०१ वरप्रेषणम्

वरः प्राणानायम्य, वरान् प्रेषयिष्य इति सङ्कल्प्य, सुहृदः समवेतान् मन्त्रविदो वरान् प्रहिणुयात् तानादितो द्वाभ्यामभिमन्त्रयेत ।

प्रसुग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभिषुप्रसीदत ।
अस्माकमिन्द्र उभयञ्जुजोषति यत्सौम्यस्यान्धसो बुबोधति ।
अनृक्षरा ऋजवस्सन्तु पन्था येभिस्सखायो यन्ति नो वरेयम् ।
समर्यमा सम्भगोनो निनीयात्सञ्जास्पत्यँसुयममस्तु देवाः ।

यूयममुकगोत्रान्मह्यं कन्यां वृणीध्वम् इति प्रेषयेत् । ततस्ते कन्यावन्तं गत्वा अमुक-गोत्रस्य अमुक-शर्मणो नप्त्रे, अमुक-गोत्रस्य अमुक-शर्मणः पौत्राय, अमुक-गोत्रस्य अमुक-शर्मणः पुत्राय, अमुक-गोत्रायामुकशर्मणे वराय, अमुक-गोत्रस्यामुकशर्मणो नप्त्रीम्, अमुक-गोत्रस्यामुकशर्मणः पौत्रीम्, अमुक-गोत्रस्यामुकशर्मणः पुत्रीम्, अमुक-गोत्रजाम् अमुक-नाम्नीं भवदीयामिमां कन्यां धर्मप्रजार्थं वृणीमह इति वृत्वा, कन्यावता दास्यामीत्युक्ते प्रत्येत्य, सिद्धार्था वयमिति वराय निवेदयेयुः । दुहितृमतो गृहं वरमानेयुः । अथोपोषितः कन्यादाता प्राणानायम्य, श्रीगोविन्देत्यादि–अस्यां शुभतिथौ दशानां पूर्वेषां दशानां परेषामात्मनश्चैकविंशतिकुलोत्तारणार्थं कन्यकादानाख्यमहादानं करिष्ये, वरस्य पादौ प्रक्षाल्या(चम्या)चमय्या

[[105]]

अमुक-गोत्रस्यामुकशर्मणो नप्त्रे, अमुक-गोत्रस्य अमुक-शर्मणः पौत्राय, अमुक-गोत्रस्यामुकशर्मणः पुत्राय, अमुक-गोत्रायामुकशर्मणे वराय । अमुक-गोत्रस्यामुकशर्मणो नप्त्रीम्, अमुक-गोत्रस्यामुकशर्मणः पौत्रीम्, अमुक-गोत्रस्यामुकशर्मणः पुत्रीम्, अमुक-गोत्रजाम् अमुक-नाम्नीं मदीयामिमां कन्यां तुभ्यमहं प्रजासहत्वकर्मभ्यः प्रतिपादयामि, कन्याप्रषेण-पूर्वमिति केचित् ।

कन्यां कनकसम्पन्नां सर्वाभरणभूषिताम् ।
दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥
कन्ये ममाग्रतो भूयाः कन्ये मे देहि पार्श्वतः ।
कन्ये मे सर्वतो भूयाः त्वद्दानान्मोक्षमाप्नुयात् ॥
विश्वम्भरः पञ्चभूतः साक्षिणः सर्वदेवताः ।
इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ॥

इत्युच्चार्य, सहिरण्याक्षतोदकं कन्याया दक्षिणहस्तं वरस्य दक्षिणहस्ते दत्वा, तस्मिन् काले वराय गोभूवस्त्रभूषणालङ्कारादि दद्यात् ॥

ततस्तां कन्यां “देवस्य त्वा सवितुःप्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां कन्यां प्रतिगृह्णामि", इति प्रतिगृह्य, तया सह विवाहस्थाने प्राङ्मुखमुपविश्य, पवित्रपाणिः प्राणानायम्य, श्रीगोविन्देत्यादि-उद्वाहकर्म करिष्य इति सङ्कल्प्य, स्थण्डिलं कल्पयित्वा -

