१८ पाव्यमाने जपः

पवमानस्सुवर्जनः । पवित्रेण वि चर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूꣳरनु । यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तस्सधमाद्येषु । वयꣳ स्याम पतयो रयीणाम् । वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिस्सवितस्तृभिः । वर्षिष्ठैर्देव मन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे । यः पावमानीरध्येति । ऋषिभिस्सम्भृतꣳ रसम् । सर्वꣳ स पूतमश्नाति । स्वदितं मातरिश्वना । पावमानीर्यो अध्येति । ऋषिभिस्सम्भृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीरꣳ सर्पिर्मधूदकम् । पावमानीस्स्वस्त्ययनीः । सुदुघा हि पयस्वतीः । ऋषिभिस्सम्भृतो रसः । ब्राह्मणेष्वमृतꣳ हितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्थ्समर्धयन्तु नः । देवीर्देवैस्समाभृताः । पावमानीस्स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिस्सम्भृतो रसः । ब्राह्मणेष्वमृतꣳ हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्र धारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शतोद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे पाव्यमानो जपति ।

यद्देवा देव हेडनं देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामुत ॥ देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ऋतेन द्यावापृथिवी ऋतेन त्वꣳ सरस्वति । कृतान्मा मुञ्चताꣳहसो यदन्यकृतमारिम ॥ सजातशꣳसादुत वा जामिशꣳसाज्ज्यायसश्शꣳसादुत वा कनीयसः । अनाज्ञातं देवकृतं यदेनस्तस्मात्त्वमस्माञ्जातवेदो मुमुग्धि ॥ यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्याꣳ शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्नमानः । दूरेपश्या च राष्ट्रभृच्च तान्यफ्सरसावनुदत्तामृणानि ॥ अदीव्यन्नृणं यदहं चकार यद्वाऽदास्यन्थ्सञ्जगारा जनेभ्यः । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ यन्मयि माता गर्भे सत्येनश्चकार यत्पिता । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ यदापिपेष मातरं पितरं पुत्रः प्रमुदितो धयन्न् । अहिꣳसितौ पितरौ मया तत्तदग्ने अनृणो भवामि ॥ यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नापि दुष्कृतस्तमारोहामि सुकृतान्नु लोकम् ॥ त्रिते देवा अमृजतैतदेनस्त्रित एतन्मनुष्येषु मामृजे । ततो मा यदि किञ्चिदानशेऽग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ दिवि जाता अप्सुजाता या जाता ओषधीभ्यः । अथो या अग्निजा आपस्तानश्शुधन्तु शुन्धनीः ॥ यदापो नक्तं दुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीत नः ॥ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः ॥ त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडोऽव यासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्यस्मत् ॥ स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उशसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि ॥ त्वमग्ने अयास्ययासन्मनसा हितः । अयासन्, हव्यमूहिषेऽया नो धेहि भेषजम् इति अच्छिद्रानुवाकं च पूतो जपति । आ वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामहे यजमानः पूर्वया द्वारा प्राग्वंशं प्रविश्य । इन्द्राग्नी द्यावापृथिवी आप ओषधीः अपरेणाहवनीयं दक्षिणातिक्रम्य । त्वं दीक्षाणामधिपतिरसीह मा सन्तं पाहि आहवनीयमुपोपविशति । एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति आ क्रतुसमाप्तेः । अत्र दीक्षणीयामेके समामनन्ति । पुरस्ताद्दीक्षाहुतिभ्यः सम्भारयजूंषीत्येके