०७ प्रवर्ग्यकर्मारम्भः

प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि परिश्रयन्ति पत्न्याः । पश्चाद्धोतोपविशति, पुरस्तादध्वर्यु-र्दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च, उत्तरतः प्रतिप्रस्थाताऽग्नीध्रश्च । मन्दतीरुपस्पृश्य । प्रथमेनानुवाकेन शान्तिं कुर्वन्ति ।