३४ सुब्रह्मण्योपाह्वानम्

अग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति संप्रेष्यति । अपरेण गार्हपत्यमाग्नीध्र उपविश्य देवपत्नीर्व्याचष्टे । सेनेन्द्रस्य । धेना बृहस्पतेः । पथ्या पूष्णः । वाग्वायोः । दीक्षा सोमस्य । पृथिव्यग्नेः । वसूनां गायत्री । रुद्राणां त्रिष्टुक् । आदित्यानां जगती । विष्णोरनुष्टुक् । वरुणस्य विराट् । यज्ञस्य पङ्क्तिः । प्रजापतेरनुमतिः । मित्रस्य श्रद्धा । सवितुः प्रसूतिः । सूर्यस्य मरीचिः । चन्द्रमसो रोहिणी । ऋषीणामरुन्धती । पर्जन्यस्य विद्युत् । चतस्रो दिशः । चतस्रोऽवान्तरदिशाः । अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च । आपश्चौषधयश्च । ऊर्क्च सूनृता च देवानां पत्नयः । उत्करे सुब्रह्मण्यामाह्वयति १ । पूर्ववदेनां यजमानोऽनुमन्त्रयते । सुपूर्वाह्णे पूर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । स्वपराह्ण आपराह्णिकीभ्याम् ।