प्राचीः पूर्वमुदक्सँस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचिः पुरस्सँस्थं पश्चिमारम्भमालिखेत् ॥

अवाक्करोऽभ्युक्ष्य तृणं नैर्ऋत्यां निरस्याप उपस्पृश्य, निधाय प्राच्यामुदीच्यां वा उत्सृज्यतेवोक्षणतोयशेषं प्राक्तोयमन्यन्निदधात्युदग्वा यथा बहिःस्याच्च परिस्तराणां पुनः कन्यागृहं गच्छेत्,

[[106]]

दाता प्राणानायम्य, मधुपर्कदानं करिष्य इति सङ्कल्प्य, यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथा पुरस्तात्, ‘अयं कूर्चः’ । प्रतिग्रहीता ‘सुकूर्चः’ तस्मिन्नुत्तरेण यजुषोपविशति “राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम्” । दाता ‘आपः पाद्या’ इति प्राह प्रतिगृहीता उत्तरयाभिमन्त्र्य

आपः पादावनेजनीर्द्विषन्तं नाशयन्तु मे ।
अस्मिन्कुले ब्रह्मवर्चस्यसानि ।

दक्षिणं पूर्वं ब्राह्मणाय प्रयच्छेत् । दाता पूर्ववत् पादौ प्रक्षालयेत् । वरोऽप उपस्पृश्य, प्रक्षालयितारं दक्षिणे भुजे स्पृष्ट्वा, प्रतिलोमेन पाणिना

मयि महो मयि यशो मयीन्द्रियं वीर्यम्

इति स्वहृदयमभिमृश्य, अप उपस्पृश्य, आचामेत् । दाता मृण्मये पात्रे पुष्पाक्षतसंयुक्तजलमानीय, सकूर्चाभ्यां पाणिभ्याम् अधस्तादुपरिष्टाच्च परिगृह्य, अर्हणीया आपः इति ब्रूयात् । वरस्तु

आमागन् यशसा वर्चसा सँसृज पयसा तेजसा च ।
तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम्

इत्यभिमन्त्र्य, तदेकदेशे दात्रा स्वाञ्जलौ दीयमाने

विराजो दोहोऽसि विराजो दोहमशीय मम पद्याय विराज

इति जपित्वा, तच्छेषं दात्रा पुरस्तान्नीयमानं

समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत ।
अच्छिद्रः प्रजया भूयासं मा परासेचिमत्पयः ॥

इत्येतयानुमन्त्रयेत् ।
दाता वराय वस्त्र-कुण्डलाङ्गुलीयादि दत्वा,
दाता दधि मध्विति संसृज्य,
कांस्येन वर्षीयसा पिधाय,
कूर्चाभ्यां परिगृह्य,
मधुपर्क इति प्राह,
“अयं मधुपर्को मधुपर्को मधुपर्कः”
प्रतिगृहीता उत्तराभ्यामभिमन्त्र्य

त्रय्यै विद्यायै यशसो यशोऽसि ब्रह्मणो दीप्तिरसि ।
तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम् ।
आमागन् यशसा वर्चसा सँसृज पयसा तेजसा च ।
तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम् ।

यजुर्भ्यामप आचामति । पुरस्तादुपरिष्टाच्च “अमृतोपस्तरणमसि” इत्यपः पीत्वा, उत्तरया त्रिः प्राश्य,

[[107]]

यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम् ।
तेनाहं मधुनो मधव्येन परमेणान्नाद्येन वीर्येण परमोन्नादो मधव्योऽसानि ।

इति मधुपर्कं त्रिः प्राश्य, सकृन्मन्त्रेण द्विस्तूष्णीम् “अमृतापिधानमसि” पुनरपः प्राश्य, पाणी प्रक्षाल्याचम्य, शेषमनुकम्प्याय प्रयच्छेत् । दाता गौरिति गां प्राह, प्रतिग्रहीता उत्तरयाऽभिमन्त्र्य,

अस्यपहतपाप्मापपाप्मानं जहि अमुक-शर्मणे मम च अमुक-शर्मणेऽमुष्य च ।
अग्निः प्राश्नातु प्रथमः स हि वेद यथा हविः ।

