०२ रङ्गरामानुजः

சீமலங்கீடேன். வேசிக்ககூட

ஸ்ரீரங்கம் ஸ்ரீமதாண்டவன் (ஸ்ரீமுஷ்ணம்)

ஸ்ரீரங்கம் ஸ்ரீமதாண்டவன் ஸ்ரீமுகம்

अयिभोः अखण्डवैभवभवनभूतपण्डितप्रकाण्डमण्डल मण्डनायमानाः ! विदितचरोप्यं विषयः विषयानुगुणपक्षपातिनां अक्षीणगुणवतां समक्षे निक्षिप्यते सनातनधर्मप्रकर सदातन रक्षणार्थं इतरशिक्षणार्थं क्षणार्थञ्च ।

अपि च निकषा निष्कर्षायसंप्रेषितश्श्रौतिकुलतिलकैः गतधिषणाविलासैः सदाचारनिरतैः बहुस्मृतिसमालोचन समासादितसमीचीन स्मृतिसंततिभिः आजानशुद्धैः जनताहिताऽऽहितचित्तैः श्रीदेशिकाचार्यवर्यैः प्रयोगप्रकारनिकरप्रतिपादकोऽयं ग्रन्थतल्लजः । ‘‘समुन्मेषितसुस्वरूपप्रयोगजातं अद्यानवद्ययाशैल्या निरूप्यते, निरुप्यते च प्राचीनमिदं समनन्तर समीचीनाङ्कुर प्ररोहणाय सर्वजनतावनाय च सर्वधर्मकर्म मर्मज्ञक्षेत्रज्ञ पवित्रमानसेषु’ इत्येतदेवस्माकं समेषां सदामोदावहम् । मदीयमनीषानिकषं प्राप्य सदाचारसदाचार्यसेवासमधिसत्संप्रदायदिदर्शायिषुभिः -

प्रतिपाद्यन्ते प्रचिख्यापयिषुणामया तदीयसर्वप्रयोगसामञ्जस्यं, द्वित्रविषयाः । स्थालीपुलाकन्यायेनात्र कुत्रचिदुक्तं “धृत धौताचारवस्त्र” इति । तत्तदाचारानुगुणं वस्त्रं, अपि च धौतं, धृतञ्च येन सः इत्यादिरूपं निर्वाहसौकर्यं अनभ्युपगच्छद्भिः मान्यैरन्यैः कैश्चिद्दोषोऽस्मिन्नुदघोषि विमर्शकशीर्ष भूषाभूतेर्ष्यया शललीशलाकयेव शैल्या च । अत्र कुत्र चित्

‘“अत्र शाकादिदानेन क्लेशिताः यूयमीदृशाः" इतिपाठस्स्मृत्यन्तर दृष्टत्वादादृतः ।

(iii)

(iv)

परिभाषाप्रकरणञ्चानितरसाधारणरीत्या न्यरूपि संदेह संदोह समुन्मूलनाय ।

सपिण्डीकरण प्रकरणस्थब्राह्मणवरणेपौराणिकी गाथा संगृहीता कर्मसाद्गुण्याय ।

अपि च तत्रैव पादप्रक्षालनप्रकरणं संशयविपर्यय विदूरतयानायासेन शोधितञ्च । इत्थमनेकविधाबाधिप्रयोगाः सूक्ष्मेक्षिकया संगृह्यसंयोजिताश्च ।

एतेषां प्रबन्धृणां कृषिः इतोप्यधिकवैभवशालिनी एधतामितः परमपीति आशास्य

क्रियते

श्रीरङ्गनाथदिव्यमणिपादुकास्मृतिः

श्रीरङ्गरामानुजमुनिना.