उपनयनप्रयोगः

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

सू – उपनयनं व्याख्यास्यामो गर्भाष्टमेषु ब्राह्मणमुपनयीत गर्भैकादशेषु राज्यं गर्भद्वादशेषु वैश्यं वसन्तो ग्रीष्मः शरदित्यृतवो वर्णानुपूर्व्येण ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा

उपनयनकर्माङ्गं [[उदकशान्तिं][udaka], [अङ्कुरं][ankur], [प्रतिसरं][pratisara], [अभ्युदयं][nandi], [पुण्याहं][punya] च कृत्वा॥

[udaka]:{{ site.baseurl }}{% link prayoga/ratna/udaka_shanti.md %} [ankur]:{{ site.baseurl }}{% link prayoga/ratna/ankurarpana.md %} [pratisara]:{{ site.baseurl }}{% link prayoga/ratna/pratisarabandha.md %} [nandi]:{{ site.baseurl }}{% link prayoga/ratna/nandi.md %} [punya]:{{ site.baseurl }}{% link prayoga/ratna/punyahavachana.md %}

नक्षत्रे राशौ जातं शर्माणमिमं मम कुमारमुपनेष्ये॥ यज्ञोपवीतशुद्ध्यर्थं पुण्याहवाचनं करिष्ये॥ पुण्याहं कृत्वा, तत्तीर्थेन यज्ञोपवीतं कुर्मारं च प्रोक्ष्यानुज्ञां कुर्यात्॥

अशेषे + स्वीकृत्य, नक्षत्रे + मम कुमारस्य श्रौतस्मार्तविहितनित्यकर्मानुष्ठानयोग्यतासिद्ध्यर्थं ब्रह्मतेजोऽभिवृद्ध्यर्थं यज्ञोपवीतधारणं कर्तुं योग्यतासिद्धिमनुगृहाण॥

सङ्कल्पः

नक्षत्रे राशौ + मम कुमारस्य श्रौतस्मार्त + वृद्ध्यर्थं मम कुमारेण यज्ञोपवीतं धारयिष्ये॥ ग्रहप्रीतिं कृत्वा॥ कुमारं तुष्णीं आचमनं कारयित्वा॥

यज्ञोपवीतधारणमहामन्त्रस्य परब्रह्म ऋषिः, त्रिष्टुप्छन्दः, परमात्मा देवता, यज्ञोपवीतधारणे विनियोगः।

आचार्यः कुमारसहिताभ्यां स्वकराभ्यां यज्ञोपवीतं धृत्वा॥ तन्मन्त्रं कुमारं वाचयन्नेव यज्ञोपवीतं धारयेत्।

य॒ज्ञो॒प॒वी॒तं प॑र॒मं प॒वित्रं॑ प्र॒जाप॑ते॒र्यत्स॑ह॒जं पु॒रस्ता॑॑त्। आ॒यु॒ष्य॑म॒ग्र्यं प्रति॑मुञ्च शु॒भ्रं य॑ज्ञोपवी॒तं बल॑मस्तु॒ तेजः॑॥

इति धारयित्वा पूर्ववत्तूषीमाचमनं कारयेत्॥ यज्ञोपवीतधारणमुहूर्तः सुमुहूर्तोऽस्त्वित्यनुगृह्णन्तु॥

सू – कुमारं भोजयित्वा **

** कुमारं भुक्तिकाले तु गायत्रीं समुदीरयन्। आचार्यः स्वयमेवान्नं प्रोक्षयेदिति शौनकः॥

क्षारलवणवर्जं घृतक्षीरमिश्रमन्नं भोजयेत्॥ द्विराचम्य॥

सू – उष्णेन वायविति यजुषाऽपां संसर्जनाद्याकेशनिधानान्तम्

[चौलवत्कृत्वा][chaula]॥

[chaula]:{{ site.baseurl }}{% link prayoga/ratna/chaula.md %}

सू – स्नातमग्नेरुपसमाधानादि

[यत्र क्व चेति विधिना][agni] उल्लिख्य। लौकिकाग्निं प्रतिष्ठाप्य। अग्नेरुपसमाधानादि, पात्रप्रयोगकाले –

