०९ प्रायश्चित्तादि

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

धारणम्

एतमग्निं त्र्यहं धारयेत् ।
अस्मिन् अग्नौ सायं प्रातः समिधः आदध्यात् ।

[[18]]

त्र्यहाद् ऊर्ध्वम् आसमावर्तनात्
लौकिकाग्नौ समिद्-आधानं सायम् एवेत्य् एके ।

ब्रह्म-चर्य-प्रवेशः

अथ आचार्यः कुमारं ब्रह्मचार्यसीत्यादि षडर्थान् श्रावयेत् ।
प्रतिसंशासनं बाढमिति ब्रूयात् ।

१४ ब्रह्मचार्यस्य्, अपोऽशान ...{Loading}...

ब्र॒ह्म॒चा॒र्य् अ॑सि।
(वटुः - बाढम्।)

अपो॑ऽशान +++(नानिवेदितम् अन्नम्)+++।
(वटुः - बाढम्।)

कर्म॑ कुरु।
(वटुः - बाढम्।)

मा सुषु॑प्थाः।
+++(अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः ।)+++
(वटुः - बाढम्।)

भि॒क्षा॒च॒र्य॑ञ् चर। (वटुः - बाढम्।)

आ॒चा॒र्या॒धी॒नो भ॑व ।
(वटुः - बाढम्।)

भिक्षा

आचार्यः तस्मै अरिक्तं पात्रं प्रयच्छन्
“मातरमेव भिक्षस्व भगिनीं वे"ति ब्रूयात् ।
स च ‘भवति भिक्षां देहि’
इति मातरमेवाग्रे भिक्षेत भगिनीं च ।

तत् समाहृत्य, उपनिधाय,
“भैक्षम् इदम् आहृतम्” इति आचार्याय ब्रूयात् ।

“तत् सुभैक्षम्” इत्य् आचार्यः प्रतिगृह्णीयात् ।