। छान्दसः सकारलोपः । यद्वा । ‘ पृषु सेचने ’ । निष्ठायां यस्य विभाषा ’ इति इट्प्रतिषेधः । दिवि । ‘ ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । पृथिव्याम् ।’ उदात्तयण: ’ इति विभक्तिरुदात्ता । रिषः । रिष हिंसायाम् ’ । ‘ क्विप् च’ इति क्विप् ।’ सावेकाचः’ इति पञ्चम्या उदात्तत्वम् ।

भट्टभास्कर-टीका

अयं वैश्वानरोग्निः दिव्यादित्यात्मना पृष्टः स्पृष्टः । छान्दसो व्यञ्जनलोपः । यद्वा - पृष्टो निषिक्तः निहितः दिव्यादित्यात्मना । पृष सेचने ।
पृथिव्यां च पार्थिवेषु । ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वमुक्तम् । पृष्ट एव भूत्वा विश्वा ओषधीराविवेश, पक्तिस्थितिहेतुत्वेन सर्वं व्याप्य स्थितः ।

स एवम्भूतो वैश्वानरो ऽग्निस् सहसा बलेन पृष्टस् सम्बद्धो नोस्मान् रिषः रेष्टुर्हिंसितुः दिवा पातु रक्षतु । नोस्मान् नक्तंपातु अतिपत्तिदोषात्पात्विति ॥

Wilson
English translation:

Agni, who is present in the sky, and present upon earth, and who, present, has pervaded all herbs; may the Agni Vaiśvānara, who is present in vigour, guard us night and day, against our enemies”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Pṛṣṭa = saṃspṛṣṭa = in contact with, or nihita, plural ced or present inth esky: Agni is in contact with, or present, in the sun; on earth, in sacred and domestic fire, and in herbs, or annuals, as the cause of their coming to maturity

Jamison Brereton

Sought in heaven and sought on earth, being sought, Agni entered all the plants.
Sought forcefully, let Agni Vaiśvānara protect us from harm by day and by night.

Jamison Brereton Notes

As noted in the published introduction, I take this verse as an allusion to the well-known story of Agni’s disappearance and the gods’ search for him (treated in detail in X.51- 53). (So also Oldenberg SBE.) However, this mythic allusion must be mediated by reference to the here-and-now, given the hope for Agni’s protection expressed in the final pāda. This mediation is perhaps signaled by pāda b, where Agni’s hiding place is identified. Instead of the waters, where Agni takes refuge in the myth, he has entered “all plants” (víśvā óṣadhīḥ). Agni’s hidden presence in plants, the quality that allows him to be born from them, is a standard trope in hymns treating the kindling of the ritual fire and is in fact alluded to at the end of a nearby Kutsa hymn, I.95.10d antár návāsu carati prasū́ṣu “he roams within the new, fruitful (plants).”

Griffith

Present in heaven, in earth, all-present Agni,–all plants that grow on ground hath he pervaded.
May Agni, may Vaisvanara with vigour, present, preserve us day and night from foemen.

Oldenberg

Agni who has been looked and longed for 1 in Heaven, who has been looked for on Earth—he who has been looked for, has entered all herbs. May Agni Vaisvânara, who has strongly been looked for, protect us from harm by day and by night.

Keith

Desired in the sky, Agni, desired on earth,
Desired he entereth all the plants;
Agni Vaiśvanara eagerly desired,
May he by day [1] and night protect us from the foe.

Geldner

Im Himmel gesucht, auf Erden gesucht ist der gesuchte Agni in alle Pflanzen eingegangen. Mit Kraft gesucht wird der Agni Vaisvanara; er soll uns am Tag und Nachts vor Schaden behüten.

Grassmann

Begehrt im Himmel Agni und auf Erden, begehrt auch ging er ein in alle Pflanzen, Mit Kraft begehrt der Hort der Männer, Agni, er schütze uns bei Tag und Nacht vor Feinden.

Elizarenkova

Тот, кого ищут на небе, кого ищут на земле,
Агни, которого ищут, вошел во все растения.
Агни-Вайшванара, которого решительно ищут,
Да охранит он нас днем от беды, (да охранит) он ночью!