[agni]:{{ site.baseurl }}{% link prayoga/ratna/agnimukha.md %}

पात्रप्रयोगे तु कुशाम्बुकूर्चवस्त्राश्मदण्डाजिनमेखलाश्च।
दैव्यानि पात्राणि नियुज्यपश्चाद्युञ्जीत चामूनि सहोपनेता॥

पवित्रकरणाद्याज्यभागान्ते।

सू – पालाशीं समिधमायुर्दा इत्याधाप्य **

** स्वाहाकारो न चायुर्दा इत्यत्र समिदाहुतौ। आधेहीत्येव मन्त्रान्ते वटुमाधापयेद्गुरुः॥

अथ कुमारस्य दक्षिणे हस्ते पालाशीं समिधं प्रदाय तं गृहीत्वा।

आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने। घृ॒तं पिब॑न्न॒मृतं॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रं ज॒रसे॑ नये॒मम्।

आधेहीत्याचार्यः। कुमारः तां प्रक्षिपेत्॥ आयुर्देऽग्नय इदम्॥

सू – उत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति **

** अथोत्थाय कुमारोऽपि स्वाचार्यं तु प्रदक्षिणम्। आगम्योत्तरतस्तिष्ठेदग्निमाचार्यमन्तरा॥

आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्वꣴ स्थि॒रो भ॑व। अ॒भिति॑ष्ठ पृतन्य॒तः सह॑स्व पृतनाय॒तः।

सू – वासः सद्यः कृत्तोतं रेवतीस्त्विति द्वाभ्यामभिमन्त्र्य **

** अश्मनि स्थापितो येन वासोऽपि परिधाय च। मेखलाजिनकर्माणि तस्मिन्नेव तु कारयेत्॥

रे॒वती᳚स्त्वा॒ व्य॑क्ष्ण॒न्कृत्ति॑का॒श्चाकृ॑न्तꣴस्त्वा। धियो॑ऽवय॒न्नव॒ ग्ना अ॑वृञ्जन् स॒हस्र॒मन्ता॑ꣳ अ॒भितो॑ अयच्छन्। दे॒वीर्दे॒वाय॑ परि॒धी स॑वि॒त्रे म॒हत् तदा॑सामभवन्महित्व॒नम्।

सू - या अकृन्तन्निति तिसृभिः परिधाप्य

या अकृ॑न्त॒न्नव॑य॒न् या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त।
तास्त्वा॑ दे॒वीर्ज॒रसे॒ संव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धत्स्व॒ वासः॑।
परि॑धत्त धत्त॒ वास॑सैनꣳ श॒तायु॑षं कृणुत दी॒र्घमायुः॑।
बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑।
ज॒रां ग॑च्छासि॒ परि॑धत्स्व॒ वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा᳚।
श॒तं च॑ जीव श॒रदः॑ सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ संव्य॑यस्व।

सू – परिहितं परीदं वास इत्यनुमन्त्रयेत्

परी॒दं वासो॒ अधि॑धाः स्व॒स्तयेऽभू॑रापी॒नाम॑भिशस्ति॒पावा᳚। श॒तं च॑ जीव श॒रदः॑ पुरू॒चीर्वसू॑नि चा॒र्यो वि॑भजासि॒ जीव॑न्।

सू – मौञ्जीं मे मेखलां त्रिवृतां त्रिः प्रकक्षिणमियं दुरुक्तादिति द्वाभ्यां परिवीय

इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा᳚त्।
प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वाना॑ꣳ सु॒भगा॒ मेख॑ले॒यम्।
ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रक्षः॒ सह॑माना॒ अरा॑तीः।
सा नः॑ सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते॒ मेख॑ले॒ मा रि॑षाम।

नाभिदेशे ग्रन्थिं कृत्वा **

** मौञ्ज्यजिनावस्थापनप्रोक्षणोत्थापनानि तु। समन्त्रमेतान्याचार्यः पूर्वं कृत्वाऽथ वाचयेत्॥

तौ मन्त्रौ कुमारौ वाचयित्वा॥

इयं . . .

