१५ उपांशुग्रहः

देवस्य त्वा सवितुः — हस्ताभ्यामाददे ग्रावाणमुपांशुसवनमादाय । ग्रावास्यध्वरकृद्देवेभ्यो गम्भीरमिममध्वरं कृद्ध्युत्तमेन पविनेन्द्राय सोमꣳ सुषुतं मधुमन्तं पयस्वन्तं वृष्टिवनिम् ग्रावाणमभिमन्त्रयते । तमाददानो वाचं यच्छत्याग्रयणं गृहीत्वा विसृजते । अथैनमुपरे निधायांशुभिरभिमिमीते क्रयवत् । एतावन्नाना । इन्द्राय त्वा वृत्रघ्ने । इन्द्राय त्वा वृत्रतुरे । इन्द्राय त्वाभिमातिघ्ने । इन्द्राय त्वादित्यवते । इन्द्राय त्वा विश्वदेव्यावते एतैः प्रतिमन्त्रम् । पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् । नांशूनुपसमूहति । भूयांसं प्रातस्सवनाय राजानं प्रकल्पयत्यल्पीयांसं माध्यन्दिनाय । उपनह्य प्रत्यारोप्य एकग्रहायाप्तं राजानमुपरे न्युप्य होतृचमसेऽंशूनवधाय । तस्मिन्ग्रावाणमुपांशुसवनमुपरि धारयन् त्रिः प्रदक्षिणं परिप्लावयन्निग्राभमुपैति । प्रागपागुदगधराक्तास्त्वा दिश आ धावन्त्वम्ब निष्वर निग्राभमुपैति । श्वात्रास्स्थ वृत्रतुरो राधो गूर्ता अमृतस्य पत्नीस्ता देवीर्देवत्रेमं यज्ञं धत्तोपहूतास्सोमस्य पिबतोपहूतो युष्माकꣳ सोमः पिबतु तासामेकदेशेनोपसृज्य । उपसृष्टस्य राज्ञः षडंशूनार्द्रान् संश्लिष्टानादाय । चर्मणि निधाय । यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्यधि दात्रेऽवोचः राजानमभिमन्त्रयते । धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जं मे धत्तं मा वाꣳ हिꣳसिषं मा मा हिꣳसिष्टम् अधिषवणफलके । अवीवृधं वो मनसा सुजाता ऋतप्रजाता भग इद्वस्स्याम । इन्द्रेण देवीर्वीरुधस्संविदाना अनुमन्यन्ताꣳ सवनाय सोमम् राजानमेवाभिमन्त्र्य । मा भेर्मा सं विक्थाः ग्रावाणमुद्यम्य । अनागसस्त्वा वयमिन्द्रेण प्रेषिता उप वायुष्टे अस्त्वꣳशभूर्मित्रस्ते अस्त्वꣳ शभूर्वरुणस्ते अस्त्वꣳशभूः । अहतस्सोमो राजा तृणमन्तर्धायाभिषुणोति । एकम् । आ मास्कन् सह प्रजया सह रायस्पोषेणेन्द्रियं मे वीर्यं मा निर्वधीः प्रथमप्लुतमंशुमभिमन्त्रयते । अष्टौ कृत्वोऽग्रेऽभिषुणोति । द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु सञ्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः इति विप्रुषोऽनुमन्त्रयते । अथ प्रतिप्रस्थाता उपांशुपात्रं धारयन् अपात्तानामुपरि द्वावंशू अन्तर्दधाति । अध्वर्युः उभाभ्यां हस्ताभ्यां अभिषुतं सोमं दक्षिणेन हस्तेन प्रपीड्य अञ्जलिनादाय १। वाचस्पतये पवस्व वाजिन् वृषा वृष्णो अꣳशुभ्यां गभस्तिपूतो देवो देवानां पवित्रमसि येषां भागोऽसि तेभ्यस्त्वा तस्मिन्नुपांशुपात्रे गृह्णाति । पवित्रमुपयामस्सादनं च न विद्यते । अंशुद्वयस्य निधानमाग्नेयस्यातिग्राह्यस्याधस्तात् । एष प्रथमः पर्यायः । एवं विहितो द्वितीयस्तृतीयश्च । प्राक् श्वात्रास्थ यत्ते सोम धिषणे वीढू अवीवृधं वो मा भेरनागसस्त्वाऽऽमास्कान् द्रप्सो वाचस्पतिर्दश । अपि वा एकादशकृत्वो द्वितीयमभिषुणोति । द्वादशकृत्वस्तृतीयम् । द्विरादितोऽन्ततो वा निग्राभोपायनमुपसर्गश्च । होतृचमसीयानंशूनुत्तमे पर्यायेऽभिषुणोति । अवशिष्टानां प्रतिप्रस्थाता द्वौ द्वावंशू अन्तर्दधाति । उपांशुपावनानंशूनतिग्राह्यपात्राणामधस्तान्निदधाति । ऐन्द्रस्याधस्तात् द्वितीये सौर्यस्याधस्तात्तृतीये । स्वाङ्कृतोऽसि मधुमतीर्न इषस्कृधि विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः ग्रहमादाय । उर्वन्तरिक्षमन्विहि दक्षिणेन होतारमतिक्रामति येन वा होता प्रतिपादयेत् । मनस्त्वाष्टु दक्षिणतोऽवस्थाय । दक्षिणं परिधिसन्धिमन्ववहृत्य । स्वाहा त्वा सुभवस्सूर्याय दक्षिणतः प्राञ्चमृजुं सन्ततं दीर्घं हुत्वा । प्राणायेदम् । देवेभ्यस्त्वा मरीचिपेभ्यः मध्यमे परिधौ लेपं निमार्ष्टि । देवेभ्यो मरीचिपेभ्य इदम् । सर्वमाग्रयणस्थल्यां सम्पातमवनीय । एष ते योनिः प्राणाय त्वा रिक्तं पात्रमायतने सादयित्वा । तस्मिन्नंशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयात् ।