उपाकरणम्

विश्वास-टिप्पनी
  • प्रातःसन्ध्यावन्दनात् परम् -
    अध्याय+उत्सर्जन+अकरण-प्रायश्चित्तार्थं कामोकार्षीत्-मन्युरकार्षीत् जपः स्याद् इति केचित्।
  • तदा यज्ञोपवीतपरिवर्तनम् अपीच्छन्ति केचित्। नूतनपलाशदण्डादिग्रहणम् अपि!
  • श्रावण्यां पौर्णमास्याम् उपोष्य परेद्युः सहस्रकृत्वो गायत्रीमन्त्रजपेन प्रायश्चित्तम् अपि कर्तुम् अवकाशो ऽस्ति।

११उ ०१ ...{Loading}...

अथात उपाकरणोत्सर्जने व्याख्यास्यामः १

११उ ०२ ...{Loading}...

+++(आर्तव)+++श्रवणा+++(पूर्व)+++पक्ष
ओषधीषु जातासु
हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म २

विश्वास-टिप्पनी

वर्षऋताव् एव प्ररोहन्ति धन्याः।

११उ ०३ ...{Loading}...

+++(शिष्टाचारानुसारेण मध्याह्नात् परं)+++
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या,
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमो +++(= सांहितीभ्यो, याज्ञिकीभ्यो, वारुणीभ्यो, ब्रह्मणे स्वयंभुवे इति सुदर्शनसूरिः। हरदत्तस्तु जयादय इति।)+++,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३

०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य ...{Loading}...
०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य ...{Loading}...

सद॑स॒स्पति॒म् अद्भु॑तं
प्रि॒यम् इन्द्र॑स्य॒ काम्य॑म् ।
स॒निं +++(=दानरूपम्)+++ मे॒धाम् अ॑यासिषम् ६

विश्वास-टिप्पनी

होम-स्थाने तर्पणम् बहुधा क्रियते।
होमाङ्गत्वेनाध्ययनम् इच्छन्ति केचित्।

११उ ०४ ...{Loading}...

परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४

११उ ०५ ...{Loading}...

प्रथमोत्तमाव् अनुवाकौ वा ५

११उ ०६ ...{Loading}...

त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६

११उ ०७ ...{Loading}...

यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++ ७