३१ वपोद्धरणार्थं गमनं, आप्यायनं च

निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः सप्लक्षशाखे वपाश्रपण्यावाहवनीये प्रतितप्य । शमितार उपेतन यज्ञं देवेभिरिन्वितम् । पाशात्पशुं प्रमुञ्चत बन्धाद्यज्ञपतिं परि वपाश्रपणीभ्यां पशुमुपेतोऽध्वर्युर्यजमानश्च । अदितिः पाशं प्रमुमोक्त्वेतन्नमः पशुभ्यः पशुपतये करोमि अध्वर्युः पशोः पाशं प्रमुञ्चति । संवेष्ट्य रशनां ग्रीवासु निधायैकशूलयोपसज्य । अरातीयन्तमधरं कृणोमि चात्वाल उदस्यति । ततः प्रतिप्रस्थाता पत्नीमुदानयति । नमस्त आतान पत्न्यादित्यमुपतिष्ठते । अनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेण प्राचीमुदानयति । आपो देवीश्शुद्धायुवश्शुद्धा यूयं देवाꣳ ऊढ्वꣳ शुद्धा वयं परिविष्टाः परिवेष्टारो वो भूयास्म चात्वाले पत्न्यपोऽवमृशति । ऋत्विजो यजमानश्च । ब्रह्मणो नापामुपस्पर्शनम् । अद्भि: पशोस्सर्वान्प्राणानाप्याययति । सर्वाण्यङ्गान्यध्वर्यु-रभिषिञ्चति पत्न्याप्याययत्येतद्वा विपरीतम् । वाक्त आ प्यायताम् । शमद्भ्यः । प्राणास्त आ प्यायताम् । शमद्भ्यः । चक्षुस्त आ प्यायताम् । शमद्भ्यः । श्रोत्रं त आ प्यायताम् । शमद्भ्यः । यथालिङ्गमाप्याययति । या ते प्राणाञ्छुग्जगाम या चक्षुर्या श्रोत्रं यत्ते क्रूरं यदास्थितं तत्त आ प्यायतां तत्त एतेन शुन्धताम् । शमद्भ्यः हृदयदेशम् । नाभिस्त आ प्यायताम् । शमद्भ्यः नाभिम् । पायुस्त आ प्यायताम् । शमद्भ्यः पायुम् । मेढ्रं त आ प्यायताम् । शमद्भ्यः मेढ्रम् । पादानेकीकृत्य । शुद्धाश्चरित्राश्शमद्भ्यः पादान् । शमद्भ्य इति जपस्सर्वत्र । शमोषधीभ्यश्शं पृथिव्यै शमहोभ्याम् भूम्यां शेषं निनीय । पशुमुत्तानं निपात्य । ओषधे त्रायस्वैनम् उपाकरणयोरवशिष्टं दक्षिणेन नाभिमन्तर्धाय । स्वधिते मैनꣳ हिꣳसीः स्वधितिना पार्श्वतस्तिर्यगाच्छ्यति । बर्हिषोऽग्रं सव्येन पाणिनादत्ते । अथ मध्यं यत आच्छ्यति तदुभयतो लोहितेनाङ्क्त्वा । रक्षसां भागोऽसि उत्तरमपरमवान्तरदेशं निरस्य । रक्षोभ्य इदम् । अप उपस्पृश्य । इदमहꣳ रक्षोऽवबाध इदमहꣳ रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमेनमधमं तमो नयामि अथैनत्सव्येन पदाधितिष्ठति ।