विष्णुर् योनिम्

०१ विष्णुर्योनिङ्कल्पयतु त्वष्टा ...{Loading}...

०१ विष्णुर्योनिं कल्पयतु ...{Loading}...

विष्णु॒र् योनि॑ङ् कल्पयतु॒
त्वष्टा॑ रू॒पाणि॑ पिꣳशतु ।
आसि॑ञ्चतु प्र॒जाप॑तिर्
धा॒ता गर्भं॑ दधातु ते ।

०२ गर्भन्धेहि सिनीवालि ...{Loading}...

०२ गर्भं धेहि ...{Loading}...

गर्भ॑न् धेहि सिनीवालि॒
गर्भ॑न् धेहि सरस्वति ।
गर्भ॑न् ते अ॒श्विनौ॑ दे॒वव्
आ ध॑त्तां॒ पुष्क॑रस्रजा ।

०३ हिरण्ययी अरणी ...{Loading}...

०३ हिरण्ययी अरणी ...{Loading}...

हि॒र॒ण्ययी॑ अ॒रणी॒ यन्
नि॒र्मन्थ॑तो अ॒श्विना॑ ।
तन् ते॒ गर्भꣳ॑ हवामहे
दश॒मे मा॒सि सूत॑वे ।

०४ यथेयम् पृथिवी ...{Loading}...

यथे॒यं पृ॑थि॒वी म॒ही
तिष्ठ॑न्ती॒ गर्भ॑म् आद॒धे ।
ए॒वन् त्वं गर्भ॒म् आ ध॑त्स्व
दश॒मे मा॒सि सूत॑वे ।

०५ यथा पृथिव्यग्निगर्भा ...{Loading}...

यथा॑ पृथि॒व्य् अ॑ग्निग॑र्भा॒
द्यौर् यथेन्द्रे॑ण ग॒र्भिणी॑ ।
वा॒युर् यथा॑ दि॒शां गर्भ॑
ए॒वं गर्भं॑ दधामि ते ।

०६ विष्णो श्रेष्ठेन ...{Loading}...

विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒+
ऽऽस्यान् नार्यां॑ गवी॒न्या॑म् +++(=कमनीयायाम्)+++ ।
पुमाꣳ॑सं॒ गर्भ॒म् आ धे॑हि
दश॒मे मा॒सि सूत॑वे ।

०७ नेजमेष परा ...{Loading}...

नेज॑मेष॒ परा॑ पत॒
सुपु॑त्रः॒ पुन॒र् आ प॑त ।
अ॒स्यै मे पु॒त्रका॑मायै॒
गर्भ॒म् आ धे॑हि॒ यः पुमा॑न् ।

०८ व्यस्य योनिम् ...{Loading}...

व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒
पुमा॑न् पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः ।
तं मा॒ता द॑श॒मासो॑ बिभर्तु॒
स जा॑यतां वी॒रत॑म॒स् स्वाना॑म् ।

०९ आ ते ...{Loading}...

आ ते॒ गर्भो॒ योनि॑म् एतु॒
पुमा॒न् बाण॑ इवेषु॒धिम् ।
आ वी॒रो जा॑यतां
पु॒त्रस् ते॑ दश॒मास्यः॑ ॥

०१ करोमि ते ...{Loading}...

क॒रोमि॑ ते प्राजाप॒त्यम्
आ गर्भो॒ योनि॑म् एतु ते ।
अनू॑नः पू॒र्णो जा॑यता॒म्
अश्लो॒णो ऽपि॑शाचधीतः ।

०२ पुमांस्ते पुत्रो ...{Loading}...

पुमाꣳ॑स् ते पु॒त्रो ना॑रि॒ तं
पुमा॒न् अनु॑ जायताम् ।
तानि॑ भ॒द्राणि॒ बीजा॑न्य्
ऋष॒भा ज॑नयन्तु नौ ।

०३ यानि भद्राणि ...{Loading}...

यानि॑ भ॒द्राणि॒ बीजा॑न्य्
ऋष॒भा ज॑नय॒न्ति नः॑ ।
तैस् त्वं पु॒त्रान् वि॑न्दस्व॒
सा प्र॒सूर् धे॑नु॒का भ॑व ।

०४ काम प्रमृद्ध्यताम् ...{Loading}...

काम॒ प्रमृ॑द्ध्यतां॒ मह्य॒म्
अप॑राजितम् ए॒व मे॑ ।
यं कामं॑ का॒मये॑ देव॒
तं मे॑ वायो॒ सम॑र्द्धय ।