०२ अन्वारम्भणीया

पुनः प्राणानायम्य । चातुर्मास्यान्यारप्स्यमानः अन्वारम्भणीयया यक्ष्ये । विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि । अध्वर्युः विहरणादि पौर्णमासवत्करोति । अद्य यज्ञाय । इमामूर्जं चतुर्दशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्व: । अग्निर्हव्यवाडिहतानावहतु । अन्वारम्भणीयꣳ हविरिदमेषां मयि । परिस्तरणान्तं कृत्वा । कर्मणे वां इत्यादि । पात्रासादनकाले द्वादशकपालानि स्थाली स्फ्यश्च द्वन्द्वम् । पुरतः अन्वाहार्यस्थालीवर्जमितराणि प्रयुज्य । पवित्रकरणादि । निर्वपणकाले देवस्य त्वा — अग्नये वैश्वानराय जुष्टं निर्वपामि । पर्जन्याय जुष्टं निर्वपामि । अग्ने वैश्वानर हव्यꣳ रक्षस्व । पर्जन्य हव्यꣳ रक्षस्व । सशूकायामित्यादि । देवस्य त्वा — हस्ताभ्यामग्नये वैश्वानराय वो जुष्टं प्रोक्षामि पर्जन्याय वो जुष्टं प्रोक्षामि । विभागकाले यथाभागं व्यावर्तेथाम् । इदमग्नेर्वैश्वानरस्य पेषणार्थान् । इदं पर्जन्यस्य चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा — हस्ताभ्यामग्नये वैश्वानराय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । कपालानामुपधानकाले द्वितीयचतुर्थषष्ठाष्टमानामावृत्या द्वादशकपालानि वैश्वानरस्योपधाय । ध्रुवोऽसि इति चरुस्थालीमुपदधाति । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । पुरोडाशमधिश्रित्य घर्मोऽसि इति तण्डुलानावपति । प्रथनादि पुरोडाशस्य । अन्तरितं इत्युभयोः । आप्यलेपं निनीय । वेदिकरणादि । आप्यायतां घृतयोनिः — पशूनां तेजासाग्नये वैश्वानराय जुष्टमभिघारयामि । पर्जन्याय जुष्टमभिघारयामि । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । उभयोरलङ्करणम् । प्रियेण नाम्ना प्रियꣳ सद आसीद इति हविरासादनम् । एवं सर्वत्र विकृतिषु । यज्ञोऽसि इति द्विः । अयं यज्ञ इत्यादि पौर्णमासवदभिमर्शनम् । वेदनिधानादि । आज्यभागानुमन्त्रणे विशेषः । अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुष्मान्भूयासम् । सोमेन यज्ञश्चक्षुष्मान् सोमस्याहं देवयज्यया चक्षुष्मान्भूयासम् इति सर्वत्र विकृतिषु इदमेव अनुमन्त्रणम् । उपांशु हविषा प्रचरति अग्नये वैश्वानराय, अनुब्रू३हि । अग्निं वैश्वानरम्, यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं देवयज्ययान्नादो भूयासम् । पर्जन्याय, अनुब्रू३हि । पर्जन्यम्, यज । पर्जन्यायेदम् । पर्जन्यस्याहं देवयज्ययान्नादो भूयासम् । न पार्वण होमः सर्वत्र । नारिष्ठान् हुत्वा । विरुज्य प्राशित्रम् । चतुर्धाकरणं चोभयोः । दक्षिणाकाले हिरण्यं धेनुं च अन्तर्वेद्यासाद्य । ब्रह्मा- ब्रह्मणी ब्रह्मणी स्थो ब्रह्मणे वां हुताद्य मा मा हिꣳसिष्टमहुते मह्यं शिवे भवतम् १। दक्षिणाकाले । ब्रध्न पिन्वस्व— । सहस्रधारे उत्से अक्षीयमाणे । ते दध्रतुः — ताभ्यां हिरणधेनुभ्यामतितराणि मृत्युम् । अग्नये हिरण्यम् । रुद्राय गां इति प्रतिग्रहः । यज्ञ शं च म वर्जं । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् । सिद्धमिष्टिस्सन्तिष्ठते । अग्नी परित्यज्य । सन्तिष्ठतेऽन्वारम्भणीयेष्टिः ।

॥ इति चातुर्मास्यान्वारम्भणीया ॥