०५ वपनम्

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

17 पिता विराजाम्, ...{Loading}...

पि॒ता वि॒राजा॑म्, ऋष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्व-रू॑प॒ आवि॑वेश
तम् अ॒र्कैर् अ॒भ्य॑र्चन्ति व॒थ्सम् ।
ब्रह्म॒ सन्त॒म् ब्रह्म॑णा व॒र्धय॑न्तः

ब्रह्मादिभ्यो नमः, अयं बीजावापः ।

सकृन्मन्त्रेण द्विस्तूष्णीम् ॥

26 यत इन्द्र ...{Loading}...

यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि +++(=शक्तो वर्तस्व)+++ तव॒ तन् न॑+++(ः)+++ ऊ॒तये᳚+++(=रक्षायै, ऊ॒तिभि॑र् इति शाकले)+++
वि द्विषो॒ वि मृधो॑+++(=सङ्ग्रामान्)+++ जहि ।।

०२ स्वस्तिदा विशस्पतिर्वृत्रहा ...{Loading}...

स्व॒स्ति॒दा वि॒शस्-पति॑र्
वृत्र॒हा वि॑मृ॒धो व॒शी ।
वृषेन्द्रः॑ पु॒र ए॑तु नः
सोम॒-पा अ॑भयङ्-क॒रः

इन्द्रादिभ्यो नमः, अयं बीजावापः ।

सकृन्मन्त्रेण द्विस्तूष्णीम् ॥

02 योऽस्य कौष्ठ्य! ...{Loading}...

योऽस्य॒ +++(गोत्रेण)+++ कौष्ठ्य॒! जग॑तः॒
पार्थि॑व॒स्यैक॑ इद् व॒शी ।
य॒मं +++(नाम्ना)+++ भ॑ङ्ग्य-श्र॒वो! गा॑य॒
यो राजा॑ ऽनप॒रोद्ध्यः॑ ।

03 यमङ् गाय ...{Loading}...

य॒मङ् गाय॑ +++(नाम्ना)+++ भङ्ग्य॒श्रवो॒!
यो राजा॑ ऽनप॒रोद्ध्यः॑ ।
येना॒पो न॒द्यो॑ धन्वा॑नि॒+++(=मरुभूमयः)+++
येन॒ द्यौः पृ॑थि॒वी दृ॒ढा

यमादिभ्यो नमः, अयं बीजावापः ॥

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

वरुणादिभ्यो नमः, अयं बीजावापः ।

सकृन्मन्त्रेण द्विस्तूष्णीम् ॥

२० सोमो धेनुं ...{Loading}...

सोमो॑ धे॒नुं, सोमो॒ अर्व॑न्तम् आ॒शुं
सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति
सा॒द॒न्यं॑+++(←सदन)+++ विद॒थ्यं॑ स॒भेयं॑
पितृ॒-श्रव॑णं॒ यो ददा॑शद्+++(=दद्यात्)+++ अस्मै +++(यजमानाय)+++ ॥

०४ आ प्यायस्व ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे+++(=संगमने)+++ ॥

सोमादिभ्यो नमः, अयं बीजावापः ।

सकृन्मन्त्रेण, द्विस्तूष्णीम् ॥

अ-युग्माभिस् सुमङ्गलीभिर् जल-सेचनं कारयित्वा
तत्-तत्-कर्मान्ते विसर्जयेत् ॥

[[20]]