०४ हविर्धानप्रवर्तनम्

प्रथमायां त्रिरनूक्तायां प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतम् ऊर्ध्वमुद्गृह्णन्तः प्रवर्तयन्ति अध्वर्युब्रह्मयजमानप्रतिप्रस्थातारः । सुवाग्देव दुर्याꣳ आ वद देवश्रुतौ देवेष्वाघोषेथाम् अक्षशब्दमनुमन्त्रयते । प्रतिप्रस्थाता च स्वाक्षशब्दम् । अध्वर्युः - दक्षिणस्य हविर्धानस्य दक्षिणे वर्त्मनि वर्त्मनोर्वा हिरण्यं निधाय इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे स्वाहा हिरण्ये जुहोति । विष्णव इदम् । एवमुत्तरस्य प्रतिप्रस्थाता इरावती धेनुमती हि भूतꣳ सूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैस्स्वाहा हिरण्ये जुहोति । विष्णव इदम् । अध्वर्युः :- अपजन्यं भयं नुदापचक्राणि वर्तय । गृहꣳ सोमस्य गच्छतम् वेद्या वितृतीयदेशे पदापनुदति । लोष्टं वा बहिर्वेदि निरस्यति । आहवनीयात्त्रीन् प्रतीचः प्रक्रमानुच्छिष्य । अत्र रमेथां वर्ष्मन् पृथिव्याः उभे शकटे नभ्यस्थे १ स्थापयतः । वैष्णवमसि विष्णुस्त्वोत्तभ्नातु उपस्तम्भनमुभयोः । दिवो वा विष्णुवुत वा पृथिव्या महो वा विष्णवुत वान्तरिक्षाद्धस्तौ पृणस्व बहुभिर्वसव्यैरा प्रयच्छ दक्षिणादोत सव्यात् अध्वर्युः दक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दमनु मेथीं निहन्ति । तस्यामीषां निनह्यति । एवमुत्तरस्य प्रतिप्रस्थाता । विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं वि चक्रमाणस्त्रेधोरुगायः उत्तरं कर्णातर्दमनु मेथीं निहन्ति । तस्यामीषां निनह्यति । ऊर्ध्वाश्शम्या उद्वृह्य उपरिष्टात्परिवेष्टयन्ति ।