सु – अजिनमुत्तरं मित्रस्य चक्षुरिति

मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थ॒विर॒ꣳ समि॑द्धम्। अ॒ना॒ह॒न॒स्यं वस॑नं जरि॒ष्णु परी॒दं वा॒ज्यजिनं॑ दधे॒ऽहम्॥

तं वाचयित्वा

सू – उत्तरेणाग्निं दर्भान् संस्तीर्य तेष्वेनमागन्त्रा समगन्महीत्यवस्थाप्य

आ॒ग॒न्त्रा सम॑गन्महि॒ प्रसु॑ मृ॒त्युं यु॑योतन। अरि॑ष्टाः॒ संच॑रेमहि स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या गृ॒हेभ्यः॑।

इति ** कुमारं प्रत्यङ्मुखमवस्थाप्य, स्वयं प्राङ्मुखस्तिष्ठन्, तं मन्त्रं वाचयित्वा।

आ॒ग॒न्त्रा सम॑गन्महि॒ प्रसु॑ मृ॒त्युं यु॑योतन। अरि॑ष्टाः॒ संच॑रेमहि स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या गृ॒हेभ्यः॑।

सू – उदकाञ्जलिमस्मा अञ्जलावानीय समुद्रादूर्मिरिति त्रिः प्रोक्ष्य

आचार्यस्योदकाञ्जलिं कुमाराञ्जलौ तूष्णीमानीय।

स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ꣳ उदा॑रदुपा॒ꣳशुना॒ सम॑मृत॒त्वम॑श्याम्। इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आय॑न्।

तेन जलेन त्रिः प्रोक्षति। सकृन्मन्त्रेण द्विस्तूष्णीम्॥ तं वाचयित्वा – समुद्राद् . . .

सू – अग्निष्ट इति दशभिर्दक्षिणे हस्ते गृहीत्वा **

** अन्ते तु सर्वमन्त्राणां हस्तग्रहणमिष्यते। देवताभ्यः परीदानं रक्षणाय पृथक् पृथक्॥

अ॒ग्निष्टे॒ हस्त॑मग्रभी॒त्सोम॑स्ते॒ हस्त॑मग्रभीत्सवि॒ता ते॒ हस्त॑मग्रभी॒त्सर॑स्वती ते॒ हस्त॑मग्रभीत्पू॒षा ते॒ हस्त॑मग्रभीदर्य॒मा ते॒ हस्त॑मग्रभी॒दꣳशु॑स्ते॒ हस्त॑मग्रभी॒द्भग॑स्ते॒ हस्त॑मग्रभीन्मि॒त्रस्ते॒ हस्त॑मग्रभीन्मि॒त्रस्त्वम॑सि॒ धर्म॑णा॒ऽग्निरा॑चा॒र्यस्तव॑।

अन्ते कुमारस्य साङ्गुष्ठमुत्तानाम् दक्षिणं हस्तं गृहीत्वा।

सू – अग्नये त्वा परिददामीऽत्येकादशभिः प्रतिमन्त्रं देवताभ्यः परीदाय **

** अनुदात्तं भवेन्मन्त्रं सम्भुध्यन्तमसौ पदम्। उदात्तः प्रथमान्तस्तु नयेऽसाविति वर्जयेत्॥

अग्न॒ये त्वा॒ परि॑ददामि नारायण शर्मन्। ॰ पृ॒थि॒व्यै त्वा॒ सवैश्वान॒रायै॒ परि॑ददामि नारायणशर्मन्।

सू – देवस्य त्वेति यजुषोपनीय

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व उप॑नये॒ नारायण शर्मन्। इत्यात्मसमीपमानीय।

सू – सुप्रजा इति दक्षिणे कर्णे जपति

सु॒प्र॒जाः प्र॒जया॑ भूयाः सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः॑॑।

सू – ब्रह्मचर्यमागामिति कुमार आह

ब्र॒ह्म॒चर्य॒मागा॒मुप॒मा न॑यस्व दे॒वेन॑ सवि॒त्रा प्रसू॑तः॥ इति कुमार उच्चैर्ब्रूयात्।

