०२ प्रविश्यहोमारम्भः

अथ प्रविश्यहोमारम्भः

‘संकाशयामि’ इत्येतया स्वगृहं पत्न्याः सन्दर्शयेत् ।
‘आवामगन्’ इति द्वाभ्यां दक्षिण-वामयोः क्रमेण वाहौ विमुच्य
गृहं प्रविश्य

‘शर्म वर्मेदम्’ इत्य् एतया अगारस्य मध्ये
लोहितम् आनडुहं चर्म प्राक्-शिर उत्तर-लोमास्तीर्य
दक्षिण-पाद-निधान-पूर्वकं पत्नीं गृहं प्रवेशयेत् ।

“गृहान् भद्रान्” इति तां वाचयेत् ।
उभाव् अपि पादेन देहलीं न स्पृशेताम् ।
गृह उत्तर-पूर्वदेशे “प्रविश्य-होमं करिष्ये” इति सङ्कल्प्य
अग्नि-प्रतिष्ठाद्य्–आज्य-भागान्ते
पत्न्या ऽन्वारब्धः
‘आगन् गोष्ठम्’ इति त्रयोदशभिः प्रतिमन्त्रं हुत्वा
जयाद्य्–अग्न्य्-उपस्थानान्तं कृत्वा

पूर्वास्तृते चर्मणि ‘इह गाव’ इत्येतया उपविशेताम् ।
सर्वत्रोपवेशने दक्षिणतः पत्नी, उत्तरतो वरः ।
अथ यस्याः पुत्रा एव जायन्ते,
जातास् सर्वेपि जीवन्ति,
तस्याः पुत्रं ‘सोमेनादित्याः’ इत्य् एतया पत्न्य्-अङ्के निवेश्य
तस्मै ‘प्रस्वस्थ’ इति कदल्य्-आदि-फलानि दत्वा
‘इह प्रियम्’ इत्य् एते जपित्वा
उभौ वाचं यच्छतः आनक्षत्रोदयात् -

उदितेषु नक्षत्रेषु प्राचीम् उदीचीं वा दिशं गत्वा
‘ध्रुव-क्षितिः ध्रुव-योनिर्’ इति ध्रुवं,
‘सप्तर्षयः प्रथमाम्’ इत्य् अरुन्धतीं च क्रमेण दर्शयित्वा
तया सहोपविशेत् ॥