३४ आसादनं, एकादशः प्रयाजः, आज्यभागौ, वपाहवनं च

इदमिन्द्रिय — शृतं मयि श्रयताम् । अयं यज्ञो, ममाग्ने पञ्चहोतेत्यासन्नाभिमर्शनम् । घृतवति शब्दे जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्राविते संप्रेष्यति स्वाहाकृतीभ्यः प्रेष्य वषट्कृते जुहोति । यजमानः - पृथिवी होता । अग्नय इदम् । हेमन्तशिशिरावृतूनां प्रीणामि । अध्वर्युः प्रत्याक्रम्य शेषेण ध्रौवमभिघार्य पृषदाज्यद्वयमभिघारयत्यथ वपाम् । नोपभृतम् । आज्यभागौ यजति । अग्नय आज्यस्याऽनुब्रूहि । अग्नय आज्यस्य प्रेष्य । अग्नय इदम् । अग्निना यज्ञः । सोमायाज्यस्याऽनुब्रूहि । सोमायाज्यस्य प्रेष्य । सोमायेदम् । सोमेन यज्ञः । प्रत्याक्रम्य । स्वाहा देवेभ्यः । देवेभ्य इदम् । पूर्वं परिवप्यं हुत्वा जुह्वामुपस्तीर्य । स्रुवेण हिरण्यशकलमादाय तेनैव कृत्स्नां वपामादाय हिरण्यशकलमुपरिष्टात्कृत्वाभिघारयति । एवं पञ्चावत्ता भवति । चतुरवत्तिनोऽपि पञ्चावत्ततैव स्यात् । अग्नीषोमाभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि । । अग्नीषोमाभ्यां छागस्य वपाया मेदसः प्रेष्य संप्रेष्यति । जातवेदो वपया गच्छ देवान्त्वꣳ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतꣳ हविरदन्तु देवास्स्वाहा वषट्कृते जुहोति । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा । प्रत्याक्रम्य । देवेभ्यस्स्वाहा । देवेभ्य इदम् । उत्तरं परिवप्यं हुत्वा वपोद्धरणमभिघारयत्युत्तरतस्तिष्ठन् । स्वाहोर्ध्वनभसं मारुतं गच्छतम् प्रतिपस्थाताऽहवनीये वपाश्रपणीं प्राचीं द्विशूलां प्रतीचीमेकशूलां कृत्वा प्रहरति । ऊर्ध्वनभसे मारुतायेदम् । अथैने अध्वर्युस्संस्रावेणाभि जुहोति स्वाहा । प्रजापतय इदम् । प्रस्तरादन्यत्र स्रुचोस्सादनम् ।