अधिमन्त्रम् (VC)
  • अग्निर्वैश्वानरः
  • कुत्सः आङ्गिरसः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - जो (अग्निः) ईश्वर वा भौतिक अग्नि (दिवि) दिव्यगुण सम्पन्न जगत् में (पृष्टः) विद्वानों के प्रति पूछा जाता वा जो (पृथिव्याम्) अन्तरिक्ष वा भूमि में (पृष्टः) पूछने योग्य है वा जो (पृष्टः) पूछने योग्य (वैश्वानरः) सब मनुष्यमात्र को सत्य व्यवहार में प्रवृत्त करानेहारा (अग्निः) ईश्वर और भौतिक अग्नि (विश्वा) समस्त (ओषधीः) सोमलता आदि ओषधियों में (आ, विवेश) प्रविष्ट हो रहा और (सहसा) बल आदि गुणों के साथ वर्त्तमान (पृष्टः) पूछने योग्य है वह (नः) (सः) हम लोगों को (दिवा) दिन में (रिषः) मारनेवाले से और (नक्तम्) रात्रि में मारनेवाले से (पातु) बचावे वा भौतिक अग्नि बचाता है ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को चाहिये कि विद्वानों के समीप जाकर ईश्वर वा बिजुली आदि अग्नि के गुणों को पूछकर ईश्वर की उपासना और अग्नि के गुणों से उपकारों का आश्रय करके हिंसा में न ठहरें ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: योऽग्निर्विद्धद्भिर्दिवि पृष्टो यः पृथिव्यां पृष्टो यः पृष्टो वैश्वानरोऽग्निर्विश्वा ओषधीराविवेश सहसा पृष्टः स नो दिवा रिषः स नक्तं च पातु पाति वा ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तौ कीदृशावित्युपदिश्यते ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (पृष्टः) विदुषः प्रति यः पृच्छ्यते (दिवि) दिव्यगुणसंपन्ने जगति (पृष्टः) (अग्निः) विज्ञानस्वरूप ईश्वरो विद्युदग्निर्वा (पृथिव्याम्) अन्तरिक्षे भूमौ वा (पृष्टः) प्रष्टव्यः (विश्वाः) अखिलाः (ओषधीः) सोमलताद्याः (आ) सर्वतः (विवेश) प्रविष्टोऽस्ति (वैश्वानरः) सर्वस्य नरसमूहस्य नेता (सहसा) बलादिगुणैः सह वर्त्तमानाः (पृष्टः) (अग्निः) (सः) (नः) अस्मान् (दिवा) विज्ञानान्धकारप्रकाशेन सह (सः) (रिषः) हिंसकात् (पातु) पाति वा (नक्तम्) रात्रौ ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैर्विदुषां समीपं गत्वेश्वरस्य विद्युदादेश्च गुणान् पृष्ट्वोपकारं चाश्रित्य हिंसायां च न स्थातव्यम् ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी विद्वानांजवळ जाऊन ईश्वर व विद्युत इत्यादी अग्नीच्या गुणांना जाणून ईश्वराची उपासना व अग्नीपासून उपयोग करून घ्यावा तसेच हिंसा करू नये. ॥ २ ॥

द्यावा-पृथि॒वी
सायणोक्त-विनियोगः

अथ द्यावापृथिवीभ्यामꣳहोमुग्भ्यां द्विकपाल इत्यस्य पुरोनुवाक्यामाह– ये अप्रथेतामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

ये अप्र॑थेता॒म् अमि॑तेभि॒र् ओजो॑भि॒र्
ये प्र॑ति॒ष्ठे अभ॑वता॒व्ँ वसू॑नाम् । स्तौमि॒ द्यावा॑-पृथि॒वी ना॑थि॒तो जो॑हवीमि॒
ते नो॑ मुञ्चत॒म् अꣳह॑सः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये प्र॑ति॒ष्ठे अभ॑वता॒व्ँवसू॑नाम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ।

सायण-टीका

ये द्यावापृथिव्यावमितेभिरोजोभिः परिच्छेत्तुमशक्यैर्बलैरप्रथेतां प्रख्याते अभूताम्। किंच, ये द्यावापृथिव्यौ वसूनां धनानां प्रतिष्ठे आश्रयभूते अभवतां ते द्यावापृथिब्यौ स्तौमीत्यादि पूर्ववत्।

सायणोक्त-विनियोगः

तत्रैव याज्यामाह– उर्बी रोदसी इति।

विश्वास-प्रस्तुतिः ...{Loading}...

उर्वी॑ रोदसी॒ वरि॑वᳵ कृणोत॒ङ्
ख्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम्
स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒
ते नो॑ मुञ्चत॒म् अꣳह॑सः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

उर्वी॑ रोदसी॒ वरि॑वᳵ कृणोत॒ङ्ख्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् ।
स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ।

सायण-टीका

उर्वी उर्व्यावत्यन्तं विस्तृते रोदसी रोदस्यौ हे द्यावापृथिव्यौ वरिवो धनं पूजां वा कृणोतं कुरुतम्। क्षेत्रस्य पत्नी पत्न्यौ हे द्यावापृथिव्यौ नोऽस्मानधिब्रूयातमधिकात्कथयतम्। स्तौमीत्यादि पूर्ववत्।

