पुत्रः

प्रजा-प्रशंसा

01 अथाप्यस्य प्रजातिम् अमृतम् ...{Loading}...

अथाप्यस्य प्रजातिम्
अमृतम् आम्नाय आह । प्रजामनु प्रजायसे तदु ते मर्त्यामृतमिति १

02 अथापि स एवायं ...{Loading}...

अथापि - स एवायं विरूढः पृथक् प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत् २

03 ते शिष्टेषु कर्मसु ...{Loading}...

ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च वर्धयन्ति ३

04 एवमवरोऽवरः परेषाम् ...{Loading}...

एवमवरोऽवरः परेषाम् +++(=पूर्विकाणाम्)+++ ४

05 आ भूतसम्प्लवात् ते ...{Loading}...

आ भूतसंप्लवात् ते स्वर्गजितः ५

06 पुनः सर्गे बीजार्था ...{Loading}...

पुनः सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ६

07 अथापि प्रजापतेर्वचनम् ...{Loading}...

अथापि प्रजापतेर्वचनम् ७

08 त्रयीं विद्याम् ब्रह्मचर्यम् ...{Loading}...

त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित् सह +++(वयम् प्रजापतयः)+++ स्मो, रजो भूत्वा ध्वंसते ऽन्यत् प्रशंसन्न् इति ८

प्रजा-पाप-फलम्

09 तत्र ये पापकृतस्त ...{Loading}...

तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान्हिंसन्ति ९

10 नास्यास्मिंल् लोके कर्मभिः ...{Loading}...

नास्यास्मिंल् लोके कर्मभिः संबन्धो विद्यते तथा परस्मिन्कर्मफलैः १०

11 तदेतेन वेदितव्यम् ...{Loading}...

तदेतेन वेदितव्यम् ११

12 प्रजापतेरृषीणामिति सर्गोऽयम् ...{Loading}...

प्रजापतेरृषीणामिति सर्गोऽयम् १२

13 तत्र ये पुण्यकृतस्तेषाम् ...{Loading}...

तत्र ये पुण्यकृतस् तेषां प्रकृतयः परा ज्वलन्त्य +++(= तारारूपेण)+++ उपलभ्यन्ते १३

01 सवर्णाऽपूर्वशास्त्रविहितायां यथर्तु गच्छतः ...{Loading}...

सवर्णा-ऽपूर्व+++(=अनन्यव्यूढा)+++-शास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १

03 पूर्ववत्यामसंस्कृतायां वर्णान्तरे च ...{Loading}...

पूर्ववत्याम्, असंस्कृतायां, वर्णान्तरे च मैथुने दोषः ३

04 तत्रापि दोषवान्पुत्र एव ...{Loading}...

तत्रापि दोषवान्पुत्र एव ४

स्त्री-व्यभिचारे

05 उत्पादयितुः पुत्र इति ...{Loading}...

उत्पादयितुः पुत्र इति हि ब्राह्मणम् ५

06 अथाप्युदाहरन्ति इदानीमेवाहञ् जनक ...{Loading}...

अथाप्युदाहरन्ति ।
इदानीमेवाहं जनक स्त्रीणामीर्ष्यामि नो पुरा ।
यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् ६-१

रेतोधाः पुत्रं नयति परेत्य यमसादने ।
तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः ६-२

अप्रमत्ता रक्षथ तन्तुमेतं
मा वः क्षेत्रे परबीजानि वाप्सुः ।
जनयितुः पुत्रो भवति सांपराये
मोघं वेत्ता कुरुते तन्तुमेतम् ६ इति।

+++(दायभाग-विषयोऽन्यत्र।)+++