०१ प्रतिसरः

पुंसुवन-सीमन्तोन्नयनकर्माङ्गं प्रतिसरबन्धं कृत्वा, अमुक-गोत्राया अमुक-नाम्न्याः मम धर्मपत्न्याः पुंसुवन-सीमन्तोन्नयन-कर्माङ्गं प्रतिसर-बन्ध-कर्म करिष्यामि

इति सङ्कल्य,

[[49]]

उल्लेखनादिदर्भप्रच्छादनान्तम् उदकशान्तिवत् कृत्वा, कुम्भस्योत्तरतो नवगुणितं गन्धानुलिप्तं कार्पाससूत्रं भस्महरिद्राचूर्णगोरजस्स्वन्यतमं च निधाय, शुचीभूतैः वेदविद्भिः चतुर्भिः ब्राह्मणैः सह गायत्रीं वेदादींश्च जपित्वा, “दधिक्राव्ण्ण" इत्यृचं, “आपो हिष्ठा मयो भुव" इति तिस्रः, “हिरण्यवर्णाश्शुचयः पावकाः" इति चतस्रः, “पवमानस्सुवर्जनः” “कृणुष्वपाजः” इत्यनुवाकौ, “अग्ने यशस्विन्” इति चतस्रः, “उदुत्तममि”त्यादिवरुणसूक्तं, “परिणो रुद्रस्य हेतिः” “स्तुहि श्रुतं” “मीढुष्टम” “अर्हन् बिभर्षि” “त्वमग्ने रुद्र” “आवो राजानम्” इति रुद्रसूक्तं, “ब्रह्मजज्ञानम्” इति “ब्रह्म समिद्भवत्याहुतीनामि”त्यन्तं ब्रह्मसूक्तं, “विष्णोर्नुकं” “तदस्य प्रियं” “प्रतद्विष्णुः” “परोमात्रया” “विचक्रमे” “त्रिर्देव” इति विष्णुसूक्तं, “जातवेदसे सुनवामसोम”मिति पञ्च, “हिरण्यवर्णां हरिणीम्” इति पञ्चदशर्चं श्रीसूक्तं च जपित्वा, “नमो ब्रह्मणे” इति परिधानीयां त्रिर्जपित्वा ॥

प्रतिसरजपमन्त्रः

दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि मुखाकरत् प्रण आयूँषि तारिषत् ।
आपो हिष्ठा मयो भुवस्तान ऊर्जे दधातन ।
महेरणाय चक्षसे ।
यो वश्शिवतमोरसस्तस्य भाजयतेह नः ।
उशतीरिव मातरः ।
तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ।

हिरण्यवर्णाशुचयः पावका यासु जातः कश्यपो यास्विन्द्रः ।
अग्निं या गर्भं दधिरे विरूपास्तान आपश्शँस्योना भवन्तु ।
यासाँ राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।

[[50]]

मधुश्चुतश्शुचयो याः पावकास्तान आपश्शँस्योना भवन्तु ।
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
याः पृथिवीं पयसोन्दन्ति शुक्रास्तान आपश्शँस्योना भवन्तु ।
शिवेन मा चक्षुषा पश्यतापश्शिवया तनुवोपस्पृशत त्वचं मे ।
सर्वाँ अग्नीँरफ्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्त ।

पवमानस्सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूँरनु ।

यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीः तनुवो वीतपृष्ठाः । तया मदन्तस्सधमाद्येषु । वयँस्याम पतयो रयीणाम् ।

वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणे नेषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिस्सवितस्तृभिः । वर्षिष्ठैर्देव मन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा ।

इदं ब्रह्म पुनीमहे । यः पावमानीरध्येति । ऋषिभिस्सम्भृतँरसम् । सर्वँसपूतमश्नाति । स्वदितं मातरिश्वना । पावमानीर्यो अध्येति । ऋषिभिस्सम्भृतँरसम् । तस्मै सरस्वती दुहे । क्षीरँसर्पिर्मधूदकम् । पावमानीः स्वस्त्ययनीः ॥

सुदुघा हि पयस्वतीः । ऋषिभिस्सम्भृतो रसः । ब्रह्मणेष्वमृतँहितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्थ्समर्धयन्तु नः । देवीर्देवैस्समाभृताः । पावमानीः स्वस्त्ययनीः । सुदुघा हि घृतश्च्युतः । ऋषिभिस्सम्भृतो रसः ॥

