१५ 'नमो अस्तु सर्पेभ्य'

‘नमो अस्तु सर्पेभ्य’ इति चतस्रः,

०५ नमो अस्तु ...{Loading}...

नमो॑ अस्तु स॒र्पेभ्यो॑
ये के च पृथि॒वीम् अनु॑।
ये अ॒न्तरि॑क्षे दि॒वि
तेभ्य॑स् स॒र्पेभ्यो॒ नमः॑॥

०६ येऽदो रोचने ...{Loading}...

ये॑ऽदो, रो॑च॒ने दि॒वो,
ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म् अ॒प्सु सदः॑ कृ॒तं
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

०७ या इषवो ...{Loading}...

या इष॑वो यातु॒धाना॑नां॒
ये वा॒ वन॒स्पती॒ꣳ॒र् अनु॑ ।
ये वा॑ऽव॒टेषु॒+++(→बिलेषु)+++ शेर॑ते॒
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