+१५ स्नानकर्म

स्नानकर्म करिष्यमाणः सूर्योदयात् पूर्वं व्रजं प्रविश्यान्तर्लोम्ना चर्मणा व्रजद्वारं प्रच्छाद्यासायं तत्रैव वसेत् अस्मिन्नहनि बहिरातपे न निर्गच्छेत् । प्राणानायम्य, मध्यन्दिने स्नानकर्म करिष्य इति सङ्कल्प्य, अग्निप्रतिष्ठादिपात्रसादनान्ते पालाशीं समिधं कटं क्षुरं शीतमुष्णं च जलं यवान् शकृत् दर्भान् औदुम्बरं दन्तकाष्ठं स्नानीयं नववस्त्रद्वयम् उपवीतद्वयं चन्दनं सोपधानं सूत्रप्रोतं मणिं बादरमणिं कुण्डलद्वयं स्रजमञ्जनमादर्शमुपानहौ छत्रं दण्डं च सादयित्वा,

[[100]]

आज्याभागान्ते पालाशीं समिधमाज्याभ्यक्ताम्

इमँ स्तोममर्हते जातवेदसे रथमिव सं महे मा मनीषया ।
भद्रा हि नः प्रमतिरस्यसँ सद्यग्ने सख्ये मारिषामा वयं तव

इत्यग्नावाधाय, अग्नेः पश्चात् कट एरकायां वा उपविश्य,

त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।
यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् ।

इति क्षुरमभिमन्त्र्य,

शिवो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा माहिँप्सीः

इति क्षुरं कस्मैचिन्मन्त्रविदे ब्राह्मणाय प्रयच्छेत् । स मन्त्रवित् “उष्णेन वायवुदकेनेह्यदितिः केशान् वपतु” इत्यादिकेशनिधानपर्यन्तं चौलवद्दिग्वपनं करोति । नापितेन सर्वाङ्गवपनं कारयित्वा, स्नात्वा व्रजस्य पश्चार्धे उपविश्य, मौञ्जीं विसृज्य, ब्रह्मचारिणे प्रयच्छेत् । ब्रह्मचारी तां मौञ्जीम्

इदमहं यज्ञशर्मणो गार्ग्यायणस्य पाप्मानमपगूहाम्युत्तरो यज्ञशर्मा द्विषद्भ्यः ।

अनेन मन्त्रेणोदुम्बरमूले दर्भस्तम्बेवोपगूहति ।

एवम् अमन्त्रेकेण+++(=??)+++ कृष्णाजिनदण्डौ चाफ्सु प्रास्येत् ।

आपोहिष्ठामयोभुव इति तिसृभिः, “हिरण्यवर्णाः शुचयः पावकाः” इति तिसृभिः, शीतोष्णाभिरद्भिः स्नात्वा, “अन्नाद्याय व्यूहध्वं दीर्घायुरहमन्नादो भूयासम्” इत्यौदुम्बरेण दन्तकाष्ठेन प्रदक्षिणं दन्तधावनं कृत्वा, धात्रीपिष्टादिना स्नानीयेन देहं शिरश्चानुलिप्य, स्नात्वा ।

“सोमस्य तनूरसि तनुवं मे पाहि स्वा मा तनूराविश” इति अहतमन्तवासः परिधाय, द्विराचम्य, उपवीतद्वयं धृत्वा,

नमो ग्रहाय चाभिग्रहाय च नमश्शाकजंजभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः

इति कस्तूरिकाभिर्गन्धद्रव्यैः वासितं चन्दनं देवताभ्यः प्रदाय

अफ्सरस्सु यो गन्धो गन्धर्वेषु च यद्यशः ।
दैवो यो मानुषे गन्धस्समा गन्धस्सुरभिर्जुषताम् ।

इति गन्धेनात्मानमनुलिप्य वज्रवैडूर्यादिनोभयतः परिगृहीतं सूत्रप्रोतं सौवर्णं मणिं

इयमोषधे त्रायमाणा सहमाना सहस्वति ।
सा मा हिरण्यवर्चसं ब्रह्मवर्चसिनं मा करोतु

इत्युदपात्रे त्रिः प्रदक्षिणमावृत्य,

[[101]]

अपाशोस्युरो मे मा सँशारीश्शिवो मोपतिष्ठस्व दीर्घायुत्वाय शतशारदाय शतशरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय

इति कण्ठे तं मणिमाबध्य, सूत्रप्रोतं बादरं मणिं पूर्ववत् तूष्णीमुदपात्रे त्रिरावृत्य, सव्ये पाणावाबध्नीयात्, अथ मन्त्रवित् कश्चित् ब्राह्मणः

रेवतीस्त्वा व्यक्ष्णन् कृत्तिकाश्चाकृन्तँस्त्वा ।
धियो वयन्नवग्ना आवृञ्जन्थ्सहस्रमन्ताँ अभितो अयच्छन् ।
देवीर्देवाय परिधी सवित्रे । महत्तदासामभवन्महित्वनम्