स्विष्टकृत्
सायणोक्त-विनियोगः

अथ स्विष्टकृतः पुरोनुवाक्यामाह– यत्ते वयमिति।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते॑ व॒यम् पु॑रुष॒-त्रा य॑वि॒ष्ठ+
अवि॑द्वाꣳसश् चकृ॒मा कच्च॒न [38] आगः॑ ।
कृ॒धी स्व् अ॑स्माꣳ अदि॑ते॒र् अना॑गा॒
व्येनाꣳ॑सि शिश्रथो॒+++(=दुर्बलं)+++ विष्व॑ग् अग्ने॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत्ते॑ व॒यम्पु॑रुष॒त्रा य॑वि॒ष्ठावि॑द्वाꣳसश्चकृ॒मा कच्च॒न [38] आगः॑ ।
कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येनाꣳ॑सि शिश्रथो॒ विष्व॑गग्ने

सायण-टीका

हे यविष्ठ युवतमाग्ने वयम् अविद्वांसो ज्ञानरहिता। सन्तस्ते त्वदीयेषु पुरुषा पुरुषेषु यत्कच्चानाऽऽगो यं कमप्य् अपराधं चकृम कृतवन्तः।
अदितेर् अखण्डनीयस्य तवास्मान् अनागा अपराधरहितान् सुकृधि सुष्ठु कुरु।
हेऽग्ना एनांस्य् अस्मदीयानि पापानि विष्वक्सर्वथा विशिश्रयो विशेषण श्रथितानि कुरु।

सायणोक्त-विनियोगः

तत्रैव याज्यामाह – यथा ह तदिति।

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ ह॒ तद् व॑सवो गौ॒र्य॑ञ् चित् +++(गाम्)+++
प॒दि षि॒ताम्+++(=बद्धां)+++ अमु॑ञ्चता यजत्राः ।
ए॒वा त्वम् अ॒स्मत् प्र मु॑ञ्चा॒ व्यꣳह॒ᳶ
प्राता᳚र्य् अग्ने, प्रत॒रान् न॒ आयुः॑ ॥ [39]

सर्वाष् टीकाः ...{Loading}...
मूलम्

यथा॑ ह॒ तद्व॑सवो गौ॒र्य॑ञ्चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।
ए॒वा त्वम॒स्मत्प्र मु॑ञ्चा॒ व्यꣳह॒ᳶ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥ [39]

सायण-टीका

यजत्रा यष्टाव्या वसवो जगन्निवासहेतवो ऽग्निना सहिता
हे देवाः
पदि सितां बन्धनस्थाने स्वकीयस्य पाशस्याऽऽक्रमणेन पादे बद्धां गौर्यंचिद् गौरीम् अपि यां कांचिद् गौरवर्णां गाम् अमुञ्चत बन्धान्मुक्तां कृतवन्तः। हेऽग्ने तद्यथा ह येनैव प्रकारेण तद्वन्धमोचनं कृतमेवा त्वमेवमेव त्वमपि अस्मदस्मत्सकाशाद्व्यंहो विविधं पापं प्रमुञ्च प्रकर्षेण मुक्तं कुरु। नोऽस्मदीयमायुः प्रतराम् अत्यधिकं यथा भवति तथा प्रातारि प्रतर संपादय।

सायणोक्त-विनियोगः

२२७७ अत्र विनियोगसंग्रहः अग्नयेऽꣳहोमुचेऽष्टाकपाल इत्यादिनेरिताः।
इष्टयोऽग्नेर्मन्वयुक्ता याज्यास्तासु क्रमादिमाः॥
अग्नेराग्नेयके द्वी [ही]न्द्रस्यैन्द्रे मन्वे ह्यनन्तरे।
मैत्रावरुणके वायोर्वायोसावित्रके रथी॥
आश्विने मरुतां मारुते देवा वैश्वदेविके।
अनुद्वयोश्वाऽऽ (यं चाऽऽ)नुमते वैश्वा वैश्वानरे तथा॥
द्यावापृथिव्यके ये तु यत्ते स्विष्टकृतीर्यते।
अनुवाके पञ्चदशे मन्त्रा द्वाविंशतिर्मताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमः प्रपाठकः ॥ ७ ॥
२२७८ इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधि राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरि पालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थः काण्डः समाप्तः ॥ ४ ॥
मूलक्रमेण चतुर्थाष्टके—प्रं. ७ । अ० ७२ ।
भाष्यक्रमेण चतुर्थकाण्डे—प्रं. ७ । अ० ७२ ।
मूलक्रमेणाऽऽदितः समष्ट्यङ्काः अष्ट. ४ प्र० २६ अ० ३४८।
भाष्यक्रमेणाऽऽदितः समष्ट्यङ्का का० ४ । प्र० २६ अ० ३४३।
समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्यसमेतायाः कृष्णयजुर्वेदीयतैत्तिरीयसंहितायाश्चतुर्थः काण्डः ॥ ४ ॥