१६ स्रुचः आसादनम्

[ तद्यथा = आज्यानां सादनकाले जुहूमासाद्य । उपभृदसीत्युपभृद्वत्पृषदाज्यधानीमासादयति । अवाहं बाध इति यजमान: । ऋषभौ स्थश्शाक्वरौ घृताचीनाꣳ सूनू प्रियेण नाम्ना प्रिये सदसि सीदतं स्रुवस्वधिती युगपदासादयति । स्योनौ मे सीदतꣳ सुषदौ पृथिव्यां प्रथयि प्रजया पशुभिस्सुवर्गे लोके । दिवि सीदतं पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्ना: । इमौ स्रुवस्वधिती अभि जिहृतो होमाञ्च्छतक्षरौ छन्दसानुष्टुभेन । सर्वा यज्ञस्य समङ्क्तो विष्ठा बार्हस्पत्येन शर्मणा दैवेन । इमे स्थाल्यौ घृतस्य दध्न: पूर्णे अच्छिन्नपयसौ शतधारावुत्सौ । मारुतेन शर्मणा दैव्येन । एता असदन्नित्यादि । अयं यज्ञो, ममाग्ने पञ्चहोतेत्यासन्नाभिमर्शनम् ।