३६ आज्यशस्त्रम्

एतत्पात्रमादायाध्वर्युस्सदोबिले प्राङ्मुख उपविश्य इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि शꣳसिषद्विश्वे देवास्सूक्तवाचः पृथिवि मातर्मा मा हिꣳसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासꣳ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनु मदन्तु शस्त्रं प्रतिगरिष्यन् जपति । शों सावोमिति होतुरभिज्ञाय प्रदक्षिण-मावर्तमानः शोंसामोदैव इति प्रत्याह्वयते । ऋतुपात्रं धारयमाणस्सदोबिले प्रत्यङ् तिष्ठन् प्रतिगृणाति । ओथामोदैवों इति त्रिरुपांशु तूष्णीं शंसने । ओथामोदैव इत्यवसानेषु । ओ३थामोदैव इति प्रणवेषु । ओं शोंसामोदैव इत्याहावेषु । प्रणव एव अन्ते । यजमानः - शस्त्रस्य शस्त्रमस्यूर्जं मह्यꣳ शस्त्रं दुहा मा मा शस्त्रस्य शस्त्रं गम्यादिन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् । सा मे सत्याशीर्देवेषु भूयाद्ब्रह्मवर्चसं मा गम्यात् । यज्ञो बभूव स आ बभूव स प्रजज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माꣳ अधिपतीन्करोतु वयꣳ स्याम पतयो रयीणाम् शस्त्रमनु-मन्त्रयते । अध्वर्युः - ऋतुपात्रमायतने सादयित्वा शस्त्रप्रायश्चित्तं करोति । अग्नये पथिकृते स्वाहा द्विः । अग्नये पथिकृत इदम् । त्वन्नो अग्ने — मुमुग्ध्यस्मत्स्वाहा ॥ स त्वं नो अग्ने— न एधि स्वाहा ॥ त्वमग्ने अयासि — भेषजꣳ स्वाहा ॥ प्रजापते — रयीणाꣳ स्वाहा ॥ व्याहृतीभिर्विहृताभिस्समस्ताभिश्च हुत्वा ऐन्द्राग्नग्रहमादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते सम्प्रेष्यति उक्थशा यज सोमस्य । वषट्कृतानुवषट्कृते जुहोति । अनुप्रकम्पयन्ति नाराशंसान् वषट्कारानुवषट्कारौ । यजमानः इन्द्राग्निभ्यामिदम् । ऊमेभ्यः पितृभ्य इदम् । अग्नये स्विष्टकृत इदम् । भक्षान् हरन्ति । होतुर्भक्षणानन्तरं पूर्ववद्भक्षयति । नाराशंसान् पूर्ववत् भक्षिताप्यायितान् सादयन्ति । अध्वर्युः प्रक्षालितमृतुपात्रमायतने सादयित्वा ।