इति द्वाभ्यां नवं वस्त्रमभिमन्त्र्य,

या अकृन्तन् अवयन् या अतन्वत याश्च देवीरन्तानभितोऽददन्त ।
तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः ।
परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः ।
बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ।
जरां गच्छासि परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा ।
शतं च जीव शरदस्सुवर्चा रायश्च पोषमुपसंव्ययस्व

इति तिसृभिरुत्तरीयं धारयित्वा, धृतोत्तरीयं तं

परीदं वासो अधिधास्स्वस्तये भूरापीनामभिशस्तिपावा ।
शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन्

इत्यनुमन्त्रयेत् । अथोत्तरीयस्य दशायां कुण्डले बध्वा, ते दर्व्याम् अग्रे स्थापयित्वा, सव्येन हस्तेन तयोरुपरि आज्यमानीय तेनाज्येन “आयुष्यं वर्चस्य"मित्याद्यष्टाहुतीः प्रतिमन्त्रं जुहोति ।

आयुष्यं वर्चस्यँ सुवीर्यँरायस्पोषमौद्भिद्यम् ।
इदँहिरण्यं जैत्र्या या विशतान्मां स्वाहा - हिरण्यायेदम् ।
उच्चैर्वादि पृतनाजि सत्रासाहं धनञ्जयम् ।
सर्वास्समृद्धीर्ऋद्धयो हिरण्येऽस्मिन्थ्समाहिताः स्वाहा - हिरण्यायेदम् ।
शुनमहँ हिरण्यस्य पितुरिव नामाग्रभैषम् ।
तं मा हिरण्यवर्चसं पूरुषुप्रियं कुरु स्वाहा - हिरण्यायेदम् ।
प्रियं मा देवेषु कुरु प्रियं मा ब्रह्मणे कुरु ।
प्रियं विश्येषु शूद्रेषु प्रियँराजसु मा कुरु स्वाहा - हिरण्यायेदम् ।
यातिरश्ची निपद्यसेऽहं विधरणी इति ।
तान्त्वाघृतस्य धारया यजे सँराधनीमहँ स्वाहा - सँराधन्या इदम् ।

[[102]]

सँराधन्यै देव्यै स्वाहा - सँराधन्या इदम् ।
प्रसाधन्यै देव्यै स्वाहा - प्रसाधन्या इदम् ।
सम्राजं च विराजञ्चाभिश्रीर्या च नो गृहे ।
लक्ष्मीराष्ट्रस्या या मुखे तया मा सँसृजामसि स्वाहा - लक्ष्म्या इदम् ।

कुण्डले अपनीय, जयाद्यग्न्युपस्थानान्तं कृत्वा, आयुष्यं वर्चस्यमित्यष्टाभिरेव दक्षिणे कर्णे, पुनश्च ताभिरेव सव्ये कर्णे क्रमेण कुण्डले धृत्वा,

शुभिके शिर आरोह शोभयन्ती मुखं मम ।
मुखँ हि मम शोभय भूयाँसञ्च भगं कुरु ।
यामाहरज्जमदग्निः श्रद्धायै कामायान्यै ।
इमान्तामपिनह्येहंभगेन सह वर्चसा

इति द्वाभ्यां शिरसि स्रजमाबद्ध्य,

यदाञ्जनं त्रैककुदं जातँहिमवत उपरि ।
तेन वामाञ्जे तेजसे वर्चसे भगाय च ।
मयि पर्वत पूरूषं मयि पर्वत वर्चसं मयि पर्वत भेषजं मयि पर्वतायुषम् ।
यन्मे वर्चः परागतमात्मानमुपतिष्ठति

इति द्वाभ्याम् अक्ष्णोः युगपदञ्जनं धृत्वा, “इदन्तत्पुनराददे दीर्घायुत्वाय वर्चसे" इत्यादर्शमवेक्ष्य, “प्रतिष्ठेस्थो देवतानां मा मा सन्ताप्तम्" इत्युपानहौ युगपद्धृत्वा, तूष्णीं छत्रमादाय,

प्रजापतेश्शरणमसि ब्रह्मणश्छदिर्विश्वजनस्य छायासि सर्वतो मा पाहि

इत्यात्मानमाच्छाद्य,

देवस्य त्वा सवितुःप्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे द्विषतो वधायेन्द्रस्य वज्रोऽसि वार्त्रघ्नश्शर्म मे भव यत्पापं तन्निवारय

इति शिरः प्रमाणमृजुं सत्वचम् असुषिरं युग्मपर्वयुक्तं सकल्माषं काकपृष्ठरहितं वैणवं दण्डमादाय, आनक्षत्रोदयान्मौनी भूत्वा, उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य,

देवीष्षडुर्वीरुरुणः कृणोत विश्वे देवास इह वीरयध्वम्

इति प्रागाद्यधरान्ताः षड्दिश उपस्थाय,

माहास्महि प्रजया मा तनूभिर्मारधाम द्विषते सोमराजन्

इति नक्षत्राणि चन्द्रमसं च युगपदुपस्थाय, अभ्युदयं पुण्याहं च कृत्वा, मित्रेण सहालोच्य, विवाहं सन्न्यासं वा कुर्यात् ।

[[103]]