०४ वैश्वदेवव्रतम्

एवमेव वैश्वदेवव्रतं प्रजापतिसोमाग्निवर्जं तर्पणं ‘विश्वेभ्यो देवेभ्यः स्वाहा’ ‘आनो विश्वे अस्त्रागमन्तु देवाः’ इति षड्भिः होमः वैश्वदेवव्रतं चरिष्यामि इति भेदः । उत्सर्जने तु व्रतमचारिषमिति ॥

॥ इति प्रयोगचन्द्रिकायां द्वादशः खण्डः ॥