३९ पुरोडाशकरणादि प्रचारान्तम्

अव रक्षो दिव इत्यवहननादि कर्म प्रतिपद्यते । अग्नीषोमाभ्यां जुष्टमधिवपामि । कपालाना-मुपधानकालेऽष्टावुपधाय तूष्णीं त्रीणि । अग्नीषोमाभ्यां जुष्टꣳ संवपामि । अन्या आपो यजुषोत्पूय समापो अद्भिः । आप्यलेपं बर्हिषि निनीय । घृतागेह्यग्निस्त्वाह्वयति देवयज्यायै । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः । अनिशितमसि सपत्नक्षयणम् । रूपं वर्णम् इत्यन्यैर्दर्भैः । अग्नेस्त्वा तेजिष्ठेन । अयं प्राणश्च इति प्रस्तरे पवित्रेऽपिसृज्य । इदमहꣳ सेनाया इत्यादि । तूष्णीमभिघार्य । प्रियेणेत्यासादयति । अयं यज्ञो, ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । अत्र विरमेदा पशुश्रपणात् । शृते पशौ पञ्चहोता । जुह्वामुपस्तीर्येत्यादि । अग्नीषोमाभ्यां पुरोडाशस्याऽनुब्रू३हि । अग्नीषोमाभ्यां पुरोडाशस्य प्रेष्य । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् । न पार्वणनारिष्ठाः । स्विष्टकृति अग्नयेऽनु ब्रूहि । अग्नये प्रेष्य । अग्नय इदम् । अग्नेरहं देवयज्ययायुष्मान् — गमेयम् । प्रत्याक्रम्य । प्राशित्रमवदायेडाम् । न यजमान भागम् । उपहूतां मैत्रावरुणषष्ठा भक्षयित्वा पूर्ववत्प्रस्तरे मार्जयित्वा ।