१२ महावीरस्य समञ्जनं प्रतिष्ठापनं आज्यपूरणं च

देवस्त्वा सविता मध्वानक्तु समञ्जनस्रुवेण उपर्याहवनीये महावीरमङ्क्त्वा१ । पृथिवीं तपसस्त्रायस्व अपरस्मिन् खरे राजतं रुक्मं निधाय२ । खरसमीपे महावीरं प्रतिष्ठाप्य अन्यस्मै वा प्रदाय द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि । अर्चिषे त्वा गार्हपत्ये प्रदीपयति । तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वा प्रदीपयति । तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वा प्रदीपयति । तेषां मूलैरुत्तरेषामग्राणि तपसे त्वा प्रदीपयति । तान् व्यत्यस्तान् । अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि उपरि रुक्मे निदधाति । सꣳसीदस्व महाꣳ असि शोचस्व देववीतमः । विधूममग्ने अरुषं मियेध्य सृज प्रशस्तदर्शतम् तेषु महावीरं प्रतिष्ठाप्य । अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयं न सादीत् आज्येनाभिपूरयति । अध्यधि महावीरमसंस्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपति अनाधृष्या पुरस्तात् । अग्नेराधिपत्ये । आयुर्मे दाः पुरस्तात् । पुत्रवती दक्षिणतः । इन्द्रस्याधिपत्ये । प्रजां मे दाः दक्षिणतः । सुषदा पश्चात् । देवस्य सवितुराधिपत्ये । प्राणं मे दाः पश्चात् । आश्रुतिरुत्तरतः । मित्रावरुणयोराधिपत्ये । श्रोत्रं मे दाः उत्तरतः । विधृतिरुपरिष्टात् । बृहस्पतेराधिपत्ये । ब्रह्म मे दाः क्षत्रं मे दाः । तेजो मे धा वर्चो मे धाः । यशो मे धास्तपो मे धाः । मनो मे धाः इत्युपरिष्टात् ३। मनोरश्वासि भूरिपुत्रा । विश्वाभ्यो मा नाष्ट्राभ्यः पाहि । सूपसदा मे भूया मा मा हिꣳसीः उत्तरतः पृथिवीमभिमृशति ।