यद्युत्सृजेदुपांशून् मन्त्रान् जपित्वा,

अरिष्टमस्माकं कृण्वन् ब्रह्मणो ब्राह्मणेभ्यः ।
यज्ञो वर्धतां यज्ञस्य वृद्धिमनुवर्द्धापचितिरस्यापचितिं मा कुर्वपचितोऽहं मनुष्येषु भूयासम् ।
गौर्धेनु भव्यामातारुद्राणां दुहिता वसूनाँ स्वसादित्यानाममृतस्य नाभिः ।
प्रणु वोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट ।
पिबतूदकं तृणान्यत्तु । ओमुथ्सृजत

इत्युच्चैः । दाता भूतमित्यन्नं ब्रूयात् । प्रतिग्रहीता उपांशूत्तरैरभिमन्त्रय

सुभूतं सा विराट् तन्मा क्षायि तस्य तेऽशीय तन्म ऊर्जन्धाः ।
ओं कल्पयत ।

ततो दाता वरं भोजयेत्, ततो वरः तण्डुलराशिस्थां धान्यराशिस्थां वा कन्यां दृष्ट्वा,

अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पते ।
इन्द्रापुत्रघ्नीं लक्ष्म्यन्तामस्यै सवितस्सुव

इति जपित्वा, चक्षुरुपसङ्गृह्य

अघोरचक्षुरपतिघ्न्येधि शिवा पतिभ्यस्सुमनास्सुवर्चाः ।
जीवसूर्देवकामा स्योना शन्नो भव द्विपदे शञ्चतुष्पदे

इति कन्यादृष्टौ स्वदृष्टिं निपात्य, अवयवशः समीक्ष्य, तया सह दर्भेष्वासीनः प्राणानायम्य, आवाभ्यां कर्माणि कर्तव्यानि प्रजाश्चोत्पादयितव्याः । पत्यर्थं पुनः प्राणानायम्य, आवाभ्यां कर्माणि कर्तव्यानि प्रजाश्चोत्पादयितव्याः इति पत्नींं वाचयति । अङ्गुष्ठानामिकाभ्यां दर्भं सङ्गृह्य, तेन “इदमहं या त्वयि पतिघ्न्यलक्ष्मिस्तान्निर्दिशामि” इति तस्याः भ्रुवोः मध्यं सम्मृज्य, पश्चान्निरस्याप उपस्पृश्य,

[[108]]

तया तन्मात्रादिभिर्वा अन्योन्यवियोगचिन्तया रोदने कृते

जीवाँ रुदन्दि विमयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः ।
वामं पितृभ्यो य इदँ समेरिरेमयः पतिभ्यो जनयः परिष्वजे

इति जपेत् । ततो वेदविदः समवेतान् चतुरो ब्राह्मणान् वधूस्नानार्थमुदकुम्भमाहर्तुं

व्युक्षत्कूरमुदचन्त्वाप आस्यै ब्राह्मणास्स्नपनँ हरन्तु ।
अवीरघ्नीरुदचन्त्वापः

इति उच्चैः प्रेषयेत् । ते च यत्र पूर्वं पुरुषाः स्नानादिषु न मृताः तत उदकमानयेयुः । अथ वरो दर्भैः कृतं वलयम्

अर्यम्णो अग्निं परियन्तु क्षिप्रं प्रतीक्षन्ताँ श्वश्र्वो देवराश्च

इति तस्याश्शिरसि निधाय, तदुपरि

खेनसः खेरथः खेयुगस्य शचीपते ।
अपालामिन्द्रः त्रिः पूर्त्यकरत्सूर्यवर्चसम्

इति दक्षिणं बाह्ययुगच्छिद्रं निधाय, तस्मिंश्छिद्रे

शन्ते हिरण्यँ शमु सन्त्वापश्शन्ते मेधी भवतु शय्ँयुगस्य तृद्म ।
शन्त आपश्शतपवित्रा भवन्त्वथा पत्या तन्वँ सँसृजस्व