सू – को नामासीति पृष्ठं परस्य

को नामासि॥ इत्याचार्यः।

सू – असौ नामास्मीति प्रतिवचनं कुमारस्य

नारायणशर्मा नामास्मि॥ इति कुमारः।

सू – अस्य ब्रह्मचार्यस्य साविति पृष्ठं परस्य

कस्य॑ ब्रह्मचा॒र्य॑सि नारायणशर्मन्॥ इत्याचार्यः।

सू – प्राणस्य ब्रह्मचार्यस्मीति प्रतिवचनं कुमारस्य

प्रा॒णस्य॑ ब्रह्मचा॒र्य॑स्मि। इति कुमारः।

सू – असावेषत इति सञ्चरासावित्यन्तं परो जपति॥

नारायणायण शर्मै॒ष ते॑ देव सूर्य ॰ ता स्व॒स्तिमनु॒सञ्च॑र नारायणशर्मन्॥ इत्याचार्यो जपित्वा।

सू – अध्वनामिति प्रत्यगाशिषं चैनं वाचयति **

** प्रत्यगाशिषमन्त्राणां भवेद्वाचनमेव च।

अध्व॑नामध्वपते॒ श्रेष्ठ॒स्याध्व॑नः पा॒रम॑शीय॥

सू – उक्तमाज्यभागान्तमत्रैनं योगे योगे तवस्तरमिति प्रतिमन्त्रमेका दशाहुतीर्हावयित्वा

** योगादीन्वाचयन्नेव कुमारं हावयेत्खलु। द्वितीयचतुर्थौ ब्रूयादाचार्यो जुहुयाद्वटुः॥

कुमुरस्य हस्तं गृहीत्वा, योगे॑ योगे ॰ इन्द्र॑मू॒र्तये॒ स्वाहा॥ इन्द्रायेदम्।

इ॒मम॑ग्न॒ आयु॑षे॒ ॰ यथाऽस॒त् स्वाहा॥ अग्निवरुणसोमादितिभ्यो विश्वेभ्यो देवेभ्य इदम्।

श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना᳚म्। पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तो॒ स्वाहा॥ देवेभ्य इदम्।

आ॒ग्निष्ट॒ आयु॑ प्रत॒रां द॑धात्व॒ग्निष्टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु। इन्द्रो॑ म॒रुद्भि॑रृतु॒धा कृ॑णोत्वादि॒त्यैस्ते॒ वसु॑भि॒रा द॑धातु॒ स्वाहा॥ अग्नीन्द्रमरुदादित्यवसुभ्य इदम्।

मे॒धां मह्य॒मङ्गि॑रसो मे॒धाꣳ स॑प्त॒र्षयो॑ ददुः। मे॒धां मह्यं॑ प्र॒जाप॑तिर्मे॒धाम॒ग्निर्द॑दातु मे॒ स्वाहा॥ अङ्गिरोभ्यस्सप्तर्षिभ्यः प्रजापतयेऽग्नय इदम्।

अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यद्यश॑। दैवी॒ या मा॑नु॒षी मे॒धा सा मामावि॑शतादिह॒ स्वाहा॥ मेधायशोभ्यामिदम्।

इ॒मं मे॑ वरुण ॰ आच॑के॒ स्वाहा॑॑॥ वरुणायेदम्।

तत्त्वा॑यामि॒ ॰ प्रमो॑षीः॒ स्वाहा॑॑॥ वरुणायेदम्।

त्वन्नो॑ अग्ने॒ ॰ प्रमु॑मुग्ध्य॒स्मत् स्वाहा॥ अग्नीवरुणाभ्यामिदम्।

स त्वन्नो॑ ॰ एधि॒ स्वाहा॑॑॥ अग्नीवरुणाभामिदम्।

त्वम॑ग्ने भेष॒ज स्वाहा॑॑॥ अग्नयेऽयस इदम्।

सू – जयादिप्रतिपद्यते

शम्या अपोह्य, ** अस्य मम कुमारस्य उपनयनहोमकर्मणि यजुर्भ्रेष(?)प्रायश्चित्तं करिष्ये। भुवः स्वाहा। वायव इदम्॥

** यत्कर्मणि ब्राह्मणशब्द उक्तो भ्रेषोऽस्तिचेत्तत्र तथोपनीतौ। तत्कर्मवह्नौ भुव आहुतिः स्याद्भवेदनाज्ञातविधिर्द्वयं वा॥

अनाज्ञातमित्यादिपरिषेचनान्तं प्रणीताविमोकञ्च कृत्वा,

अथ ब्रह्मोपदेशः। अनुज्ञा। नमः॒ सद॑से॒ ॰ नमः॑ पृथि॒व्यै।

अशेषे हे परिषत् भवत्पादमूले मया समर्पितां इमां सौवर्णीं यत्किंचिद्दक्षिणां यथोक्तदक्षिणामिव स्वीकृत्य।