[[51]]

ब्राह्मणेष्वमृतँहितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शतोद्यामँहिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रस्सुनीती सह मा पुनातु । सोमस्स्वस्त्या वरुणस्समीच्या । यमो राजा प्रमृणाभिः पुनातु मा । जातवेदा मोर्जयन्त्या पुनातु ॥

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन ।
त्रिष्वी मनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ।
तव भ्रमास आशुया पतन्त्यनुस्पृश धृषता शोशुचानः ।
तपूँष्यग्ने जुह्वा पतङ्गानसन्दितो विसृज विष्वगुल्काः ।
प्रतिस्पशो विसृज तूर्णितमो भवापायुर्विशो अस्या अदब्धः ।
यो नो दूरे अघशँसः

यो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत् ।
उदग्ने तिष्ठ प्रत्यातनुष्व न्यमित्राँ ओषातात्तिग्महेते ।
यो नो अरातिँ समिधान चक्रे नीचा तं धक्ष्यतसन्न शुष्कम् ।
ऊर्ध्वो भव प्रतिविद्ध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।
अवस्थिरा तनुहि यातु जूनां जामिमजामिं प्रमृणीहि शत्रून् ।
स ते

जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।
विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो विदुरो अभिद्यौत् ।
सेदग्ने अस्तु सुभगस्सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ।
अर्चामि ते सुमतिं घोष्यर्वाख्सन्ते वावाता जरताम्

इयं गीः । स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ।
इह त्वा भूर्या चरेदुपत्मन्दोषावस्तर्दीदिवाँसमनुद्यून् ।
क्रीडन्तस्त्वा सुमनसस्सपेमाभिद्युम्ना तस्थिवाँसो जनानाम् ।

[[52]]

यस्त्वा स्वश्वस्सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ।
महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।
त्वन्नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतोदमूनाः ।
अस्वप्नजस्तरणयस्सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः ।
ते पायवस्सध्रियञ्चो निषद्याग्ने तव नः पान्त्वमूर ।
ये पायवो माम ते यन्ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह

देभुः । त्वया वयँसधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
उभाशँसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ।
अया ते अग्ने समिधा विधेम प्रतिस्तोमँ शस्यमानं गृभाय ।
दहाशसो रक्षसः पाह्यस्मान् द्रुहोनिदोमित्रमहो अवद्यात् ।
रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म ।
शिशानो अग्निः क्रतुभिस्समिद्धस्स नो दिवा -

सरिषः पातु नक्तम् ।
विज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
प्रादेवीर्मायास्सहते दुरेवाश्शिशीते शृङ्गे रक्षसे विनिक्षे ।
उत स्वानसो दिविषन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ ।
मदेचिदस्य प्ररुजन्तिभामा न वरन्ते परिबाधो अदेवीः ।

अग्ने यशस्विन् यशसेममर्पयेन्द्रावतीमपचितीमिहावह ।
अयं मूर्धा परमेष्ठी सुवर्चास्समानानामुत्तमश्लोको अस्तु ।
भद्रं पश्यन्त उपसेदुरग्रे तपो दीक्षामृषयस्सुवर्विदः ।
ततः क्षत्रं बलमोजश्च जातं तदस्मै देवा अभिसन्नमन्तु ।
धाता विधाता परमोत सन्दृक् प्रजापतिः परमेष्ठी विराजा ।

[[53]]

स्तोमाश्छन्दाँसि निविदोम आहुरेतस्मै राष्ट्रमभिसन्नमाम ।
अभ्यावर्तध्वमुपमेत साकमयँ शास्ताधिपतिर्वो अस्तु ।
अस्य विज्ञानमनु सँरभध्वमिमं पश्चादनुजीवाथ सर्वे ॥

उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमँश्रथाय ।
अथा वयमादित्यव्रते तवानागसो अदितये स्याम ।
अस्तभ्नाद्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ।
यत्किञ्चेदं वरुण दैव्ये जनेभिद्रोहं मनुष्याश्चरामसि ।
अचित्तीयत्तव धर्मायुयोपिम मानस्तस्मादेनसो देवरीरिषः ।
कितवासो यद्रिरिपुर्न दीवि यद्वाघा सत्यमुत यन्न विद्म ।
सर्वा ताविष्य शिथिरेव देवाथाते स्याम वरुण प्रियासः ।
अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
क्षयन्नस्मभ्यमसुरप्रचेतो राजन्नेनाँसि शिश्रयः कृतानि ।
तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोद्ध्युरुशँसमान आयुः प्रमोषीः ।

परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः ।
अवस्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ।
स्तुहि श्रुतं गर्तसदं युवानं मृगन्नभीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ।
मीदुष्टम शिवतम शिवोनस्सुमना भव ।
परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ।
अर्हन् बिभर्षि सायकानि धन्व । अर्हन्निष्कंयजतं विश्वरूपम् ।
अर्हन्निदं दयसे विश्वमब्भुवम् । न वा ओजीयो रुद्र त्वदस्ति ।
त्वमग्ने रुद्रो असुरो महो दिवः । त्वँशर्धो मारुतं पृक्ष ईशिषे ।
त्वं वातैररुणैर्यासि शङ्गयः । त्वं पूषा विधतः पासि नु त्मना ।
आवो राजनमध्वरस्य रुद्रँ होतारँ सत्ययजँ रोदस्योः ।
अग्निं पुरा तनयित्स्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥

[[54]]

ब्रह्मजज्ञानं प्रथमं पुरस्तात् विसीमतः सुरुचो वेन आवः ।
स बुध्निया उपमा अस्य विष्ठाः । सतश्च योनिमसतश्च विवः ।
पिता विराजामृषभो रयीणाम् । अन्तरिक्षं विश्वरूप आविवेश ।
तमर्कैरभ्यर्चन्ति वथ्सम् । ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः ।

ब्रह्म देवानजनयत् । ब्रह्म विश्वमिदं जगत् । ब्रह्मणः क्षत्रं निर्मितम् । ब्रह्म ब्राह्मण आत्मना । अन्तरस्मिन्निमे लोकाः । अन्तर्विश्वमिदं जगत् । ब्रह्मैव भूतानां ज्येष्ठम् । तेन कोऽर्हति स्पर्धितुम् । ब्रह्मन्देवास्त्रयस्त्रिँशत् । ब्रह्मन्निन्द्रप्रजापती । ब्रह्मन्ह विश्वा भूतानि । नावी वान्तस्समाहिता । चतस्र आशाः प्रचरन्त्वग्नयः । इमं नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्नजरँ सुवीरम् । ब्रह्म समिद्भवत्याहुतीनाम् ॥

विष्णोर्नुकं वीर्याणि प्रवोचय्ँयः पार्थिवानि विममे रजाँसि यो अस्कभायदुत्तरँ सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णो श्नप्त्रे स्थो विष्णोस्स्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॥

तदस्य प्रियमभिपाथो अस्याम् । नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था । विष्णोः पदे परमे मध्व उथ्सः । प्रतद्विष्णुस्तवते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा । परो मात्रया तनुवा वृधान । न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देवत्वम् । परमस्य विथ्से । विचक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनासः । उरुक्षितिँ सुजनिमा चकार । त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेषँ ह्यस्य स्थविरस्य नाम ।

[[55]]

जातवेदसे सुनवाम सोममरातीयतो निजहातिवेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुन्दुरितात्यग्निः ।
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गान्देवीँ शरणमहं प्रपद्ये सुतरसि तरसे नमः ।
अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकायतनयाय शय्ँयोः ।
विश्वानि नो दुर्गहा जातवेदस्सिन्धुं न नावा दुरितातिपर्षि ।
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोद्ध्यविता तनूनाम् ।
पृतनाजितँसहमानमग्निमुग्रँहुवेम परमाथ्सधस्थात् ।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः ॥

श्रीसूक्तम्

अथ श्रीसूक्तम् ।

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ।
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ।
कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां त्वामिहोपह्वये श्रियम् ।
चन्द्रां प्रभासां यशसां ज्वलन्तीं श्रियल्ँलोके देवजुष्टामुदाराम् ।
तां पद्मनेमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ।
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ।
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे ।
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम् ।
मनसः काम माकूतिं वाचस्सत्यमशीमहि ।

[[56]]

पशूनाँ रूपमन्नस्य मयि श्रीः श्रयतां यशः ।
कर्दमेन प्रजा भूता मयि सम्भव कर्दमा ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ।
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरँ श्रियं वासय मे कुले ।
आर्द्रां पुष्करिणीं यष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ।
आर्द्रां यष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ।
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥

नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः ।
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ।
इत्येतामृचं त्रिः जपेत् ॥

