०६ औपासनारम्भः

रात्रौ नवसु घटिकासु औपासनमारभेत, नव घटिका अतीताश्चेत् श्वस्सायं सन्ध्यानन्तरं ब्राह्मणाननुज्ञाप्य,

[[119]]

पत्न्या सह प्राणानायम्य,
“औपासनम् आरफ्स्य” इति सङ्कल्प्य,
“सायम्-औपासनहोमं होष्यामी"ति पुनस्सङ्कल्प्य
स्थण्डिलादि परिस्तरणान्तं कृत्वा,
परिषिच्य
एकां समिधम् आधाय द्वादश-पर्व-पूरितं प्रोक्षितं तण्डुलम्
“अग्नये स्वाहे"ति हस्तेन देवतीर्थेन अग्निमध्ये हुत्वा,
किञ्चिद्-अधिक-भागम् “अग्नये स्विष्टकृते स्वाहे"ति अग्नाव् उत्तरपूर्वे पूर्ववद् +धुत्वा
पुनर् एकां समिधम् आधाय,
परिषिच्य “अग्ने नयेत्य्” अग्निमुपतिष्ठेत् ।