(अमुक)नक्षत्रे (अमुक)राशौ जातस्य (अमुक)शर्मणोऽस्य मम कुमारस्य जन्मप्रभृत्येतत्क्षणपर्यन्तं बाल्ये वयसि अज्ञानतः पित्राद्युपेक्षया सवर्णावर्णधात्री जनयित्राद्यनेकपरिपालिनीजनस्तन्यपानसहभो जनोच्छिष्टभोजनापाङ्केयभोजन सजातीय विजातीय निवासादिसंस्पर्शनतत्तत् कालशौचाभाव प्रभृतीनां सर्वेषां पापानां सद्यः अपनोदनद्वाराऽस्य मम कुमारस्य गायत्रीस्वीकरणे मम च गायत्रीं उपदेष्टुं योग्यता सिद्धिं अनुगृहाण॥

अस्य मम कुमारस्य ब्रह्मोपदेशमुहूर्तलग्नापेक्षया आदित्यादीनां नवानां ग्रहाणामानुकूल्यसिध्यर्थं यत्किञ्चिद्धिरण्यदानं करिष्ये। ग्रहप्रीतिं कृत्वा

सू – अपरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन् शाष्ट्रभृदसीति यजुषोपनेतोपविशति

कूर्च इति शिष्यः॥ सुकूर्च इत्याचार्यस्तं प्रतिगृह्य अपरेणाग्निमुदगग्रं निधाय तस्मिन्नुपविशेत्॥ रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षम्।

अथ कुमारो दर्भेषु प्रत्यङ्मुख उपविश्य, आचार्यपादौ प्रक्षाल्य, गन्धादिभिरलङ्कृत्य, सुवर्णपुष्पं समर्प्य।

सू – पुरस्तात्प्रत्यङ्गासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याह सावित्रीं भो! अनुब्रूहि

सावित्रीं भो! अनुब्रूहि इति प्रार्थयेत्।

सू – तस्मा अन्वाह तथ्सवितुरिति, पच्छोऽर्द्धर्चशस्ततः सर्वां, व्याहृतीर्विहृताः पादादिष्वन्तेषु वातथाऽर्द्धर्चयोरुत्तमां कृत्स्नायाम्

ब्रह्मोपदेशक्रमः॥

ॐ भूः, तत्स॑वि॒तुर्वरे॑॑ण्यम्।
ॐ भुवः॑, भर्गो॑ दे॒वस्य॑ धीमहि।
ओꣴ सुवः॑, धियो॒ यो नः॑ प्रचो॒दया॑॑त्।

ॐ भूः, तत्स॑वि॒तुर्वरे॑॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि।
ॐ भुवः॑, धियो॒ यो नः॑ प्रचो॒दया॑॑त्। ओꣴ सुवः॑, तत्स॑वि॒तुर्वरे॑॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि धियो॒ यो नः॑ प्रचो॒दया॑॑त्।

इति कुमारस्य दक्षिणे कर्णे जपित्वा। तथैव तं वाचयित्वा। ॐ भूः, तत्स॑वि॒तुर्वरे॑॑ण्यं॒ ॰॰॰ दयात्। ब्रह्मोपदेशमुहूर्तः सुमुहूर्तेऽस्त्वित्यनुगृह्णन्तु।

सू – कुमारोऽवृधमिति मन्त्रेणोत्तरमोष्ठमुपस्पृशते **

** ओष्ठश्यावान्तपर्यन्तं स्पृश्यतेऽवृधमित्यथ। आचामेन्नेह नामास्ति कराभ्यां युगपच्छ्रुती॥

अवृ॑धम॒सौ सौ᳚म्य प्रा॒ण स्वं मे॑ गोपाय॥ उत्तरमोष्ठमुपस्पृश्य, आचम्य।

सू – कर्णौ ब्रह्मण आणीस्थ इति **

** ब्रह्म॑ण आ॒णी स्थः॑॥

सू – दण्डं सुश्रव इत्यादत्ते पालाशोदण्डो ब्राह्मणस्य, नैय्यग्रोधस्कन्धजोऽवादग्रो राजन्यस्य, बादर औदुम्बरो वा वैश्यस्य, वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति

सु॒श्रवं॑ सु॒श्रव॑सं मा कुरु॒ ॰ निधिगो॒पो भू॑यासम्॥

सू – स्मृतञ्च म इति सर्वव्रतो भूयासं इत्यन्त वाचयित्वा॥

स्मृ॒तं च॒ मेऽस्मृ॑तं च मे॒ ॰ तेना॒हꣳ सर्व॑व्रतो भूयासम्॥

सू – गुरवे वरं दत्वा॥

(हे) गुरो! वरं ते ददामि। * प्रति गृह्णामि इति प्रतिगृह्य। ** अथ ब्रह्मोद्वासनम्॥ ब्रह्मन्! वरं ते ददामि।

  • यत्तु प्रयोगान्तरे सावित्रादिप्रतिग्रहमन्त्राः उक्ताः। तदसाधु, देवावै वरुणमयाजयन्निति लिङ्गात्। यागीयप्रतिग्रह एव प्रतिग्रहमन्त्रजप इति॥ ** उपनीतौ विशेषेण तिष्ठेद्ब्रह्मोपदेशतः।तत्सन्निधौ च गायत्रीमुक्त्वा पश्चाद्विसर्जयेत्॥

सू – उदायुषेत्युत्थाप्य

उदायु॑षा ॰ अनु॑॥ कुमारमुत्थाप्य, तद्वाचयेत्। उदायु॑षा ॰॰॰ अनु॑।

सू – तच्चक्षुरिति दशभिरादित्यमुपतिष्ठते

तच्चक्षु॑र्दे॒वहि॑तं ॰ सुर्यं॑ दृ॒शे॥ इत्याचार्यवाचितैरादित्यमुपतिष्ठेत्।

सू – यं कामयेत नायमच्छिद्येतेति तं यस्मिन् भूतञ्च भव्यन्तेति दक्षिणे हस्ते गृह्णीयात्

यस्मि॑न्भू॒तं ॰ मह्यं॑ गृह्णामि नारायणशर्मन्॥

** सू – त्र्यहमेतमग्निं धारयन्ति क्षारलवणपर्जनञ्च, परित्वेति परिमृज्य, तस्मिन्नग्नये समिधमिति द्वादशभिर्मन्त्रैः समिध आदध्यात्

** यावद्ब्रह्मोपदेशस्तु तावद्दक्षिणतो वटुः। औपनाय निकेशेषेकर्मण्युत्तरतो वटुः॥

कुमारः प्राणानायम्य, ममोपात्त ॰॰॰ प्रीत्यर्थं, (प्रातः) समिध आधास्ये। अग्निमिध्वा, प्रज्वाल्य।

परि॑त्वाऽग्ने॒ ॰ ब्रह्मचा॒रिभि॑॥ इत्यग्निं परिसमुह्य, ततः समन्तं प्रदक्षिणं तूष्णीं परिषिच्य।

अथ समिध आदधाति – अ॒ग्नये॑ स॒मिध॒माहा॑र्षं ॰ सर्व॑व्रतो भूयास॒ꣳ स्वाहा।

  • अथ तूष्णीं परिसमुह्य, तूष्णीं समन्तं परिषिच्य। स्वाहा। उपस्थानं करिष्ये।
  • यत्तु। पुस्तकान्तरे, भूरादिचत्वारो मन्त्राः अधिकं लिखितः। तत्, उत्तरैर्मन्त्रैरित्यत्र अग्नये समिधमित्यादिभिः द्वादशभिर्मन्त्रैरिति संख्यायाः इयत्ता परिगणितत्वेन उपेक्ष्यं, अविहितहोमस्य निष्छलत्वात्।

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं व॑र्च॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ हर॒स्तेना॒ह ह॑र॒स्वी भू॑यासम्॥ मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु॥

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

अभिवादये। नमस्कारः। म ान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः। वी॒रान्मा नो॑ रुद्रभामि॒तो व॑धीर् ह॒विष्म॑न्तो॒ नम॑सा विधेम ते॥

मेधावी भूयासम्। तेजस्वी भूयासम्। वर्चस्वी भूयासम्। ब्रह्मवर्चसी भूयासम्। आयुष्मान् भूयासम्। अन्नादो भूयासम्। स्वस्ति भूयासम्। *