प्रणवेन कुम्भमुत्थाप्य, कूर्चेन व्याहृतिभिः प्रतिसरसूत्रं (हस्तं च) कुम्भजलेन प्रोक्ष्य, वामहस्तेन सूत्रं गृहीत्वा, वासुकिं ध्यात्वा, दक्षिणहस्तेन

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धानान्मृत्योर्मुक्षीय मामृतात् ।

इति सकृन्मन्त्रेण द्विस्तूष्णीं हरिद्रादिना त्रिरुन्मृज्य

अग्निरायुष्मान्थ्सवनस्पतिभिरायुष्मान्तेन त्वायुषायुष्मन्तं करोमि, सोम आयुष्मान्थ्स ओषधीभिरायुष्मान् तेन त्वायुषायुष्मन्तं करोमि, यज्ञ आयुष्मान्थ्सदक्षिणाभिरायुष्मान् तेन त्वायुषायुष्मन्तं करोमि, ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तेन त्वायुषाऽयुष्मन्तं करोमि, देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि ।

इति तण्डुलपूर्णं पुंसः दक्षिणं, स्त्रिया वामहस्तं गृहीत्वा -

बृहत्साम क्षत्रभृद्वृद्धवृष्णियं त्रिष्टुभौजश्शुभितमुग्रवीरम् ।
इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष ।

इति बद्ध्वा

[[57]]

आयुष्य‌/घृत-सूक्तम् ...{Loading}...
विश्वास-प्रस्तुतिः

+++(मृगशिरसि यथा दृश्यते)+++
यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्तिवासाः पिनाकी +++(आर्द्रा-स्थः)+++।
ईशानो देवः स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥ १ ॥

मूलम्

+++(मृगशिरसि यथा दृश्यते)+++
यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्तिवासाः पिनाकी +++(आर्द्रा-स्थः)+++।
ईशानो देवः स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥ १ ॥

विश्वास-प्रस्तुतिः

+++(आर्द्रा-रूपेण)+++ विभ्राजमानः सरिरस्य+++(=सलिलस्य [आकाशगङ्गायाः])+++ मध्याद्
रोचमानो घर्मरुचिर् य आगात्
स मृत्यु-पाशान् अपनुद्य घोरान्
इहायुषेणो घृतम् अत्तु देवः ॥ २ ॥

मूलम्

+++(आर्द्रा-रूपेण)+++ विभ्राजमानः सरिरस्य+++(=सलिलस्य [आकाशगङ्गायाः])+++ मध्याद्
रोचमानो घर्मरुचिर् य आगात्
स मृत्यु-पाशान् अपनुद्य घोरान्
इहायुषेणो घृतम् अत्तु देवः ॥ २ ॥

विश्वास-प्रस्तुतिः

ब्रह्म-ज्योतिर् ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरु-रूपं जयन्तम्
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्यं
तम् आयुषे वर्धयामो घृतेन ॥ ३ ॥

मूलम्

ब्रह्म ज्योतिर् ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरु-रूपं जयन्तम् ।
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्यं
तमायुषे वर्धयामो घृतेन ॥ ३ ॥

विश्वास-प्रस्तुतिः

श्रियं लक्ष्मीम् औबलाम् अम्बिकां गां
षष्ठीं च याम् इन्द्र-सेनेत्य् उदाहुः
तां विद्यां ब्रह्म-योनिँ सरूपाम्
इहायुषे तर्पयामो घृतेन ॥ ४ ॥

मूलम्

श्रियं लक्ष्मी-मौबला-मम्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युदाहुः ।
तां विद्यां ब्रह्मयोनिग्ं सरूपामिहायुषे तर्पयामो घृतेन ॥ ४ ॥

विश्वास-प्रस्तुतिः

दाक्षायण्यः सर्व-योन्यः स-योन्यः
सहस्रशो विश्वरूपा विरूपाः ।
स-सूनवः स-पतयः स-यूथ्या
आयुषेणो घृतम् इदं जुषन्ताम् ॥ ५ ॥

मूलम्

दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः ।
ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्ताम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

दिव्या गणा बहु-रूपाः पुराणा
आयुश्-छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन
मा नः प्रजाँ रीरिषो मोत वीरान् ॥ ६ ॥

मूलम्

दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाग्ं रीरिषो मोत वीरान् ॥ ६ ॥