इति हिरण्यमन्तर्धाय, पूर्वमाहृतेन जलेन

हिरण्यवर्णाश्शुचयः पावकाः प्रचक्रमुर्हित्वाऽवद्यमापः ।
शतं पवित्रा वितता ह्यासु ताभिष्ट्वा देवस्सविता पुनातु ।
हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्वग्निः ।
या अग्निं गर्भं दधिरे सुवर्णास्तास्त आपश्शँस्योना भवन्तु ।
यासाँ राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।
या अग्निं गर्भं दधिरे सुवर्णास्तास्त आपश्शँस्योना भवन्तु ।
यासान्देवा दिविकृण्वन्ति भक्षं या अन्तरिक्षे बहुधा निविष्टाः ।
या अग्निं गर्भं दधिरे सुवर्णास्तास्त आपश्शँस्योना भवन्तु ।
शिवेन त्वा चक्षुषा पश्यन्त्वापः शिवया तन्वोपस्पृशन्तु त्वचन्ते ।
घृतश्चुतश्शुचयो याः पावकास्तास्त आपश्शँस्योना भवन्तु ।

इति पञ्चभिः स्नापयित्वा,

परित्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वृद्धायुमनुवृद्धयो जुष्टा भवन्तु जुष्टयः

इति अहतं वासः परिधाप्य, द्विराचमय्य, आसीनायाः प्राङ्मुख्या वध्वाः कण्ठे माङ्गल्यसूत्रं

[[109]]

माङ्गल्यतन्तुनाऽनेन मम जीवनहेतुना ।
कण्ठे बध्नामि सुभगे त्वं जीव शरदां शतम् ॥

इति बध्वा

आशासाना सौमनसं प्रजाँ सौभाग्यं तनूम् ।
अग्नेरनुव्रता भूत्वा सन्नह्ये सुकृताय कम् ॥

तस्याः कटिदेशे योक्त्रेण सन्नह्य, स्वस्य दक्षिणहस्तेन तस्या दक्षिणं हस्तं गृहीत्वा,

पूषा त्वेतो नयतु हस्त गृह्याश्विनौ त्वा प्रवहताँ रथेन ।
गृहान् गच्छ गृहपत्नी यथाऽसो वशिनी त्वं वितथमावदासि ॥

इति अग्नेरभिमुखमानीय, अग्नेः पश्चादुदगग्रं कटमास्तीर्य, तस्मिन् दक्षिणतो वधूः उत्तरतः स्वयं च युगपदुपविश्य, अग्निं परिस्तीर्य, अग्नेरुत्तरतः दर्भान् सँस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । दर्वीमाज्यस्थालीं प्रोक्षणीं प्रणीतिमिध्ममितरदर्वीं च सादयित्वा, तदुत्तरतः अश्मानं लाजांश्च युगपत्सादयित्वा, आयामतः परीमाणमित्यादि आज्यभागान्ते,

सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ।
सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये ।
रयिञ्च पुत्राँश्चादादग्निर्मह्यमथो इमाम् ॥

इति पत्नीमभिमन्त्र्य, तस्या उत्तानं साङ्गुष्ठं दक्षिणं हस्तमवाचीनेन स्वदक्षिणहस्तेन

गृभ्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथाऽसः ।
भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ।
ते ह पूर्वे जनासो यत्र पूर्ववहो हिताः ।
मूर्धन्वान् यत्र सौभ्रवः पूर्वो देवेभ्य आतपत् ।
सरस्वति प्रेदमव सुभगे वाजिनीवति ।
तान्त्वा विश्वस्य भूतस्य प्रगायामस्यग्रतः ।
य एति प्रदिशस्सर्वा दिशोऽनुपवमानः ।
हिरण्यहस्त ऐरम्यस्स त्वा मन्मनसं कृणोतु

इति चतसृभिः हस्तं गृहीत्वा, तया सहोत्थाय, अग्नेरुत्तरतो गत्वा,

[[110]]

तत आरभ्य, प्रागायतनानि उदगायतनानि वा सप्तपदानि

एकमिषे विष्णुस्त्वान्वेतु द्वे उर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मायो भवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्वेतु षड्रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु

इति सप्तभिः प्रतिमन्त्रं दक्षिणेन पदा प्रक्रम्य, सप्तमे पदे निहिते

सखा सप्तपदा भव सखायौ सप्तपदा बभूव सख्यन्ते गमेयँसख्यात्ते मा योषँ सख्यान्मे मा योष्ठास्समयाव सङ्कल्पावहै सम्प्रियौ रोचिष्णू सुमनस्यमानौ ।
इषमूर्जमभिसंवसानौ सन्नौ मनाँसि संव्रता समुचित्तान्याकरम् ।
सा त्वमस्यमूहममूहमस्मि सा त्वं द्यौरहं पृथिवी त्वँ रेतोऽहंँ रेतोभृत्त्वं मनोऽहमस्मि वाक्त्वँ सामाहमस्म्यृक्त्वँ सा मामनुव्रता भव पुँसे पुत्राय वेत्तवै श्रियै पुत्राय वेत्तवा एहि सूनृते ।

इति जपित्वा अग्निं प्रदक्षिणं कुर्यात् । सर्वेष्वपि प्रदक्षिणेषु आज्यस्थालीं प्रणीतिमश्मानं लाजांश्चाभ्यन्तरे कृत्वा, दक्षिणतो निषादितस्य ब्राह्मणस्याग्नेश्चान्तरा गच्छेत्, एवं पत्न्या सह प्रदक्षिणं कृत्वा, यथास्थानमुपविश्य, हस्तं मुक्त्वा, पत्न्यान्वारब्धः

सोमाय जनिविदे स्वाहा - सोमाय जनिविद इदम् ।
गन्धर्वाय जनिविदे स्वाहा - गन्धर्वाय जनिविद इदम् ।
अग्नये जनिविदे स्वाहा - अग्नये जनिविद इदम् ।
कन्यला पितृभ्यो यतीपतिलोकमवदीक्षामदास्थ स्वाहा - आत्मन इदम् ।
प्रेतो मुञ्चाति नामुतस्सुबद्धाममुतस्करत् ।
यथेयमिन्द्रमीढ्वः सुपुत्रासुभगासति स्वाहा - इन्द्राय मीढुष इदम् ।
इमान्त्वमिन्द्रमीढ्वस्सुपुत्राँ सुभगां कुरु ।
दशास्यां पुत्रानाधेहि पतिमेकादशं कृधिस्वाहा इन्द्राय मीढुष इदम् ।
अग्निरैतु प्रथमो देवतानाँ सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् ।
तदयँ राजा वरुणोऽनुमन्यतां यथेयँ स्त्री पौत्रमघं न रोदात्स्वाहा - अग्नय इदम् ।
इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः ।
अशून्योपस्थाजीवतामस्तु

[[113]]

मध्ये सम्भावित—प्रायश्चित्तार्थं सर्वप्रायश्चित्तहोमं होष्यामि । प्रायश्चित्ताहुतीः हुत्वा, प्राणानायम्य, परिषिच्य, प्रणीतावोक्षणं ब्रह्मोद्वासनं च कृत्वा, ओं श्रीविष्णवे स्वाहेति पूर्णाहुतीः हुत्वा, “अग्ने नय” इत्यग्निमुपस्थाय, प्रणम्याभिवाद्य,

प्रत्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नाथ्सविता सुकेतः ।
धातुश्च योनौ सुकृतस्य लोके स्योनन्ते सह पत्या करोमि ।
इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुशेवः ।
धातुश्च योनौ सुकृतस्य लोकेऽरिष्टान्त्वा सह पत्या कृणोमि ।

इति योक्त्रं विमुच्य, पश्चान्निरस्याप उपस्पृशेत् । एतमेवाग्निं यावज्जीवं धारयेत् ।
एतस्मिन्न् अग्नौ
यद्-ऋतेचिद्-इति-होम–प्रविश्य-होम–सर्व-स्थालीपाक–शेष-होम–पुंसवन-सीमन्त–गृह-प्रवेश–पार्वण-पिण्ड-पितृ-यज्ञौपासन-वैश्वदेव–पञ्च-महा-यज्ञादीनि कुर्यात् ।
सदस्यान् सम्पूजयेत् ॥