  • ललाटे हृदये दक्षिणभुजे वामभुजे नाभौ कण्ठे शिरसि इति तत्ततङ्गेषु रक्षां धृत्वा।

स्वस्तिश्रद्धायशःप्रज्ञां विद्यां बुद्धिं श्रियं बलम्। आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन। आचमनं कुर्यात्।

सू – ब्रह्मचार्यसीति संशास्ति॥

आचार्यः, ब्र॒ह्म॒चा॒र्य॑सि। कुमारः, बाढम्॥

आ॰, अपो॑ऽशान। कु॰, बाढम्॥

आ॰, कर्म॑ कुरु। कु॰, बाढम्॥

आ॰, मा सुषु॑प्थाः। कु॰, बाढम्॥

आ॰, भि॒क्षा॒च॒र्यं॑ चर। कु॰, बाढम्॥

आ॰, आ॒चा॒र्या॒धी॒नो भ॑व। कु॰, बाढम्॥

मातरमेवाग्रे भिक्षेत भगिनीं वा॥ ** मातरमेवाग्रे भिक्षस्व इति कुमारं प्रेषयेत्। अथ कुमारो मातरमभिवाद्य। भवति! भिक्षां देहि, इति प्रार्थ्य, मातृदत्तं भिक्षात्रयमाहृत्याचार्याय प्राह। भैक्षमिदं इति। तत्सुभैक्षमिति प्रति गृह्णीयात्। तत आशीर्वादादिकं कुर्यात्। दिनत्रयं सायं प्रातः समिदाधानं कुर्यात्।

** मौञ्जीकर्मावसानेऽस्मिन्नामभैक्षं समाचरेत्

चतुर्थदिवसे प्रातः समिदाधानं कृत्वा, कुमारमभ्यज्य, स्नापयित्वा, माद्ध्याह्निक ब्रह्मयज्ञौ कारयित्वा, ** आचार्येण सह प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य, पूर्वेणोत्तरेण वा पलाशवृक्षं त्रीण्युदगपवर्गाणि स्थण्डिलानि कल्पयित्वा, पुण्याहं कृत्वा, प्रोक्ष्य, अथ स्थण्डिलेषु यथाक्रमं प्रणवं श्रद्धां मेधां चावाह्य। आसनार्घ्यपाद्याचमनस्नान वस्त्रगन्धमाल्यधूपदीपबलींश्च दत्वाऽथोपतिष्ठते।

** अनुपाकृतवेदस्य कर्तव्ये ब्रह्मयज्ञके। वेदस्थाने तु गायत्री गम्यतेऽन्यत्समं भवेत्॥

यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। ॰ श्रु॒तं मे॑ गोपाय॥ इति प्रणवम्॥

श्र॒द्धया॒ऽग्निः समि॑द्ध्यते। ॰ ह॒विषा॑ वर्द्धयामसि। इति सूक्तेन श्रद्धाम्।

मे॒धा दे॒वी जु॒षमा॑णा ॰ जुषस्व॒ द्रवि॑णो न मेधे। इत्यनुवाकेन मेधां चोपस्थाय।

अथ कुमारस्य ब्रह्मचर्यव्रतलोपप्रायश्चित्तार्थं कृच्छ्रप्रत्यम्नायहिरण्यदानं कृत्वा॥ पलाशमूले दण्डं विसृज्य। वस्त्रयज्ञोपवीतमेखलाजिनदण्डादीनि मन्त्रेण धारयित्वा।

सू – वासश्चतुर्थीं यस्य त इत्येतयादत्तेऽन्यत्परिधाप्य॥

अथ कुमारो वासस्ते ददामीति पूर्वधृत वस्त्रमाचार्याय दद्यात्॥ अथाचार्यः। यस्य॑ ते प्रथमवा॒स्य॑ꣳ हरा॑म॒स्तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः। तं त्वा॒ भ्रात॑रः सु॒वृधो॒ वर्द्ध॑मान॒मनु॑जायन्तां ब॒हव॒ सुजा॑तम्॥ इति तद्वासः प्रतिगृह्णीयात्। अथाचार्येण सहोदकधारापूर्वकं गृहमागच्छति। आशीर्वादं च कुर्यात्।