विश्वास-प्रस्तुतिः

एकः पुरस्तात् य इदं बभूव
यतो बभूव भुवनस्य गोपाः ।
यम् अप्य् एति भुवनँ साम्पराये
स नो हविर् घृतम् इहायुषे ऽत्तु देवः ॥ ७ ॥

मूलम्

एकः पुरस्तात् य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनग्ं सा᳚म्पराये स नो हविर्घृत-मिहायुषे᳚त्तु देवः ॥ ७ ॥

विश्वास-प्रस्तुतिः

वसून् रुद्रान् आदित्यान् मरुतोऽथ साध्यान्
ऋभून् यक्षान् गन्धर्वाँश् च पितॄँश् च विश्वान् ।
भृगून् सर्पाँश् चाङ्गिरसोऽथ सर्वान्
घृतँ हुत्वा स्वायुष्या महयाम शश्वत् ॥ ८ ॥

मूलम्

वसून् रुद्रा-नादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वाग्श्च
पितॄग्श्च विश्वान् ।
भृगून् सर्पाग्श्चाङ्गिरसोऽथ सर्वान् घृतग्ं हुत्वा स्वायुष्या महयाम
शश्वत् ॥ ८ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्स॑न्दुह्रते॒ अख्षि॑तम्॥

भट्टभास्कर-टीका

मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्स॑न्दुह्रते॒ अख्षि॑तम्॥

भट्टभास्कर-टीका

मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥

मूलम् (संशयास्पद-स्वर-सहितम्)

यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासाः᳚ पिना॒की ।
ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ १ ॥

विभ्राजमानः सरिर॑स्य म॒ध्या॒-द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् ।
स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥ २ ॥

ब्रह्मज्योति-र्ब्रह्म-पत्नी॑षु ग॒र्भं॒ य॒मा॒द॒धात् पुरुरूपं॑ जय॒न्तम् ।
सुवर्णरम्भग्रह-म॑र्कम॒र्च्यं॒ त॒मा॒यु॒षे वर्धयामो॑ घृते॒न ॥ ३ ॥

श्रियं लक्ष्मी-मौबला-मम्बिकां॒ गां॒ ष॒ष्ठीं च या॒मिन्द्रसेने᳚त्युदा॒हुः ।
तां विद्यां ब्रह्मयोनिग्ं॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥ ४ ॥

दाक्षायण्यः सर्वयोन्यः॑ स यो॒न्यः॒ स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः ।
ससूनवः सपतयः॑ सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिदं॑ जुष॒न्ताम् ॥ ५ ॥

दिव्या गणा बहुरूपाः᳚ पुरा॒णा॒ आयुश्छिदो नः प्रमथ्न॑न्तु वी॒रान् ।
तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाग्ं रीरिषो मो॑त वी॒रान् ॥ ६ ॥

ए॒कः॒ पु॒र॒स्तात् य इदं॑ बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः ।
यमप्येति भुवनग्ं सा᳚म्परा॒ये॒ स नो हविर्घृत-मिहायुषे᳚त्तु दे॒वः ॥ ७ ॥

व॒सू॒न् रुद्रा॑-नादि॒त्यान् मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒क्षा॒न् गन्धर्वाग्श्च
पितॄग्श्च वि॒श्वान् ।
भृगून् सर्पाग्श्चाङ्गिरसो॑ऽथ स॒र्वा॒न् घृ॒त॒ग्ं हु॒त्वा स्वायुष्या महया॑म
श॒श्वत् ॥ ८ ॥

विष्णो॒ त्वं नो॒ अन्त॑म॒श्शर्म॑यच्छ सहन्त्य । प्रते॒धारा॑ मधु॒श्चुत॒
उथ्सं॑ दुह्रते॒ अक्षि॑तम् ॥

॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

इति रक्षां कृत्वा, विवाहाधानयोस्तु पुंसां दक्षिणे हस्ते विश्वेत्तात इति बद्ध्वा, स्त्रीणां वामहस्ते बृहथ्सामेति बध्नीयात् । उत्सवान्ते सायं सन्ध्यायां बन्धनमन्त्रेण तत्सूत्रं विसृज्य, परित्यजेत् ॥

प्राणानायम्य, श्रीगोविन्देत्याद्यस्यां शुभतिथौ गोत्रां नाम्नीं पुंसुवनेन कर्मणा संस्करिष्यामीति सङ्कल्प्य, अग्निप्रतिष्ठादिपात्रसादनकाले