नाम

उचितनामानि

स्त्रियां

०३ १३ नक्षत्रनामा नदीनामा ...{Loading}...

नक्षत्र-नामा नदी-नामा वृक्ष-नामा च गर्हिताः १३

सर्वाश्च रेफलकारोपान्ता +++(=गौरी शालीत्याद्या)+++ वरणे परिवर्जयेत् १४ …

१५ ११ अयुजाक्षरङ् कुमार्याः ...{Loading}...

अयुजाक्षरं कुमार्याः ११

पुंसि

१५ ०९ द्व्यक्षरञ् चतुरक्षरम् ...{Loading}...

द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं +++(=क्विबन्तोत्तरम्)+++ दीर्घाभिनिष्ठानान्तं +++(=दीर्घात्परोऽभिनिष्ठानो विसर्जनीयोऽन्ते यस्य तत्)+++ घोषवदाद्यन्तरन्तस्थम् +++(यरलवा अन्तस्थाः।)+++
+++(हरदत्तोदाहरणानि - गाः श्रयते इति गोश्रिः । गां प्रीणतीति गोप्रीः । हिरण्यः ददातीति हिरण्यदाः भूरिदाः हरदत्त इत्यादीन्युदाहरणानि ।
सुदर्शनसूर्युदाहरणानि - द्व्यक्षरस्योदाहरणं - वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि । चतुरक्षरस्य तु भाष्योक्तं “द्रविणोदाः वरिवोदाः” इति । एतद्द्वयमपि छान्दसम् । अन्यदपि हिरण्यदा युवतिदाइत्यादि ॥)+++ ९

१५ १० अपि वा ...{Loading}...

अपि वा यस्मिन्स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् +++(सुभद्रस्सुमुख इत्याद्युदाहरणम् । सुजातः सुदर्शन इत्यादि ।)+++ १०

कालः

१५ ०८ दशम्यामुत्थितायां स्नातायाम् ...{Loading}...

दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ८

विधिः

+++(भर्तुश्च नापितकर्म । … तत्र प्रयोगः शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेदिति (आप.ध.२१५११) ब्राह्मणान् भोजयित्वा पिता माता च नामाग्रे ऽभिव्याहृत्य +आशीर्वचनं ब्राह्मणैरभिव्याहारयेताम् । अमुष्मै स्वस्तीति कल्पान्तरे दर्शनात् ।)+++ तद्रहस्यं भवति ॥ +++(सूक्र्तवाकाभिवादनादिष्वपि! नामकरणे दत्ते नाम्न्यप्य् अन्वेति सूत्रमिदमिति सुदर्शनसूरिः, आचारेऽपि। लौकिकं नाम भिन्नम् भवति।)+++